स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १८२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
एवं पत्नीं समासाद्य गायत्रीं चतुराननः ॥
संप्रहृष्टमना भूत्वा प्रस्थितो यज्ञमण्डपम् ॥ १ ॥
गायत्र्यपि समादाय मूर्ध्नि तामरणिं मुदा ॥
प्रतस्थे संपरित्यज्य गोपभावं विगर्हितम् ॥ २ ॥
वाद्यमानेषु वाद्येषु ब्रह्मघोषे दिवंगते ॥
कलं प्रगायमानेषु गन्धर्वेषु समंततः ॥ ३ ॥
सर्वदेवद्विजोपेतः संप्राप्तो यज्ञमण्डपे ॥
गायत्र्या सहितो ब्रह्मा मानुषं भावमाश्रितः ॥ ४ ॥
एतस्मिन्नंतरे चक्रे केशनिर्वपणं विधेः ॥
विश्वकर्मा नखानां च गायत्र्यास्तदनंतरम् ॥ ५ ॥
औदुम्बरं ततो दण्डं पुलस्त्योऽस्मै समाददे ॥
एणशृंगान्वितं चर्म मन्त्रवद्विजसत्तमाः ॥ ६ ॥
पत्नीशालां गृहीत्वा च गायत्रीं मौनधारिणीम् ॥
मेखलां निदधे चान्यां कट्यां मौंजीमयीं शुभाम् ॥ ७ ॥
ततश्चक्रे परं कर्म यदुक्तं यज्ञमंडपे ॥
ऋत्विग्भिः सहितो वेधा वेदवाक्यसमादृतः ॥ ८ ॥
प्रवर्ग्ये जायमाने च तत्राश्चर्यमभून्महत् ॥
जाल्मरूपधरः कश्चिद्दिग्वासा विकृताननः ॥ ९ ॥
कपालपाणिरायातो भोजनं दीयतामिति ॥
निषेध्यमानोऽपि च तैः प्रविष्टो याज्ञिकं सदः ॥
स कृत्वाऽटनमन्याय्यं तर्ज्यमानोऽपि तापसैः ॥ ६.१८२.१० ॥
॥ सदस्या ऊचुः ॥ ॥
कस्मात्पापसमेतस्त्वं प्रविष्टो यज्ञमण्डपे ॥
कपाली नग्नरूपो यो यज्ञकर्मविवर्जितः ॥ ११ ॥
तस्माद्गच्छ द्रुतं मूढ यावद्ब्रह्मा न कुप्यति ॥
तथाऽन्ये ब्राह्मणश्रेष्ठास्तथा देवाः सवासवाः ॥ १२ ॥
॥ जाल्म उवाच ॥ ॥
ब्रह्मयज्ञमिमं श्रुत्वा दूरादत्र समागतः ॥
बुभुक्षितो द्विजश्रेष्ठास्तत्किमर्थं विगर्हथ ॥ १३ ॥
दीनांधैः कृपणैः सवैर्स्तर्पितैः क्रतुरुच्यते ॥
अन्यथाऽसौ विनाशाय यदुक्तं ब्राह्मणैर्वचः ॥१४॥
अन्नहीनो दहेद्राष्टं मन्त्रहीनस्तु ऋत्विजः ॥
याज्ञिकं दक्षिणा हीनो नास्ति यज्ञसमो रिपुः ॥ १५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यदि त्वं भोक्तुकामस्तु समायातो व्रज द्रुतम् ॥
एतस्यां सत्रशालायां भुञ्जते यत्र तापसाः ॥
दीनान्धाः कृपणाश्चैव ततः क्षुत्क्षामकंठिताः ॥ १६ ॥
अथवा धनकामस्त्वं वस्त्रकामोऽथ तापस ॥
व्रज वित्तपतिर्यत्र दानशालां समाश्रितः ॥ १७ ॥
अनिंद्योऽयं महामूर्ख यज्ञः पैतामहो यतः ॥
अर्चितः सर्वतः पुण्यं तत्किं निन्दसि दुर्मते ॥ १८ ॥
॥ सूत उवाच ॥ ॥
एवमुक्तः कपालं स परिक्षिप्य धरातले ॥
जगामादर्शनं सद्यो दीपवद्द्विजसत्तमाः ॥ १९ ॥
॥ ऋत्विज ऊचुः ॥ ॥
कथं यज्ञक्रिया कार्या कपाले सदसि स्थिते ॥
परिक्षिपथ तस्मात्तु एवमूचुर्द्विजोत्तमाः ॥ ६.१८२.२० ॥
अथैको बहुधा प्रोक्तः सदस्यैश्च द्विजोत्तमैः ॥
दण्डकाष्ठं समुद्यम्य प्रचिक्षेप बहिस्तथा ॥ २१ ॥
अथान्यत्तत्र संजातं कपालं तादृशं पुनः ॥
तस्मिन्नपि तथा क्षिप्ते भूयोऽन्यत्समपद्यत ॥ २२ ॥
एवं शतसहस्राणि ह्ययुतान्यर्बुदानि च ॥
तत्र जातानि तैर्व्याप्तो यज्ञवाटः समंततः ॥ २३ ॥
हाहाकारस्ततौ जज्ञे समस्ते यज्ञमण्डपे ॥
दृष्ट्वा कपालसंघांस्तान्यज्ञ कर्मप्रदूषकान्॥ २४ ॥
अथ संचिंतयामास ध्यानं कृत्वा पितामहः ॥
हरारिष्टं समाज्ञाय तत्सर्वं हृष्टरूपधृक् ॥ २५ ॥
कृतांजलिपुटो भूत्वा ततः प्रोवाच सादरम्॥
महेश्वरं समासाद्य यज्ञवाटसमाश्रितम्॥ २६ ॥
किमिदं युज्यते देव यज्ञेऽस्मिन्कर्मणः क्षतिः ॥
तस्मात्संहर सर्वाणि कपालानि सुरेश्वर ॥ २७ ॥
यज्ञकर्मविलोपोऽयं मा भूत्त्वयि समागते ॥ २८ ॥
ततः प्रोवाच संक्रुद्धो भगवाञ्छशिशेखरः ॥
तन्ममेष्टतमं पात्रं भोजनाय सदा स्थितम्॥ २९ ॥
एते द्विजाधमाः कस्माद्विद्विषंतिपितामह ॥
तथा न मां समुद्दिश्य जुहुवुर्जातवेदसि ॥ ६.१८२.३० ॥
यथान्यादेवता स्तद्वन्मन्त्रपूतं हविर्विधे ॥
तस्माद्यदि विधे कार्या समाप्तिर्यज्ञकर्मणि ॥ ३१ ॥
तत्कपालाश्रितं हव्यं कर्तव्यं सकलं त्विदम् ॥
तथा च मां समु द्दिश्य विशषाज्जातवेदसि ॥ ३२ ॥
होतव्यं हविरेवात्र समाप्तिं यास्यति क्रतुः ॥
नान्यथा सत्यमेवोक्तं तवाग्रे चतुरानन ॥ ३३ ॥
॥ पितामह उवाच ॥ ॥
रूपाणि तव देवेश पृथग्भूतान्यनेकशः ॥
संख्यया परिहीनानि ध्येयानि सकलानि च ॥ ३४ ॥
एतन्महाव्रतं रूपमाख्यातं ते त्रिलोचन ॥
नैवं च मखकर्म स्यात्तत्रैव च न युज्यते ॥ ३५ ॥
अद्यैतत्कर्म कर्तुं च श्रुतिबाह्यं कथंचन ॥
तव वाक्यमपि त्र्यक्ष नान्यथा कर्तुमु त्सहे ॥ ३६ ॥
मृन्मयेषु कपालेषु हविः श्राप्यं सुरेश्वर ॥
अद्यप्रभृति यज्ञेषु पुरोडाशात्मिकं द्विजैः ॥
तवोद्देशेन देवेश होतव्यं शतरुद्रि यम् ॥ ३७ ॥
विशेषात्सर्वयज्ञेषु जप्यं चैव विशेषतः ॥
कपालानां तु द्वारेण त्वया रूपं निजं कृतम् ॥ ३८ ॥
प्रकटं च सुरश्रेष्ठ कपाले श्वरसंज्ञितः ॥
तस्मात्त्वं भविता रुद्र क्षेत्रेऽस्मिन्द्वादशोऽपरः ॥ ३९ ॥
अत्र यज्ञं समारभ्य यस्त्वां प्राक्पूजयिष्यति ॥
अविघ्नेन मख स्तस्य समाप्तिं प्रव्रजिष्यति ॥ ६.१८२.४० ॥
एवमुक्ते ततस्तेन कपालानि द्विजोत्तमाः ॥
तानि सर्वाणि नष्टानि संख्यया रहितानि च ॥ ४१ ॥
ततो हृष्टश्चतुर्वक्त्रः स्थापयामास तत्क्षणात् ॥
लिगं माहेश्वरं तत्र कपालेश्वरसंज्ञितम् ॥ ४२ ॥
अब्रवीच्च ततो वाक्यं यश्चैतत्पूजयिष्यति ॥
मम कुण्डत्रये स्नात्वा स यास्यति परां गतिम्॥ ४३ ॥
शुक्लपक्षे चतुर्दश्यां कार्तिके जागरं तु यः ॥
करिष्यति पुनश्चास्य लिंगस्य सुसमाहितः ॥
आजन्मप्रभवात्पापात्स विमुक्तिमवाप्स्यति ॥ ४४ ॥
एवमुक्तेऽथ विधिना प्रहृष्टस्त्रिपुरांतकः ॥
यज्ञमण्डपमासाद्य प्रस्थितो वेदिसंनिधौ ॥ ४५ ॥
ब्राह्मणैश्च ततः कर्म प्रारब्धं यज्ञसम्भवम् ॥
विस्मयोत्फुल्लनयनैर्नमस्कृत्य महेश्वरम् ॥ ४६ ॥
॥ सूत उवाच ॥ ॥
एवं च यज तस्तस्य चतुर्वक्त्रस्य तत्र च ॥
ऋषीणां कोटिरायाता दक्षिणापथवासिनाम् ॥ ४७ ॥
श्रुत्वा पैतामहं यज्ञं कौतुकेन समन्विताः ॥
कीदृशो भविता यज्ञो दीक्षितो यत्र पद्मजः ॥ ४८८ ॥
कीदृक्क्षेत्रं च तत्पुण्यं हाटकेश्वरसंज्ञितम् ॥
कीदृशास्ते च विप्रेन्द्रा ऋत्विजस्तत्र ये स्थिताः ॥ ४९ ॥
अथ ते सुपरिश्रांता मध्यंदिनगते रवौ ॥
रविवारेण संप्राप्ते नक्षत्रे चाश्विसंस्थिते ॥ ६.१८२.५० ॥
वैवस्वत्यां तिथौ चैव प्राप्ता घर्मपीडिताः ॥
कंचिज्जलाशयं प्राप्य प्रविष्टाः सलिलं शुभम् ॥ ५१ ॥
शंकुकर्णा महाकर्णा वकनासास्तथापरे ॥
महोदरा बृहद्दन्ता दीर्घोष्ठाः स्थूलमस्तकाः॥५२॥
चिपिटाक्षास्तथा चान्ये दीर्घग्रीवास्तथा परे॥
कृष्णांगाः स्फुटितैः पादैर्नखैर्दीर्घैः समुत्थितैः॥५३॥
ततो यावद्विनिष्क्रांताः प्रपश्यन्ति परस्परम्॥
तावद्वैरूपस्यनिर्मुक्ताः संजाताः कामसन्निभाः॥५४॥
ततो विस्मयमापन्ना मिथः प्रोचुः प्रहर्षिताः॥
रूपव्यत्ययमालोक्य ज्ञात्वा तीर्थं तदुत्तमम्॥
अत्र स्नानादिदं रूपमस्माभिः प्राप्तमुत्तमम्॥५५॥
यस्मात्तस्मादिदं तीर्थं रूपतीर्थं भविष्यति॥
त्रैलोक्ये सकले ख्यातं सर्वपातकनाशनम्॥५६॥
येऽत्र स्नानं करिष्यन्ति श्रद्धया परया युताः॥
सुरूपास्ते भविष्यंति सदा जन्मनि जन्मनि॥५७॥
पितॄंश्च तर्पयिष्यन्ति य त्र श्रद्धासमन्विताः॥
जलेनापि गयाश्राद्धात्ते लप्स्यन्ते धिकं फलम्॥५८॥
येऽत्र रत्नप्रदानं च प्रकरिष्यन्ति मानवाः॥
भविष्यंति न संदेहो राजानस्ते भवेभवे॥५९॥
स्थास्यामो वयमत्रैव सांप्रतं कृतनिश्चयाः॥
न यास्यामो वयं तीर्थं यद्यपि स्यात्सुशोभनम्॥६.१८२.६०॥
एवमुक्त्वाऽथ व्यभजंस्तत्सर्वं मुनयश्च ते॥
यज्ञोपवीतमात्राणि स्वानि तीर्थानि चक्रिरे॥६१॥
सूत उवाच॥
अद्यापि च द्विजश्रेष्ठास्तत्र तीर्थे जगद्गुरुः॥
प्रथमं स्पृशते तोयं नित्यं स्याद्दयितं शुभम्॥६२॥
निष्कामस्तु पुनर्मर्त्यो यः स्नानं तत्र श्रद्धया।.
कुरुते स परं श्रेयः प्राप्नुयात्सिद्धिलक्षणम्॥६३॥
एवं ते मुनयः सर्वे विभज्य तन्महत्सरः॥
सायंतनं च तत्रैव कृत्वा कर्म सुविस्तरम्॥६४.॥
ततो निशामुखे प्राप्ता यत्र देवः पितामहः॥
दीक्षितस्त्वथ मौनी च यज्ञमण्डपसंश्रितः॥६५॥
तं प्रणम्य ततः सर्वे गता यत्रर्त्विजः स्थिताः॥
उपविष्टाः परिश्रान्ता दिवा यज्ञियकर्मणा॥६६॥
इन्द्रादिकैः सुरैर्भक्त्या मृद्यमानाङ्घ्रयः स्थिताः॥
अभिवाद्याथ तान्सर्वानुपविष्टास्ततो ग्रतः॥६७॥
चक्रुश्चाथ कथाश्चित्रा यज्ञकर्मसमुद्भवाः॥
सोमपानस्य संबन्धो व्यत्ययं च समुद्भवम्॥६८॥
उद्गातुः प्रभवं चैव तथाध्वर्योः परस्परम्॥
प्रोचुस्ते तत्त्वमाश्रित्य तथान्ये दूषयन्ति तत्॥६९॥
अन्ये मीमांसकास्तत्र कोपसंरक्तलोचनाः।.
हन्युस्तेषां मतं वादमाश्रिता वाग्विचक्षणाः॥ ६.१८२.७०॥
परिशिष्टविदश्चान्ये मध्यस्था द्विजसत्तमाः॥
प्रोचुर्वादं परित्यज्य साभिप्रायं यथोदितम्॥७१॥
महावीरपुरोडाशचयनप्रमुखांस्तथा॥
विवादांश्चक्रिरे चान्ये स्वंस्वं पक्षं समाश्रिताः॥७२॥
एवं सा रजनी तेषामतिक्रान्ता द्विजन्मनाम्।७३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रूपतीर्थोत्पत्तिपूर्वकप्रथमयज्ञदिवसवृत्तान्तवर्णनंनाम द्व्यशीत्युत्तरशततमोऽध्यायः॥१८२॥