स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १८५

विकिस्रोतः तः
Jump to navigation Jump to search


अतिथिरुवाच॥
एतद्वः सर्वमाख्यातं यथा मे पिंगला गुरुः॥
संजाता कुररो जातो यथा तत्प्रवदान्यहम्॥१॥
ममासीद्द्रविणं भूरि पितृपैतामहं महत्॥२॥
येऽथ पुत्राश्च दायादा बांधवा अपि॥
ते मां सर्वे प्रबाधन्ते द्रव्यसस्यकृते सदा॥३॥
यस्याहं न प्रयच्छामि स मां चैव प्रबाधते॥
सीदमानस्तु सुभृशं दर्शयन्प्राणसंक्षयम्॥४॥
एक साम्ना प्रयाचंते वित्तं भेदेन चापरे ॥
भयदानेन चान्येऽपि केचिद्दंडेन च द्विजाः ॥ ५ ॥
एवं नाहं क्वचित्सौख्यं तेषां पार्श्वाल्लभामि भोः ॥
चिन्तयानो दिवानक्तं क्लेशस्य परि संक्षयम् ॥
उपायं न च पश्यामि येन शांतिः प्रजायते ॥ ६ ॥
अन्यस्मिन्दिवसे दृष्टः कृतमांसपरिग्रहः ॥
कुररश्चंचुना व्योम्नि गच्छमानस्त्वरान्वितः ॥ ७ ॥
हन्यमानः समंताच्च मांसार्थे विविधैः खगैः ॥
अथ तेन परिक्षिप्तं तन्मांसं पक्षिजाद्भयात् ॥ ८ ॥
यावत्तावत्सुखी जातस्तेऽपिसर्वे समुज्झिताः ॥
मयापि क्लिश्यमानेन तद्वच्च निजबांधवैः ॥ ९ ॥
सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः ॥
आमिषस्य परित्यागात्कुररः सुखमेधते ॥ ६.१८५.१० ॥
एवं निश्चित्य मनसा सर्वानानीय बांधवान् ॥
पुत्रान्पौत्रांस्ततः सर्वान्पुरस्तेषां निवेदितम् ॥ ११ ॥
त्रिःसत्यं शपथं कृत्वा नान्यदस्तीति मे गृहे ॥
विभज्यार्थं यथान्यायं यूयं गृह्णीत बान्धवाः ॥ १२ ॥
ततःप्रभृति तैर्मुक्तः सुखं तिष्ठाम्यहं द्विजाः ॥
एतस्मात्कारणाज्जातो ममासौ कुररो गुरुः॥ १३ ॥
अर्थसंपद्विमोहाय विमोहो नरकाय च ॥
तस्मादर्थमनर्थं तं मोक्षार्थी दूरतस्त्यजेत् ॥ १४ ॥
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि॥
आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान्॥१५॥
दोषहीनोऽपि धनवान्भूपाद्यैः परिताप्यते॥
दरिद्रः कृतदोषोऽपि सर्वत्र निरुपद्रवः॥१६॥
आलंबिताः परैर्यांति प्रस्खलंति पदेपदे ॥
गद्गदानि च जल्पंते धनिनो मद्यपा इव॥१७॥
भक्ते द्वेषो बहिः प्रीती रुचितं गुरुलघ्वपि ॥
मुखे च कटुता नित्यं धनिनां ज्वरिणामिव ॥१८॥
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ॥
नाशे दुःखं व्यये दुःखं धिगर्थो दुःखभाजनम्॥१९॥
अर्थार्थी जीव लोकोऽयं स्मशानमपि सेवते ॥
जनितारमपि त्यक्त्वा निःस्वं यांति सुता अपि ॥ ६.१८५.२० ॥
सुतस्य वल्लभस्तावत्पिता पुत्रोऽपि वै पितुः ॥
यावन्नार्थस्य संबन्धस्ताभ्यां भावी परस्परम् ॥
संबन्धे वित्तजे जाते वैरं संजायते मिथः ॥ २१ ॥
एतस्मात्कारणाद्वित्तं मया त्यक्तं तपोधनाः ॥
तेन सौख्येन तिष्ठामि कुररस्योपदेशतः ॥ २२ ॥
शृणुध्वं च महाभागा यथा मेऽहिर्गुरुः स्थितः ॥ २३ ॥
यथा मया गृहं त्यक्तं दृष्ट्वा सर्पविचेष्टितम् ॥
गृहारंभः सुदुःखाय सुखाय न कदाचन ॥ २४ ॥
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥
उषित्वा तत्र सौख्येन भूयोऽन्यत्तादृशं व्रजेत् ॥ २५ ॥
मम त्वं कुरुते नैव ममेदं गृहमित्यसौ ॥
न गृहं जायते तस्य न स्वयं हि कृतं यतः ॥ २६ ॥
यः पुनः कुरुते हर्म्यं स्वयं क्लेशैः पृथग्विधैः ॥
न तस्य याति तत्पश्चान्मृत्युकालेऽपि संस्थिते ॥ २७ ॥
गृहात्संजायते भार्या ततः पुत्रश्च कन्यका ॥
तेषामर्थे करोति स्म कृत्याकृत्यं ततः परम् ॥२८॥
कोशकारमिवात्मानं वेष्टयन्नावबुध्यते ॥१२९ ॥
पुत्रदारगृहक्षेत्रसक्ताः सीदंति जंतवः ॥
लोभपंकार्णवे मग्ना जीर्णा वनगजा इव ॥ ६.१८५.३० ॥
एकः पापानि कुरुते फलं भुंक्ते महाजनः ॥
भोक्तारो विप्रमुच्यंते कर्ता दोषेण लिप्यते ३१ ॥
एतस्मात्कारणाद्धर्म्यं मया त्यक्तं द्विजोत्तमाः।
मोक्षमार्गार्गला भूतं दृष्ट्वा सर्पविचेष्टितम् ॥ ३२ ॥
एकरात्रं वसेद्ग्रामे त्रिरात्रं पत्तने वसेत् ॥
यो याति स यतिः प्रोक्तो योऽन्यो योगविडंबकः ॥ ३३ ॥
विधूमे च प्रशांताग्नौ यस्तु माधुकरीं चरेत् ॥
गृहे च विप्रमुख्यानां यतिः स नेतरः स्मृतः ॥ ३४ ॥
दण्डी भिक्षां च वा कुर्यात्तदेव व्यसनं विना ॥
यस्तिष्ठति न वैराग्यं याति नैव यतिर्हि सः ॥ ३५ ॥
दिवा स्वप्नं वृथान्नं च स्त्रीकथाऽऽलोक्यमेव च ॥
श्वेतवस्त्रं हिरण्यं च यतीनां पतनानि षट्॥ ३६॥
समः शत्रौ च मित्रे च समलोष्टाश्मकांचनः ॥
सुहृत्पुत्र उदासीनः स यतिर्नेतरः स्मृतः ॥ ३७ ॥
समौ मानापमानौ च स्वदेशे परिकेपि वा ॥
यो न हृष्यति न द्वेष्टि स यतिर्नेतरः स्मृतः ॥ ३८ ॥
यस्मिन्गृहे विशेषेण लभेद्भिक्षा च वाशनम् ॥
तत्र नो याति यो भूयः स यतिर्नेतरः स्मृतः। ॥ ३९ ॥
एवं ज्ञात्वा मया विप्र दृष्ट्वा सर्पविचेष्टितम् ॥
सर्वसंगपरित्यागो मोक्षार्थं परिकल्पितः ॥ ६.१८५.४० ॥
एवं ममाहिः संजातो गुरुर्ब्राह्मणसत्तमाः।
तत्प्रभावान्महत्तेजः संजातं विग्रहे मम ॥ ४१ ॥
यथा मे भ्रमरो जातो गुरुस्तद्वद्वदामि च ॥
कस्मिन्वृक्षे मया दृष्टो भ्रमरः कोऽपि संगतः ॥४२॥
शाखाय तु समाश्रित्य कृतपूर्वनिबंधनम् ॥
वसंतसमये प्राप्ते पुष्पवंतश्च ये द्रुमाः ॥ ४३ ॥
सुगन्धफलपुष्पाश्च सुगन्धदलसंयुताः ॥
तेषामणुं समादाय श्रेष्ठश्रेष्ठतमं रसम् ॥ ४४ ।
नियोजयति शाखाग्रे तरोरस्य सदैव हि ॥
अनिर्विण्णतया हृष्टस्तदा सम्यङ्निरीक्षितः ॥ ४५ ॥
मधुजालं ततो जातं कालेन महता महत् ॥
येनान्ये मधुना तृप्तिं प्राप्ताः शतसहस्रशः ॥ ४६ ॥
तच्चेष्टितं मया वीक्ष्य शास्त्राण्यन्यानि भूरिशः ॥
ततस्तेषां समादाय सारभूतं पृथक्पृथक् ॥
कृतानि भूरिशास्त्राणि वेदांतानि च कृत्स्नशः ॥ ४७ ॥
उपजीवंति यान्यन्ये यथा भृङ्गास्तथा द्विजाः ॥ ४८ ॥
एवं मे मधुपो जातो गुरुत्वे च द्विजोत्तमाः ॥
तेनाहं तेजसा युक्तो नान्यदस्तीह कारणम्॥ ४९ ॥
वेदांतवादिनो येऽत्र प्रभवंति व्रतान्विताः ॥
निर्लोभा गततृष्णाश्च ते भवंति सुतेजसः ॥ ६.१८५.५० ॥
एकेनापि विहीना ये प्रभवंति कुबुद्धयः ॥
लोभमोहान्विताः पापा जायंते ते विचेतसः ॥५१॥
वेदांतानि सुभूरीणि मया दृष्ट्वा विचार्य च ॥
समरूपाः कृता ग्रन्था मर्त्यलोकहितार्थिना ॥ ५२ ॥
एवं मे गुरुतां प्राप्तो मधुपो द्विजसत्तमाः ॥
इषुकारो यथा जातस्तथा चैव ब्रवीमि वः॥५३॥
आत्मावलोकनार्थाय मया दृष्टाः सहस्रशः॥
योगिनो ज्ञानसंपन्नास्तैः प्रोक्तं च स्वशक्तितः॥५४॥
आत्मावलोकनं भावि सुशिष्याय यथा तथा॥
स समाधिजद्वारेण चतुराशीतिकेन च॥५५॥
आसनैस्तत्प्रमाणैश्च पद्मासनप्रपूर्वकैः॥
असंख्यैः कारणैश्चैव ह्यध्यात्मपठनैस्तथा॥
ततोपि लक्षितो नैव मयाऽत्मा च कथंचन॥५६॥
ततो वैराग्यमापन्नः प्रभ्रमामि धरातले॥
गुर्वर्थे न च लेभेऽहं गुरुमात्मावलोकने ॥ ५७ ॥
अन्यस्मिन्नहनि प्राप्ते राजमार्गेण गच्छता ॥
मया दृष्टो महीपालः सैन्येन महता वृतः ॥ ५८ ॥
ततोऽहं मार्गमुत्सृज्य संमुखस्य महीपतेः ॥
उटजद्वारमाश्रित्य किंचिदूर्ध्वोपि संस्थितः ॥ ५९ ॥
तत्रापि च स्थितः कश्चित्पुरुषः कांडकारकः ॥
ऋजुकर्मणि संयुक्तः शराणां नतपर्वणाम्॥ ६.१८५.६० ॥
तस्मिन्दूरगते भूपे तथान्यः सेवकोऽभ्यगात् ॥ ६१ ॥
तं पप्रच्छ त्वरायुक्तः शृण्वतोऽपि मम द्विजाः ॥
कांडकर्मणि संसक्तमृजुत्वेन स्थितं तदा ॥६२॥
कियती वर्तते वेला गतस्य पृथिवीपतेः ॥
मार्गेणानेन मे ब्रूहि येन गच्छामि पृष्ठतः॥६३॥
सोऽब्रवीत्तं तदा विप्रा अधोवक्त्रः स्थितो नरः ॥
अनेन राजमार्गेण गच्छमानो महीपतिः ॥ ६४ ॥
न मया वीक्षितः कश्चिदिदानीं राजसेवक ॥
तदन्यं पृच्छ चेत्कार्यं तवानेन ब्रवीतु सः ॥ ६५ ॥
शरकर्मणि संसक्तस्त्वहमत्र व्यवस्थितः ॥
तच्छ्रुत्वा वचनं तस्य स्वचित्ते चिन्तितं मया॥६६॥
एकचित्ततया योगो ब्रह्मज्ञानसमुद्भवः ॥
नान्यथा भविता मे स ततश्चित्तनिरोधनम् ॥
करोमि ब्रह्मसंसिद्ध्यै ततो मेऽसौ भविष्यति ॥ ६७ ॥
ततःप्रभृति चित्ते स्वे धारयामि सदैव तु ॥
विश्वरूपं तथा सूर्यं हृत्पंकजनिवासिनम् ॥ ६८ ॥
ततो दिक्षु दिगन्तेषु गगने धरणीतले ॥
तमेकं चैव पश्यामि नान्यत्किंचिद्द्विजोत्तमाः ॥ ६९ ॥
अहं च तेजसा युक्तस्तत्प्रभावेण संस्थितः ॥ ६.१८५.७० ॥
एवं मे स गुरुर्जातः शरकारो द्विजोत्तमाः ॥
शृणुध्वं कन्यका जाता गुरुत्वे मे यथा पुरा ॥ ७१ ॥
सर्वसंगपरित्यागी यदाहं निर्गतो गृहात् ॥
ममानुपृष्ठतश्चैव ततो भार्या विनिर्गता ॥ ७२ ॥
शिशुं पुत्रं समादाय कन्यामेकां च शोभनाम्॥
ततोऽहं भार्यया प्रोक्तो वानप्रस्थाश्रमे स्थितः॥७३॥
कुरु मे वचनं मुक्तिरत्रैव हि भविष्यति॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः॥
यदि स्यात्संयतात्मा स नूनं मुक्तिमवाप्नुयात्॥७४॥
अथवा मां परित्यज्य यदि यास्यसि चान्यतः॥
तदहं च मरिष्यामि सत्यमेतदसंशयम्॥७५॥
मृतायां मयि ते बालावेतावनुमरिष्यतः॥
कुमारी च कुमारश्च तस्मान्नाथ दयां कुरु॥७६॥
मा व्रजस्व परं तीर्थं परिजानन्नपि स्वयम्॥
हाटकेश्वरजं क्षेत्रमेतत्पुण्यतरं स्मृतम्॥७७॥
सर्वेषामेव तीर्थानां श्रुतमेतन्मया विभो॥
वदतां ब्राह्मणेन्द्राणां तथान्येषां तपस्विनाम्॥७८॥
श्लोकोऽयं बहुधा नाथ कीर्त्यमानो मया विभो॥
विश्वामित्रस्य वक्त्रेण सन्मुनेः सत्यवादिनः॥७९॥
पुनंति सर्वतीर्थानि स्नानदानादसंशयम्॥
हाटकेश्वरजं क्षेत्रं स्मरणादपि पावयेत्॥६.१८५.८॥।
ततः कृच्छ्रात्प्रतिज्ञातं मयाश्रमनिषेवणम्॥
वानप्रस्थोद्भवं वा स्यात्ततोऽहं तत्र संस्थितः॥८१॥
तत्रस्थस्य हि मे कन्या क्रीडते परतः स्थिता॥
वलयापूरिताभ्यां च प्रकोष्ठाभ्यां ततस्ततः ॥ ८२ ॥
यथायथा सा कुरुते कन्दमूलफलाशनम् ॥
तनुत्वं याति कायेन तथा चैव दिनेदिने ॥ ८३ ॥
ततो मे जायते दुःखं तेषां पतन संभवम् ॥
कस्यचित्त्वथ कालस्य संजातं वलयत्रयम् ॥
तस्या हस्ते ततस्ताभ्यां शब्दः संजायते मिथः ॥ ८४ ॥
ततः कालेन महता ताभ्यामेकं व्यवस्थितम् ॥
न संघर्षो न शब्दश्च तत्रस्थस्य च जायते ॥ ८५ ॥
तद्विचिन्त्य मया सोऽपि ह्याश्रमः परिवर्जितः ॥
चिन्तितं च मया चित्ते कृत्वा चैवं सुनिश्चयम् ॥ ८६ ॥
बहुभिः कलहो नित्यं द्वाभ्यां संघर्षणं तथा ॥
एकाकी विचरिष्यामि कुमारीवलयं यथा ॥ ८७ ॥
ततः सुप्तां परित्यज्य तां भार्यां शिशुसंयुताम् ॥
गतोऽहं दूरमध्वानं यत्र नो वेत्ति सा च माम् ॥ ८८ ॥
यत्राऽस्तमितशायी च यलब्धकृतभोजनः ॥
भ्रमामि मेदिनीपृष्ठे त्यक्त्वा संसारबन्धनम् ॥ ८९ ॥
ततो मे ज्ञानमापन्नमेवं विप्राः शनैःशनैः ॥
अतीतानागतं चैव वर्तमानं विशेषतः ॥ ६.१८५.९० ॥
एवं मे कन्यका जाता गुरुत्वे द्विजसत्तमाः ॥ ९१ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि गुरोः कृते ॥
न युष्माकं पुरो मिथ्या कीर्तयामि कथंचन॥ ॥ ९२ ॥
एवं मे ज्ञानमुत्पन्नं प्रकारैः षड्भिरेव च ॥
एभिर्लोकोत्तरं ज्ञानं युष्मत्प्रत्ययकारकम् ॥ ९३ ॥
॥ सूत उवाच ॥ ॥
ततस्ते ब्राह्मणाः सर्वे पप्रच्छुस्तं द्विजोत्तमाः ॥
वानप्रस्थाश्रमं त्यक्त्वा भार्यां शिशुसमन्विताम् ॥
क्व गतस्त्वं तदाचक्ष्व कियत्कालं च संस्थितः ॥ ९४ ॥
॥ अतिथिरुवाच ॥ ॥
अहं भीतः सहस्राणि ग्रामाणां च शतानि च ॥
यत्रास्तमितशायी सन्ननेकानि द्विजोत्तमाः ॥
संख्यया रहितान्येव वर्षाणां च शतानि च ॥ ९५ ॥
दृष्टानि मुख्यतीर्थानि तथैवायतनानि च ॥
दृष्टाश्च पर्वताः श्रेष्ठा नद्यश्च विमलोदकाः ॥ ९६ ॥
स्वयमेव मया ज्ञातो वाराणस्यां स्थितेन च ॥
यज्ञः पैतामहो भावी स्थानेऽस्मिन्मामके यतः ॥९७॥
ततोऽहं सत्वरं प्राप्तः कौतुकेन द्विजोत्तमाः ॥
कीदृशः स मखो भावी यत्र यज्वा पितामहः ॥ ९८ ॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे प्राप्ताः सर्वे देवाः सवासवाः ॥
वासुदेवं पुरस्कृत्य तथा चैव महेश्वरम्॥९९॥
कमान्तरं समासाद्य पुलस्त्याद्यास्तथर्त्विजः ॥
ब्रह्मापि स्वयमायातो मृगचर्मधरस्तथा॥६.१८५.१००॥
ततस्ते तुष्टिमापन्नास्तस्य ज्ञानेन तेन च ॥
प्रोचुश्च वरदास्तुभ्यं सर्व एव दिवौकसः ॥ १०१ ॥
तस्माद्वरय भद्रं ते प्रार्थयस्व यथेप्सितम् ॥
अवश्यं तव दास्यामो यद्यपि स्यात्सुदुर्लभम् ॥ १०२ ॥ ॥
॥ अतिथिरुवाच ॥ ॥
यदि तुष्टाः सुरा मह्यं प्रयच्छंति वरं मम ॥
अनेनैव शरीरेण देवत्वं प्रार्थयाम्यहम् ॥ १०३ ॥
यज्ञभागसमोपेतं तथान्येषां दिवौकसाम्॥
विशेषेण सुरश्रेष्ठाः स्थानं चोपरि संस्थितम् ॥ १०९ ॥
॥ देवा ऊचुः ॥ ॥
नूनं त्वं विबुधो भूत्वा देवलोके निवत्स्यसि ॥
अनेनेव शरीरेण यज्ञभागविवर्जितः ॥ १०५ ॥
यच्छामो यदि ते विप्र यज्ञांशं मानुषस्य भोः ॥
अप्रामाण्यं श्रुतेर्भावि तव दत्तेन तेन च ॥ १०६ ॥
॥अतिथिरुवाच ॥ ॥
देवत्वेन न मे कार्यं यज्ञांशरहितेन च ॥
तदहं साधयिष्यामि यथा मुक्तिर्भविष्यति ॥ १०७ ॥
तच्छ्रुत्वा पद्मजः प्राह सर्वान्देवान्कृतांजलिः ॥
शृण्वंतु देवताः सर्वा यद्ब्रवीमि हितं वचः ॥ १०९ ॥
ममायं ब्राह्मणो यज्ञे दूरादेव समागतः ॥
नागरस्तु विशेषेण पात्रं ज्ञानसमुद्भवम् ॥ १०९ ॥
प्रतिज्ञातस्तथा सर्वैर्वरोऽस्य विबुधैर्यतः ॥
तस्मात्प्रदीयतामस्मै यदभीष्टं सुरोत्तमाः ॥ ६.१८५.११० ॥ ॥
॥ महेश्वर उवाच ॥ ॥
यथाऽस्य जायते तृप्तिर्यज्ञभागाधिका सदा ॥
तथाहं कथयिष्यामि शृण्वंतु विबुधोत्तमाः ॥ १११ ॥
य एष क्रियते यज्ञस्तस्य नाथो हरिः स्मृतः॥
एतस्मात्कारणात्प्रोक्तः स देवो यज्ञपूरुषः ॥ ११२ ॥
अद्यप्रभृति यत्किंचिच्छ्राद्धं मर्त्ये भविष्यति ॥
दैवं वा पैतृकं वाऽपि तस्य चांते व्यवस्थितः ॥ ११३ ॥
एतस्य नाम संकीर्त्य पश्चाच्च यज्ञपूरुषम् ॥
संकीर्त्य भोजनं देयं ब्राह्मणस्य द्विजोत्तमाः ॥ ११४ ॥
तेनास्य भविता तृप्तिर्यज्ञांताऽभ्यधिका सदा ॥
अदत्त्वास्य कृतं श्राद्धं यत्किंचित्प्रभविष्यति ॥११५॥
तद्यास्यत्यखिलं व्यर्थं तथा भस्महुतं यथा ॥
वैश्वदेवांतमासाद्य यश्चैनं पूजयिष्यति ॥ ११६ ॥
विष्णुनामसमोपेतं भविष्यति तदक्षयम् ॥
दत्तं स्वल्पमपि प्रायः श्रद्धापूतेन चेतसा ॥ ११७ ॥
श्राद्धे वा वैश्वदेवे वा यश्चैनं नार्चयिष्यति ॥
संप्राप्तं व्यर्थतां तस्य तच्च सर्वं भविष्यति ॥११८॥
अस्मिंस्तुष्टिं गते सर्वे सुरा यास्यंति संमुदम् ॥
पितरश्च तमायांति विमुखे संमुखे तथा ॥ ११९ ॥
तच्छ्रुत्वा विबुधाः सर्वे महेश्वरवचस्तदा ॥
तथेति मुदिताः प्रोचुर्ब्रह्मविष्णुपुरस्सराः ॥ ६.१८५.१२० ॥
ततःप्रभृति संजाता पूजा चातिथिसंभवा ॥
तस्मात्सर्वप्रयत्नेन पूजा कार्याऽतिथेः सदा ॥
यज्ञे पूरुषयज्ञस्य न चैकस्य कथंचन ॥ १२१ ॥ ॥
॥ अतिथिरुवाच ॥ ॥
अत्रास्ति मामकं तीर्थं मया यत्र तपः कृतम् ॥
हाटकेश्वरजे क्षेत्रे पुरुकाले द्विजोत्तमाः ॥१२२॥
अंगारकेण संयुक्ता चतुर्थी स्याद्यदा तिथिः ॥
सांनिध्यं तत्र कार्यं च सर्वैर्देवैश्च तद्दिने ॥ १२३ ॥
कुर्यात्तत्रैव यः स्नानं तस्मिन्नहनि संस्थिते ॥
सर्वतीर्थफलं तस्य जायतां वः प्रसादतः ॥ १२४ ॥
तथास्त्विति ततः सर्वेऽतिथिं प्रोचुः सुरोत्तमाः ॥
एतस्मिन्नंतरे प्राह पुलस्त्यर्षिः पितामहम् ॥१२५॥ ॥
पुलस्त्य उवाच ॥ ॥
ऋत्विजः सकला देवाः संस्थिताः कौतुकान्विताः ॥
उत्तिष्ठंतु च ते शीघ्रं यज्ञकर्मप्रसिद्धये ॥ १२६ ॥
एतस्मिन्नंतरे सर्वे तस्य वाक्यप्रणोदिताः ॥
उत्थिता ऋत्विजो ये च स्वानि स्थानानि भेजिरे ॥
ततः प्रववृते यज्ञः सपुनर्द्विजसत्तमाः ॥
कुर्वता यज्ञकर्माणि होमपूर्वाणि यानि च ॥ १२७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये तीर्थोत्पत्तिमाहात्म्यवर्णनं ना
म पञ्चाशीत्युत्तरशत तमोऽध्यायः ॥ १८५ ॥ ॥ छ ॥