स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १८४

विकिस्रोतः तः
Jump to navigation Jump to search


॥ ॥ सूत उवाच ॥ ॥
तृतीये च दिने प्राप्ते त्रयोदश्यां द्विजोत्तमाः ॥
प्रातःसवनमादाय ऋत्विजः सर्व एव ते ॥
स्वेस्वे कर्मणि संलग्ना यज्ञकृत्यसमुद्भवे ॥ १ ॥
ततः प्रवर्तते यज्ञस्तदा पैतामहो महान् ॥
सर्वकामसमृद्धस्तु सर्वैः समुदितो गुणैः ॥ २ ॥
दीयतां दीयतां तत्र भुज्यतां भुज्यतामिति ॥
एकः संश्रूयते शब्दो द्वितीयो द्विजसंभवः ॥ ३ ॥
नान्यस्तत्र तृतीयस्तु यज्ञे पैतामहे शुभे ॥
यो यं कामयते कामं हेमरत्नसमुद्भवम् ॥ ४ ॥
स तत्प्राप्नोत्यसंदिग्धं वांछिताच्च चतुर्गुणम् ॥
पक्वान्नस्य कृतास्तत्र दृश्यंते पर्वताः शुभाः ॥ ५ ॥
घृतक्षीर महानद्यो दानार्थं वित्तराशयः ॥
एतस्मिन्नंतरे प्राप्तः कश्चिज्ज्ञानी द्विजोत्तमाः ॥ ६ ॥
अतीतानागतान्वेत्ति वर्तमानं च यः सदा ॥
स ब्रह्माणं नमस्कृत्य निविष्टश्च तदग्रतः ॥ ७ ॥
कर्मांतरेषु विप्राणां स सर्वेषां द्विजोत्तमाः ॥
कथयामास यद्वृत्तं बाल्यात्प्रभृति कृत्स्नशः ॥ ८ ॥
ततस्त ऋत्विजः सर्वे कौतुकाविष्टचेतसः ॥
पप्रच्छुर्ज्ञानिनं तं च विस्मयोत्फुल्ललोचनाः ॥ ९ ॥
विस्मृतानि स्मरंतस्ते निजकृत्यानि वै ततः ॥
प्रोक्तानि गर्हणीयानि ह्यसंख्यातानि सर्वशः ॥ ६.१८४.१० ॥
ततस्ते पुनरेवाथ पप्रच्छुर्ज्ञानिनं च तम् ॥
लोकोत्तरमिदं ज्ञानं कथं ते संस्थितं द्विज॥ ११ ॥
को गुरुस्ते समाचक्ष्व परं कौतूहलं हि नः ॥
अहोज्ञानमहो ज्ञानं नैतद्दृष्टं श्रुतं च न ॥ १२ ॥
यादृशं ते द्विजश्रेष्ठ दृश्यते पार्थसंस्थितम् ॥
किं ब्रह्मणा स्वयं विप्र त्वमेवं प्रतिबोधितः ॥ १३ ॥
किं वा हरेण तुष्टेन किं वा देवेन चक्रिणा ॥
नान्यप्रबोधितस्यैवं ज्ञानं संजायते स्फुटम् ॥ १४ ॥ ॥
॥ अतिथिरुवाच ॥ ॥
पिंगला कुररः सर्पः सारंगश्चैव यो वने ॥
इषुकारः कुमारी च षडेते गुरवो मम ॥ १५ ॥
एतेषां चेष्टितं दृष्ट्वा ज्ञानं मे समुपस्थितम्॥ १६ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
कथयस्व महाभाग कथं ते गुरवः स्थिताः ॥
कीदृशं च त्वया दृष्टं तेषां चैव विचेष्टितम् ॥ ॥ १७ ॥
कस्मिन्देशे त्वमुत्पन्नः कस्मिन्स्थाने वदस्व नः ॥
किंनामा किं नु गोत्रश्च सर्वं विस्तरतो वद ॥ १८ ॥
॥ अतिथिरुवाच ॥ ॥
आसन्नव पुरे विप्राश्चत्वारो ये विवासिताः ॥
शुनःशेपोऽथ शाक्रेयो बौद्धो दांतश्चतुर्थकः ॥ १९ ॥
तेषां मध्ये तु यो बौद्धः शांतो दांत इति स्मृतः ॥
छन्दोगगोत्रविख्यातो वेदवेदांगपारगः ॥ ६.१८४.२० ॥
नागरेषु समुत्पन्नः पश्चिमेवयसि स्थितः ॥
तस्याहं प्रथमः पुत्रः प्राणेभ्योऽपि सुहृत्प्रियः ॥ २१ ॥
ततोऽहं यौवनं प्राप्तो यदा द्विजवरोत्तम। ॥
तदा मे दयितस्तातः पंचत्वं समुपागतः ॥ २२ ॥
एतस्मिन्नंतरे राजा ह्यानर्ताधिपतिर्द्विजाः ॥
सुतपास्तेन निर्दिष्टोऽहं तु कंचुकिकर्मणि ॥ २३ ॥
शांतं दांतं समालोक्य विश्वस्तेन महात्मना ॥
तस्य चांतःपुरे ह्यासीत्पिंगलानाम नायिका ॥ २४ ॥
दौर्भाग्येण समोपेता रूपेणापि समन्विता ॥
अथान्याः शतशस्तस्य भार्याश्चांतःपुरे स्थिताः ॥ २५ ॥
ताः सर्वा रजनीवक्त्रे व्याकुलत्वं प्रयांति च ॥
आहरंति परान्गन्धान्धूपांश्च कुसुमानि च ॥ २६ ॥
विलेपनानि मुख्यानि सुरभीणि तथा पुरः ॥ ।
पुष्पाणि च विचित्राणि ह्यन्याः सूक्ष्मांबराणि च ॥२७॥
तावद्यावत्स्थितः कालः शयनीयसमुद्भवः ॥
मन्मथोत्साहसं युक्ताः पुलकेन समन्विताः ॥२८॥
एका जानाति मां सुप्तां नूनमाकारयिष्यति ॥
अन्या जानाति मां चैव परस्परममर्षतः ॥२९॥
स्पर्धयन्ति प्रयुध्यन्ति विरूपाणि वदन्ति च ॥
तासां मध्यात्ततश्चैका प्रयाति नृपसंनिधौ ॥ ६.१८४.३० ॥
शेषा वै लक्ष्यमासाद्य निःश्वस्य प्रस्वपन्ति च ॥
दुःखार्ता न लभन्ति स्म ताश्च निद्रां पराभवात् ॥ ३१ ॥
कामेन पीडितांगाश्च बाष्पपूर्णेक्षणाः स्थिताः ॥ ३२ ॥
आशा हि परमं दुःखं निराशा परमं सुखम् ॥
आशानिराशां कृत्वा च सुखं स्वपिति पिंगला ॥ ३३ ॥।
न करोति च शृंगारं न स्पर्धां च कदाचन॥
न व्याकुलत्वमापेदे सुखं स्वपिति पिंगला॥३४॥
ततो मयापि तद्दृष्ट्वा तस्याश्चेष्टितमुत्तमम्॥
आशाः सर्वाः परित्यक्ताः स्वपिमीह ततः सुखी॥३५॥
ये स्वपंति सुखं रात्रौ तेषां कायाग्निरिध्यते।
आहारं प्रतिगृह्णाति ततः पुष्टिकरं परम्॥३६॥
तदेत्कारणं जातं मम तेजो भिवृद्धये॥
गुरुत्वे पिंगला जाता तेन सा मे द्विजोत्तमाः॥३७॥
आशापाशैः परीतांगा ये भवन्ति नरो र्दिताः॥
ते रात्रौ शेरते नैव तदप्राप्तिविचिन्तया॥३८॥
नैवाग्निर्दीप्यते तेषां जाठरश्च ततः परम्॥
आहारं वांछते नैव तन्न तेजोभिवर्धनम्॥३९॥
सर्वस्य विद्यते प्रांतो न वांछायाः कथंचन॥६.१८४.४०॥
यथायथा भवेल्लाभो वांचितस्य नृणामिह॥
हविषा कृष्णवर्त्मेव वृद्धिं याति तथातथा॥४१॥
यथा शृंगं रुरोः काये वर्धमानस्य वर्धते॥
एवं तृष्णापि यत्नेन वर्धमानेन वर्धते॥४२॥
एवं ज्ञात्वा महाभागः पुरुषेण विजानता॥
दिवा तत्कर्म कर्तव्यं येन रात्रौ सुखं स्वपेत्॥४३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मयज्ञे तृतीयदिवसे पिंगलोपाख्यानवर्णनंनाम चतुरशीत्युत्तरशततमोऽध्यायः॥१८४॥