स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १९८

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
एतस्मिन्नेव काले तु दशार्णाधिपतिस्तदा ॥
रत्नवत्या विवाहार्थं तत्र स्थाने समागतः ॥ १ ॥
स श्रुत्वा तत्र वृत्तांतं रत्नवत्याः समुद्भवम् ॥
विरक्तिं परमां कृत्वा प्रस्थितः स्वपुरं प्रति ॥ २ ॥
तं श्रुत्वा प्रस्थितं भूपमानर्तः स्वपुरं प्रति ॥
पृष्ठतोऽनुययौ तस्य व्याघो टनकृते तदा ॥४ ३ ॥
अथाब्रवीच्च तं प्राप्य कस्मात्त्वं प्रस्थितो नृप ॥
पाणिग्रहमकृत्वा तु मम कन्यासमुद्भवम् ॥ ४ ॥
॥ दशार्ण उवाच ॥ ॥
दूषितेयं तव सुता कन्यकात्वविवर्जिता ॥
यस्याः पीतोऽधरोऽन्येन मर्दितौ च तथा स्तनौ ॥ ५ ॥
पुनर्भूरिति संज्ञा सा सञ्जाता दुहिता तव ॥
पुनर्भूर्जनयेत्पुत्रं यं कदाचित्कथंचन ॥ ६ ॥
स पातयत्यसंदिग्धं दश पूर्वान्दशापरान् ॥
एकविंशतिमं चैव तथैवात्मानमेव च ॥ ७ ॥
न वरिष्याम्यहं तेन सुतां तेऽहं नरसिप ॥
निर्दाक्षिण्यमिति प्रोच्य दशार्णाधिपतिस्तदा ॥ ८ ॥
छंद्यमानोऽपि विविधैर्हस्त्यश्वरथपूर्वकैः ॥
अवज्ञाय महीपालं प्रस्थितः स्वपुरं प्रति ॥ ९ ॥
अथानर्त्तो गृहं प्राप्य मृगावत्याः समाकुलः ॥
तद्वृत्तं कथयामास यदुक्तं तेन भूभुजा ॥
स्वभार्यायाः सुतायाश्च मन्त्रिणां दुःखसंयुतः ॥ ६.१९८.१० ॥
ते प्रोचुः संति भूपालाः संख्याहीना महीतले ॥
रूपाढ्या यौवनोपेता हस्त्यश्वरथसंयुताः ॥ ११ ॥
तेषामेकतमस्य त्वं देहि कन्यां निजां विभो ॥
मा विषादे मनः कृत्वा दुःखस्य वशगो भव ॥ १२ ॥
आनर्तोऽपि च तच्छ्रुत्वा तेषां वाक्यं सुदुःखितम् ॥
ततः प्राह प्रहृष्टात्मा तान्सर्वान्मन्त्रिपूर्वकान्॥ १३ ॥
तां च कन्यां स्थितां तत्र साम्ना परमवल्गुना ॥
पुत्रि दृष्टा महीपालाः सर्वे चित्रगतास्त्वया ॥ ॥ १४ ॥
तेषां मध्यान्नृपं चान्यं कञ्चिद्वरय शोभने ॥
यस्ते चित्तस्य सन्तोषं कुरुते दृक्पथं गतः ॥ १५ ॥
॥ रत्नावत्युवाच ॥ ॥
न चाहं वरयिष्यामि पतिमन्यं कथंचन ॥
दशार्णाधिपतिं मुक्त्वा श्रूयतामत्र कारणम् ॥ १६ ॥
सकृज्जल्पंति राजानः सकृज्जल्पंति च द्विजाः ॥
सकृत्कन्याः प्रदीयंते त्रीण्येतानि सकृत्सकृत् ॥ १७ ॥
एवं ज्ञात्वा न मां तात त्वमन्यस्मिन्महीपतौ ॥
दातुमर्हसि धर्मोऽयं न भवेच्छाश्वतो यतः ॥१८॥ ॥
॥ आनर्त उवाच ॥ ॥
वाङ्मात्रेण प्रदत्ता त्वं दशार्णाधिपतेर्मया ॥
न ते हस्तग्रहं प्राप्तो विप्राग्निगुरुसन्निधौ ॥ १९ ॥
तत्कथं स पतिर्जातस्तवः पुत्रि वदस्व मे ॥ ६.१९८.२० ॥
॥ रत्नावत्युवाच ॥ ॥
मनसा चिंत्यते कार्यं सकृत्तातपुरा यतः ॥
वाचया प्रोच्यते पश्चात् कर्मणा क्रियते ततः ॥ २१ ॥
तन्मया मनसा दत्तस्तस्यात्माऽयं पुरा किल ॥
त्वया च वाचया चास्मै प्रदत्तास्मि तथा विभो ॥
तत्कथं न पतिर्मे स्याद्ब्रूहि वा यदि मन्यसे॥२२॥
साहं तपश्चरिष्यामि कौमारव्रतधारिणी ॥
नान्यं पतिं करिष्यामि निश्चयोऽयं मया कृतः ॥ २३ ॥
तच्छ्रुत्वा वचनं रौद्रं माता तस्या मृगावती ॥
अश्रुपूर्णेक्षणा दीना वाक्यमेतदुवाच ह ॥ २४ ॥
मा पुत्रि साहसं कार्षीस्तपोऽर्थं त्वं कथञ्चन ॥
बाला त्वं सुकुमारांगी सदैव सुखभागिनी ॥२५॥
कथं तपः समर्थासि विधातुं त्वमनिंदिते ॥
कन्दमूलफलाहारा चीरवल्कलधारिणी ॥२६ ॥
तस्मान्मुख्यस्य भूपस्य कस्यचित्वां ददाम्यहम्॥ ॥ २७ ॥
एषा ते ब्राह्मणीनाम सखी परमसंमता ॥
प्रतीक्षते विवाहं ते कौमारं भावमाश्रिता ॥ २८ ॥
यस्य भूपस्य त्वं हर्म्ये प्रयास्यसि विवाहि ता ॥
पुरोधास्तस्य यो राज्ञो भार्येयं तस्य भाविनी ॥ २९ ॥
॥ रत्नावत्युवाच ॥ ॥
न च भूयस्त्वया वाच्यं वाक्यमेवंविधं क्वचित् ॥
मदर्थे यदि मे प्राणास्त्वं वांछसि सुतैषिणी ॥ ६.१९८.३० ॥
अथवा त्वं हठार्थं च तपोविघ्नं करिष्यसि ॥ ३१ ॥
ततस्त्यक्ष्याम्यहं देहं भक्षयित्वा महद्विषम्॥
खंडयिष्याम्यहं जिह्वां प्रवेक्ष्यामि च वा जलम्॥३२॥
एवं सा निश्चयं कृत्वा प्रोच्य तां जननीं तदा॥३३॥
ततः प्रोवाच तां कन्यां ब्राह्मणीं संमतां सखीम्॥
कृतांजलिपुटा भूत्वा समालिंग्य च सादरम्॥३४॥
गच्छ त्वं स्वपितुर्हर्म्यं प्रेषितासि मया शुभे॥
येन ते यच्छति पिता नागराय महात्मने ॥ ३५ ॥
क्षमस्व यन्मया प्रोक्ता कदाचित्परुषं वचः ॥
त्वयापि यन्मम प्रोक्तं क्षांतं चैतन्मया ध्रुवम् ॥ ३६ ॥ ॥
॥ ब्राह्मण्युवाच ॥ ॥
अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ॥
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥ ३७ ॥
कौमार्यं च प्रणष्टं मे त्वत्संपर्काद्वरानने ॥
जातं षोडशकं वर्षं स्त्रीधर्मेण समन्वितम् ॥ ३८ ॥
न मे पाणिग्रहं कश्चिन्नागरोऽत्र करिष्यति ॥
बुध्यमानस्तु स्मृत्यर्थं वक्ष्य माणं वरानने ॥ ३९ ॥
रजस्वलां च यः कन्यामुद्वाहयति निर्घृणः ॥
तस्याः सन्तानमासाद्य पातयेत्पुरुषान्दश ॥ ६.१९८.४० ॥
रजस्वला तु यः कन्यां पिता यच्छति निर्घृणः ॥
स पातयेदसंदिग्धं दश पूर्वान्दशापरान् ॥ ४१ ॥
तस्मादहं करिष्यामि त्वया सार्धं तपः शुभे ॥
पित्रा नैव हि मे कार्यं न च मात्रा कथंचन ॥ ४२ ॥
॥ सूत उवाच ॥ ॥
एवं ते निश्चयं कृत्वा कन्यके द्वे द्विजोतमाः ॥
गते यत्र स्थितः साक्षाद्भर्तृयज्ञो महामुनिः ॥ ४३ ॥
स्थितो वास्तुपदे रम्ये सर्वतीर्थमये शुभे ॥
तस्य तपःप्रभावेन जातु कोपो न दृश्यते ॥ ४४ ॥
कस्यचित्क्वापि मर्त्यस्य तिर्यग्योनिग तस्य च ॥
क्रीडंति नकुलाः सर्पैर्मार्जाराः सह मूषकैः ॥ ४६ ॥
सारंगा द्वीपिभिः सार्धं काकाश्च सह कौशिकैः ॥
भर्तृयज्ञं सुखासीनं तत्र गत्वा तु ते शुभे ॥
प्रोचतुर्विनयोपेते कृतांजलिपुटे स्थिते ॥ ४६ ॥
॥ ब्राह्मण्युवाच ॥ ॥
अहं सख्या समं याता ह्यनया राजकन्यया ॥
तपोऽर्थे तव पादांते तद्ब्रूहि तपसो विधिम् ॥ ४७ ॥
 वदस्व येन तत्कृत्स्नं प्रकरोमि महामते ॥ ४८ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
अहं ते कथयिष्यामि तपश्चर्याविधिं पृथक् ॥
येन संप्राप्यते मोक्षः कि पुनस्त्रिदशालयः ॥ ४९ ॥
चांद्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥
षष्ठे काले तथा भोज्यं दिनांतरितमेव च ॥ ६.१९८.५० ॥
ब्रह्मकूर्चं त्रिरात्रं च एकभक्तमयाचितम् ॥
तपोद्वाराणि सर्वाणि कृतान्येतानि वेधसा ॥ ५१ ॥
स्वशक्त्या चैव कार्याणि रागद्वेषविवर्जितैः ॥
वांछितव्यं फलं चैव सर्वेषामेव पुत्रिके ॥
ततः सिद्धिमवाप्नोति या सदा मनसि स्थिता ॥ ५२ ॥
समत्वं शत्रुमित्राभ्यां तथा पा षाणरत्नयोः ॥
यदा संजायते चित्ते तदा मोक्षमवाप्नुयात् ॥ ५३ ॥
यो लिंगग्रहणं कृत्वा ततः कोपपरो भवेत् ॥
तस्य वृथा हि तत्सर्वं यथा भस्महुतं तथा ॥ ५४ ॥
॥ सूत उवाच ॥ ॥
सा तथेतिप्रतिज्ञाय ब्राह्मणी सहिता तया ॥
रत्नावत्या जगामाथ किंचिच्चैव जलाशयम् ॥ ५५ ॥
स्वच्छोदकेन संपूर्णं पद्मिनीषंडमंडितम् ॥
ततश्चांद्रायणं चक्रे तपसः प्रथमं व्रतम् ॥ ५६ ॥
ततः कृच्छ्रव्रतं चक्रे ततः सांतपनं च सा ॥
षष्ठान्नकालभोज्या च सा चाभूद्वत्सरत्रयम् ॥ ५७ ॥
त्रिरात्रोपोषणं पश्चाद्यावद्वर्षत्रयं तथा ॥
एकान्तरोपवासैश्च साऽनयद्वत्सरत्रयम् ॥ ५८ ॥
हेमंते जलमध्यस्था सा बभूव तपस्विनी ॥
पंचाग्निसाधका ग्रीष्मे सा बभूव यशस्विनी ॥ ५९ ॥
निराश्रयाऽभवत्साध्वी वर्षाकाल उपस्थिते ॥
ध्यायमाना दिवानक्तं देवदेवं जनार्दनम्॥६.१९८.६०॥।
यद्यद्व्रतं पुरा चक्रे ब्राह्मणी सा च सुव्रता ॥
अन्यं जलाशयं प्राप्य सा तच्चक्रे नृपात्मजा ॥
प्रीत्या परमया युक्ता तदा सा द्विजस त्तमाः ॥ ६१ ॥
ततो वर्षशतं सार्धं फलाहारा बभूव सा ॥
शीर्णपर्णाशना पश्चात्तावन्मात्रं व्यवस्थिता ॥ ६२ ॥
ततश्चैव जलाहारा यावद्वर्षशतानि षट् ॥
वायुभक्षा बभूवाथ सहस्रं परिवत्सरान् ॥ ६३ ॥
यथायथा तपश्चक्रे सा कुमारी द्विजोत्तमाः ॥
तथातथाऽभवत्तस्यास्तेजोवृद्धिरनुत्तमा॥६४॥
एतस्मिन्नेव काले तु भगवाञ्छशिशेखरः ॥ ६५ ॥
गौर्या सह प्रसन्नात्मा तस्या गोचरमागतः ॥
मेघगंभीरया वाचा ततोवचनमब्रवीत् ॥ ६६ ॥
वत्से तपोनिवृत्तिं त्वं कुरुष्व वचनान्मम ॥
प्रार्थयस्व मनोऽभीष्टं येन सर्वं ददामि ते ॥ ६७ ॥
॥ ब्राह्मण्युवाच ॥ ॥
अभीष्टमेतदेवं मे यत्त्वं दृष्टोऽसि शंकर ॥
स्वप्नेऽपि दर्शनं देव दुर्लभं ते नृणां यतः ॥ ६८ ॥
॥ भगवानुवाच ॥ ॥
न मे स्याद्दर्शनं व्यर्थं कथंचित्सुतपस्विनि ॥
तस्माद्वरय भद्रं ते वरं येन ददाम्यहम् ॥ ६९ ॥
॥ ब्राह्मण्युवाच ॥ ॥
एषा मे सुसखी साध्वी राजपुत्री यशस्विनी ॥
ख्याता रत्नावतीनाम प्राणेभ्योऽपिगरीयसी ॥ ६.१९८.७० ॥
मम तुल्यं तपश्चक्रे शूद्रयोनावपि स्थिता ॥
निवर्तते तु यद्येषा तपसस्तु निवर्तनम् ॥
करोम्यद्य जगन्नाथ तदहं संशयं विना ॥ ७१ ॥
अस्याः स्नेहेन संत्यक्तो मया भर्ता सुरेश्वर ॥
तस्माद्देव वरं देहि त्वमस्या मनसि स्थितम् ॥ ७२ ॥
॥ सूत उवाच ॥ ॥
तस्यास्तद्वचनं श्रुत्वा भगवाञ्छशिशेखरः ॥
अब्रवीद्राजपुत्रीं तां मेघगंभीरया गिरा ॥
वत्से मद्वचनादद्य तपस्त्वं त्यक्तुमर्हसि ॥ ७३ ॥
वरं वरय कल्याणि नित्यं मनसि संस्थितम् ॥
अदेयमपि दास्यामि सांप्रतं तव भामिनि ॥ ७४ ॥
॥ रत्नावत्युवाच ॥ ॥
एतज्जलाशयं पुण्यं पद्मिनीषण्ड मण्डितम् ॥ ७५ ॥
यत्रैषा ब्राह्मणी साध्वी नित्यं च तपसि स्थिता ॥
अस्या नाम्ना च विख्यातिं तीर्थमेतत्प्रपद्यताम् ॥ ७६ ॥
अत्र यः कुरुते स्नानं श्रद्धया परया युतः ॥
तस्य भूयात्सदा वासो देवदेव त्रिविष्टपे औ। ७७ ॥
मदीयं मम नाम्ना तु शूद्रासंज्ञं तु जायताम् ॥
तस्य तुल्यप्रभावं तु तीर्थस्य प्रतिपद्यताम् ॥ ७८ ॥
आवाभ्यां नित्यशः कार्यं कुमारत्वे महत्तपः ॥
आराध्यस्त्वं सुरश्रेष्ठो वाङ्मनःकर्मभिस्तथा ॥ ७९ ॥
एतस्मिन्नेव काले तु निर्भिद्य धरणीतलम् ॥
लिंगं माहेश्वरं विप्रा निष्क्रांतं सूर्यसंनिभम् ॥ ६.१९८.८० ॥
ततः प्रोवाच ते देवः स्वयमेव महेश्वरः ॥
ताभ्यां सुतपसा तुष्टः सादरं भक्तवत्सलः ॥ ८१ ॥
एतत्तीर्थद्वयं ख्यातं त्रैलोक्येपि भविष्यति ॥
शूद्रीनाम त्वदीयं तु ब्राह्मणी च सखी तव ॥ ८२ ॥
तीर्थद्वयेऽपि यः स्नात्वा एतस्मिञ्छ्रद्धयाऽन्वितः ॥
त्वत्तः पद्मानि संगृह्य अस्यास्तोयं च निर्मलम् ॥
एतच्च मामकं लिंगं स्नापयित्वाऽर्चयिष्यति ॥ ८३ ॥
पश्चात्पद्मैश्चतुर्दश्यां शुक्लायां सोमवासरे ॥
चैत्रे मासि च संप्राप्ते चिरायुः स भविष्यति ॥ ८४ ॥
सर्वपापविनिर्मुक्तो यद्यपि स्यात्सुपापकृत् ॥ ८५ ॥
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥
तत्र नित्यं च तपसि स्थिते सख्यावुभावपि ॥ ८६ ॥
यावत्कल्पशतं तावज्जरामरणवर्जि ते ॥
अद्यापि गगने ते च दृश्येते तारकात्मके ॥ ८७ ॥
ततःप्रभृति तत्ख्यातं तीर्थयुग्मं धरातले ॥
आगत्याथ नरो दूरात्ताभ्यां कृत्वा निमज्जनम् ॥ ८८ ॥
पूजयित्वा तु तल्लिंगं ततो याति दिवालयम् ॥
महापातकयुक्तोऽपि तत्प्रभावादसंशयम् ॥ ८९ ॥
एतस्मिन्नंतरे मर्त्ये नष्टा धर्मस्य च क्रिया ॥
यज्ञदानकृता या च देवार्चनसमुद्भवा ॥ ६.१९८.९० ॥
व्याप्तस्तथाखिलः स्वर्गो मानवैः स्पर्धयान्वितैः ॥
सार्धं देवैर्विमानस्थैरप्सरोगणसेवितैः ॥ ९१ ॥
एतस्मिन्नेव काले तु धर्मराजः समाययौ ॥
यत्र वेदध्वनिर्ब्रह्मा ब्रह्मलोकं समाश्रितः ॥ ॥ ९२ ॥
अब्रवीद्दुःखितो दीनः क्षिप्त्वाग्रे पत्रकद्वयम् ॥
एकं पापसमुद्भूतमन्यद्धर्मसमुद्भवम् ॥ ९३ ॥
चित्रेण लिखितं यच्च विचित्रेण तथा परम् ॥
हाटकेश्वरजे क्षेत्रे देवतीर्थयुगं स्थितम् ॥ ९४ ॥
शूद्राख्यं ब्राह्मणीनाम तथान्यत्पद्ममंडितम् ॥
तथा तत्रास्ति लिंगं च पुण्यं माहेश्वरं महत् ॥ ९५ ॥
त्रयाणामथ तेषां च प्रभावात्सर्वमानवाः ॥
अपि पापसमायुक्ताः प्रयांति त्रिदशालयम् ॥ ९६ ॥
शून्या मे नरका जाताः सर्वे ते रौरवादयः ॥ ९७ ॥
न कश्चिद्यजनं चक्रे न दानं न च तर्पणम् ॥
देवतानां पितॄणां च मनुष्याणां विशेषतः ॥ ९८ ॥
तस्मान्मुक्तो मया सर्वो योऽधिकारस्तवोद्भवः ॥
नियोजयस्व तत्रान्यं कञ्चिच्छक्ततमं ततः ॥ ९९ ॥
अप्रमाणं स्थितं सर्वमेतत्पत्रद्वयं मम ॥
तच्छ्रुत्वा पद्मजः प्राह समानीय शतक्रतुम् ॥ ६.१९८.१०० ॥
गत्वा शीघ्रतमं मर्त्ये त्वं शक्र वचनान्मम ॥
हाटकेश्वरजे क्षेत्रे तीर्थद्वयमनुत्तमम् ॥ १०१ ॥
शूद्र्याख्यं ब्राह्मणीत्येव यच्च लिंगमनुत्तमम् ॥
तत्रस्थं नाशय क्षिप्रं कृत्वा पांसुप्रवर्षणम् ॥ १०२ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा सत्वरं शक्रो गत्वा भूमितलं ततः ॥
पांसुभिः पूरयामास ते तीर्थे लिंगमेव च ॥ १०३ ॥
अद्यापि कलिकालेऽस्मिन्द्वाभ्यां गृह्य सुमृत्तिकाम् ॥
स्नात्वा च तिलकं कार्यं सर्वपापविशुद्धये ॥ १०४ ॥
चतुर्दशीदिने प्राप्ते सोमवारे च संस्थिते ॥
द्वाभ्यां यः कुरुते श्राद्धं श्रद्धया परया युतः ॥
गयाश्राद्धेन किं तस्य मनुः स्वायंभुवोऽब्रवीत् ॥ १०५ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
यथा सा ब्राह्मणी जाता शूद्री चापि तथापरा॥१ ०६॥
यश्चैतच्छृणुयाद्भक्त्या पठेद्वा द्विजसत्तमाः ॥
सोऽपि तद्दिनजात्पापान्मुच्यते नात्र संशयः ॥ १०७ ॥
एवं नरो न कः सिद्धस्तस्य लिंगस्य पूजनात्।।
चिरायुश्च तथा जातो यथान्यो नात्र विद्यते।।१०८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शूद्रीब्राह्मणीतीर्थद्वयमाहात्म्यवर्णनं नामाष्टनवत्युत्तरशततममोऽध्यायः॥