स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १९६

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
अथ तां यौवनोपेतां स्वसुतां प्रेक्ष्य पार्थिवः ॥
अनौपम्येन रूपेण संयुक्तां वरवर्णिनीम् ॥
आनर्तश्चिन्तयामास कन्यकां प्रददाम्यहम् ॥ १ ॥
अनर्हाय च यो दद्या द्वराय निजकन्यकाम् ॥
कार्यकारणलोभेन नरकं स प्रगच्छति ॥ २ ॥
एवं चिंतयतस्तस्य महान्कालो व्यवस्थितः ॥
न पश्यति च तद्योग्यं कंचिद्वरमनुत्तमम् ॥ ३ ॥
अथ संप्रेषयामास सर्वभूताश्रयेषु ये ॥
चित्रकर्मणि विख्यातान्नरांश्चित्रकरांस्तदा ॥ ४ ॥
गच्छध्वं मम वाक्येन सर्वा न्भूमितले नृपान् ॥
लिखित्वा पट्टमध्ये तु दर्शयध्वं ततः परम् ॥ ५ ॥
सुताया मम येनाऽसौ दृष्ट्वाऽभीष्टं नराधिपम् ॥
पत्यर्थं वरयेत्साध्वी मम दोषो भवेन्न हि ॥ ६ ॥
तस्य तद्वचनं श्रुत्वा सर्वे चित्रकरास्तदा ॥
प्रस्थिता धरणीपृष्ठे पार्थिवानां गृहेषु च ॥ ७ ॥
ते लिखित्वा महीपाला न्यौवनस्थान्वयोऽन्वितान् ॥
रूपौदार्यगुणोपेतान्दर्शयामासुरग्रतः ॥
रत्नवत्याः क्रमेणैव तस्य भूपस्य शासनात् ॥ ८ ॥
अथ तेषां तु सर्वेषां मध्ये राजा वृहद्बलः ॥
दशार्णाधिपतिर्भव्यः पत्यर्थं च वृतस्तया ॥ ९ ॥
तदाऽऽनर्ताधिपो हृष्टः प्रेषयामास तं प्रति ॥
विवाहार्थं सुविज्ञाय वाक्य मेतदुवाच ह ॥ ६.१९६.१० ॥
गच्छध्वं मम वाक्येन दशार्णाधिपतिं प्रति ॥
वाच्यः स विनयाद्गत्वा विवाहार्थं ममांतिकम् ॥ ११ ॥
समागच्छ निजां कन्यां येन यच्छाम्यहं तव ॥
नाम्ना रत्नवतीं ख्यातां त्रैलोक्यस्यापि सुन्दरीम् ॥ १२ ॥
गत्वा स सत्वरं तत्र यत्र राजा बृहद्बलः ॥
प्रोवाच सकलं वाक्यमानर्ताधिपतेः स्फुटम् ॥ १३ ॥
सोऽपि तत्सहसा श्रुत्वा तेषां वाक्यमनुत्तमम् ॥
परमां तुष्टिमासाद्य प्रस्थितस्तत्पुरं प्रति ॥
सैन्येन महता युक्तश्चतुरंगेण पार्थिवः ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दशार्णाधिपतेर्बृहद्बलस्यानर्तेशपुरं प्रत्यागमनवर्णनंनाम षण्णवत्युत्तरशततमोऽध्यायः ॥ १९६ ॥