स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १८७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
चतुर्थे दिवसे प्राप्ते ततो यज्ञसमुद्भवे ॥
ऋत्विग्भिर्याज्ञिकं कर्म प्रारब्धं तदनंतरम् ॥ १ ॥
सोमपानादिकं सर्वं पशोर्हिंसादिकं तथा ॥
पशोर्गुदं समादाय प्रस्थाता च व्यधारयत् ॥ २ ॥
एकांते सदसो मध्ये होमार्थं द्विजसत्तमाः ॥
तस्मिन्व्याकुलतां याते ब्राह्मणः कश्चिदागतः ॥ ३ ॥
युवा तत्र प्रविष्टस्तु मांस भक्षणलालसः ॥
ततो गुदं पशोर्दृष्ट्वा भक्षयामास चोत्सुकं ॥ ४ ॥
एतस्मिन्नंतरे प्राप्तः प्रस्थाता तस्य संनिधौ ॥
भक्षमाणं समालोक्य तं शशाप ततः परम् ॥ ५ ॥
धिग्धिक्पापसमाचार होमार्थं यद्गुदं धृतम् ॥
तत्त्वया दूषितं लौल्याद्यज्ञविघ्नकरं कृतम् ॥ ६ ॥
उच्छिष्टेन मया होमः कर्तव्यो नैव सांप्रतम् ॥
राक्षसानामिदं कर्म यत्त्वया समनुष्ठितम् ॥ ७ ॥
तस्मात्त्वं मम वाक्येन राक्षसो भव मा चिरम् ॥ ८ ॥
एतस्मिन्नेव काले तु ह्यूर्ध्वकेशोऽभवद्धि सः ॥
रक्ताक्षः शंकुकर्णश्च कृष्णदन्तोऽतिभैरवः ॥ ९ ॥
लम्बोष्ठो विकरालास्यो मांसमेदोविवर्जितः ॥
त्वगस्थिस्नायुशेषश्च। चामुण्डाकृतिरेव च ॥ ६.१८७.१० ॥
स च विश्वावसुर्नाम पुलस्त्यस्य सुतो मुनिः ॥
मंत्रपूतस्य मांसस्य भक्षणार्थं समागतः ॥ ११ ॥
वेदवेदांगतत्त्वजः पौत्रस्तु परमेष्ठिनः ॥
तं दृष्ट्वा राक्षसाकारं वित्रेसुः सर्वतो द्विजाः ॥ १२ ॥
राक्षोघ्नानि च सूक्तानि जजपुश्चापरे तथा ॥
केचिच्छरणमापन्ना विष्णो रुद्रस्य चापरे ॥ १३ ॥
पितामहस्य चान्ये तु गायत्र्याः शरणं गताः ॥
रक्षरक्षेति जल्पन्तो भयसंत्रस्तमानसाः ॥ १४ ॥
सोऽपि दृष्ट्वा तदात्मानं गतं राक्षसतां द्विजाः ॥
बाष्पपूर्णेक्षणो दीनः पितामहमुपाद्रवत् ॥ १५ ॥
स प्रणम्य ततो वाक्यं कृतांजलिरुवाच तम् ॥ १६ ॥ ।
पौत्रोऽहं तव देवेश पुलस्त्यस्य सुतो द्विजः ॥
नीतो राक्षसतामद्य प्रस्थात्रा कोपतो विभो ॥ १७ ॥
जिह्वालौल्येन देवेश पशोर्गुदमजानता ॥
भक्षितं तन्मया देव होमार्थं यत्प्रकल्पितम् ॥ १८ ॥
तस्मान्मानुषताप्राप्त्यै मम देहे दयां कुरु ॥
राक्षसत्वं यथा याति तथा नीतिर्विधीयताम् ॥ १९॥ '
तच्छ्रुत्वा जल्पितं तस्य दयां कृत्वा पितामहः ॥
प्रतिप्रस्थातरं सामवाक्यमेतदुवाच ह ॥ ६.१८७.२० ॥
बालोऽयं मम पौत्रस्तु कृत्याकृत्यं न वेत्ति च ॥
तस्मात्त्वं राक्षसं भावं हरस्वास्य द्विजोत्तम ॥ २१ ॥
तच्छ्रुत्वा स मुनिः प्राह प्रायश्चित्तं मखे तव ॥
अनेन जनितं देव गुदं दूषयता विभो ॥ २२ ॥
तस्मादेष मया शप्तो यज्ञविघ्नकरो मम ॥
नाहमस्य हरिष्यामि राक्षसत्वं कथंचन ॥ २३ ॥
नर्मणापि मया प्रोक्तं कदाचिन्नानृतं वचः ॥ २४ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
प्रायश्चित्तं करिष्येऽहं यज्ञस्यास्य प्रसिद्धये ॥
दक्षिणा गौर्यथोक्ता च कृत्वा होमं विधानतः ॥
त्वमस्य राक्षसं भावं 'हरस्व मम वाक्यतः ॥ २५ ॥
सोऽब्रवीच्छीतलो वह्निर्यदि स्यादुष्णगुः शशी ॥
तन्मे स्यादन्यथा वाक्यं व्याहृतं प्रपितामह ॥ २६ ॥
तस्य तद्वचनं श्रुत्वा ज्ञात्वा चैव तु निश्चितम्॥
विश्वावसुं विधिः प्राह ततो राक्षसरूपिणम् ॥ २७ ॥
त्वं वत्सानेन रूपेण तिष्ठ तावद्वचो मम ॥
कुरुष्व ते प्रयच्छामि येन स्थानमनुत्तमम् ॥ २८ ॥
चमत्कारपुरस्यास्य पश्चिमस्थानमाश्रिताः ॥
सन्त्यन्ये राक्षसास्तत्र मर्यादायां व्यवस्थिताः ॥ २९ ॥
लंकायां राक्षसाश्चैव प्रार्थयन्तोऽत्र सद्गतिम् ॥
ते चागत्य तमुद्देशं तपः कुर्वंति सुव्रताः ॥६.१८७.३॥।
तत्र प्रभुत्वमातिष्ठ नागराणां हिते स्थितः ॥
राक्षसा बहवः संति कूष्मांडाश्च पिशाचकाः ॥ ३१ ॥
ये चान्ये राक्षसाः केचिद्दुष्टभावसमाश्रिताः ॥
तत्र गच्छंति ये सर्वे निगृह्णंति च तत्क्षणात् ॥ ३२ ॥
भूताः प्रेताः पिशाचाश्च कूष्मांडाश्च विशेषतः॥
नागरं तु पुरो दृष्ट्वा तद्भयाद्यांति दूरतः ॥ ३३ ॥
तद्गच्छ पुत्र तत्र त्वं सर्वेषामधिपो भव ॥
राक्षसानां मया दत्तं तव राज्यं च सांप्रतम् ॥ ३४ ॥
॥ राक्षस उवाच ॥ ॥
आधिपत्ये स्थितस्यैवं राक्षसानां पितामह ॥
किं मया तत्र भोक्तव्यं तेभ्यो देयं च किं वद ॥ ३५ ॥
राज्ञा चैव यतो देयं भृत्यानां भोजनं विभो ॥
तन्ममाचक्ष्व देवेश दयां कृत्वा ममोपरि ॥ ३६ ॥
न करोति च यो राजा। भृत्यवर्गस्य पोषणम्॥
रौरवं नरकं याति स एवं हि श्रुतं मया ॥ ३७ ॥
॥ ब्रह्मोवाच ॥ ॥
यच्छ्राद्धं दक्षिणाहीनं तिलैर्दर्भैर्विवर्जितम् ॥
तत्सर्वं ते मया दत्तं यद्यपि स्यात्सुतीर्थगम्॥ ३८ ॥
यच्छ्राद्धं सूकरः पश्येन्नारी वाथ रजस्वला ॥
कौलेयकोऽथ वालेयस्तत्सर्वं ते भविष्यति ॥ ३९ ॥
विधिहीनं तु यच्छ्राद्धं दर्भेर्वा मूलवर्जितैः ॥
वितस्तेरधिकैर्वापि तत्सर्वं ते भविष्यति ॥ ६.१८७.४० ॥
तिलं वा तैलपक्वं वा शूकधान्यमथापि वा ॥
न यत्र दीयते श्राद्धे तत्ते श्राद्धं भविष्यति ॥ ४१ ॥
अस्नातैर्यत्कृतं श्राद्धं यच्चाधौतांबरैः कृतम् ॥
तैलाभ्यंगयुतैश्चैव तत्ते सर्वं भविष्यति ॥ ४२ ॥
यद्वा माहिषिको भुंक्ते श्वित्री वा कुनखोऽपि वा ॥
कुष्ठी वाथ द्विजो भुंक्ते तत्ते श्राद्धं भविष्यति ॥ ४३ ॥
हीनांगो वाऽथ यद्भुंक्तेऽधिकांगो वाथ निंदितः ॥
महाव्याधिगृहीतो वा चौरो वार्द्धुषिकोऽपि वा ॥
यत्र भुंक्तेऽथवा श्राद्धे तत्ते श्राद्धं भविष्यति ॥ ४४ ॥
श्यावदन्तस्तु यद्भुंक्ते यद्भुंक्ते वृषलीपतिः ॥
विनग्नो वाथ यद्भुंक्ते तत्ते श्राद्धं भविष्यति ॥ ४५ ॥
यो यज्ञो दक्षिणाहीनो यश्चाशौचयुतैः कृतः ॥
ब्रह्मचर्यविहीनस्तु तत्फलं ते भविष्यति ॥ ४६ ॥
यस्मिन्नैवातिथिः पूज्यः श्राद्धे वा यज्ञकर्मणि ॥
संप्राप्ते वैश्वदेवांते तत्ते सर्वं भविष्यति ॥ ४७ ॥१
आवाहनात्परं यत्र मौनं न श्राद्धदश्चरेत्॥
ब्राह्मणो वाऽथ भोक्ता च तत्ते श्राद्धं भविष्यति॥४८॥
मृन्मयेषु च पात्रेषु यः श्राद्धं कुरुते नरः ॥
भिन्नपात्रेषु वा यच्च तत्ते सर्वं भविष्यति ॥ ४९ ॥
प्रत्यक्षलवणं यत्र तक्रं वा विकृतं भवेत् ॥
जातीपुष्पप्रदानं च तत्ते सर्वं भविष्यति ॥ ६.१८७.५० ॥
यजमानो द्विजो वाथ ब्रह्मचर्यविवर्जितः ॥
तच्छ्राद्धं ते मया दत्तं त्रिपात्रेण विवर्जितम् ॥ ५१ ॥
आयसेन तु पात्रेण यत्रान्नं च प्रदीयते ॥
तच्छ्राद्धं ते मया दत्तं तथान्यदपि हीयते ॥ ५२ ॥
मंत्रक्रियाभ्यां यत्किचिद्रात्रौ दत्तं हुतं तथा ॥
सक्रांतिसोमपर्वभ्यां व्यति रिक्तं तु कुत्सितम् ॥ ५३ ॥
इत्युक्त्वा विररामाशु ब्रह्मा लोकपितामहः ॥
राक्षसः सोऽपि तत्रापि लेभे स्थानं तु राक्षसम् ॥ ५४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठ नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये राक्षसप्राप्यश्राद्धवर्णनंनाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥ ॥ १८७ ॥ ॥ ॥