स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २०३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ आनर्त उवाच ॥ ॥
एवं शुद्ध्यर्थमायातो नागराणां पुरः स्थितः ॥
नागरः शुद्धिमाप्रोति यथा तन्मे वद द्विजः ॥ १ ॥
॥ विश्वामित्र उवाच ।१ ॥
एवं मध्यस्थवचनात्समुदाये स्थिरे सति ॥
स प्रष्टव्यः पितुर्माता कतमा ते वदस्व नः ॥ २ ॥
किं गोत्रः कतमस्तस्याः पिता किंप्रवरः स्मृतः ॥
एवं तस्यान्वयं ज्ञात्वा गोत्रप्रवरसंयुतम् ॥ ३॥
प्रष्टव्या च ततो माता तस्याश्चापि च या भवेत् ॥
जननी चापि प्रष्टव्या तस्याश्चापि च या भवेत् ॥ ४ ॥
ज्ञातव्या सापि यत्नेन ब्राह्मणैः शुद्धि कर्मणि॥५॥
पिता पितामहश्चैव तथैव प्रपितामहः॥
शोधनीयाः प्रयत्नेन त्रयश्चैतेऽपि तस्य च॥६॥
तथा पितामहीपक्षे त्रय एते द्विजोत्तमाः॥
मातामहस्ततस्तस्य पिता तस्यापि यः पिता॥७॥
माता मातामही चैव तथैवान्या प्रपूर्विका॥
पितामह्याश्च या माता सापि शोध्या सभर्तृका ॥ ८ ॥
एवं शाखाऽगमं ज्ञात्वा तस्य सर्वं यथाक्रमम् ॥
मूलवंशादधिष्ठानं न्यग्रोधस्येव सर्वतः ॥ ९ ॥
ततः शुद्धिः प्रदातव्या सिन्दूरति लकेन तु ॥
चातुश्चरणमंत्रैश्च दत्त्वाशीर्वचनं क्रमात् ॥ ६.२०३.१० ॥
ततो वाच्यं नृपश्रेष्ठ मध्यस्थेन तदग्रतः ॥
दत्त्वा तालत्रयं राजञ्छुद्धोऽयं नागरो द्विजः ॥
सामान्यपदयोग्यश्च संजातः सांप्रतं द्विजः ॥ ११ ॥
ततोऽग्निशरणं गत्वा संतर्प्य च हुताशनम् ॥
पञ्चवक्त्रेण मंत्रेण दत्त्वा पूर्णाहुतिं ततः॥
विप्रेभ्यो दक्षिणां दद्यात्स्वशक्त्या भोजनान्विताम् ॥ १२ ॥
सिन्दूरतिलके जाते ब्रह्माग्रे द्विजवाक्यतः ॥
पितॄणां जायते तुष्टिर्वंशो नोऽद्य प्रतिष्ठि तः ॥ १३ ॥
यस्य नो जायते शुद्धिः शाखाभिर्मूलवंशगा ॥
निग्रहस्तस्य कर्तव्यो द्विजार्हो द्विजसत्तमैः ॥ १४ ॥
यथा नान्यो हि जायेत शुद्धि स्तस्य प्रकल्पिता॥
एवं संशोधितो विप्रः श्राद्धार्हो जायते ततः॥१५॥
अपि चाष्टकुलोत्पन्नः सामान्यः किं पुनर्हि यः॥
अशुद्धेन तु विप्रेण यः श्राद्धा द्यं करोति हि ॥
तस्य भस्महुतं यद्वत्सर्वं तज्जायते वृथा ॥१६॥
तस्मात्सर्वप्रयत्नेन शोध्योऽयं नागरो द्विजः ॥
स्वस्थानस्य विशुद्ध्यर्थं तथैव स्वकु लस्य च ॥ १७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागरविशुद्धिप्रकारवर्णनंनाम त्र्युत्तरद्विशततमोऽध्यायः ॥ २०३ ॥