स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १८१
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे सर्वेर्नागरैर्ब्राह्मणोत्तमैः ॥
प्रेषितो मध्यगस्तत्र गर्तातीर्थसमुद्भवः ॥ १ ॥
रेरे मध्यग गत्वा त्वं ब्रूहि तं कुपितामहम् ॥
विप्रवृत्ति प्रहंतारं नीतिमार्गविवर्जितम् ॥ २ ॥
एतत्क्षेत्रं प्रदत्तं नः पूर्वेषां च द्विजन्मनाम् ॥
महेश्वरेण तुष्टेन पूरिते सर्पजे बिले ॥ ३ ॥
तस्य दत्तस्य चाद्यैव पितामहशतं गतम् ॥
पंचोत्तरमसन्दिग्धं यावत्त्वं कुपितामह ॥ ४ ॥
न केनापि कृतोऽस्माकं तिरस्कारो यथाऽधुना ॥
त्वां मुक्त्वा पापकर्माणं न्यायमार्गविवर्जितम् ॥ ५ ॥
नागरैर्ब्राह्मणैर्बाह्यं योऽत्र यज्ञं समाचरेत् ॥
श्राद्धं वा स हि वध्यः स्यात्सर्वेषां च द्विजन्मनाम् ॥ ६ ॥
न तस्य जायते श्रेयस्तत्समुत्थं कथंचन ॥
एतत्प्रोक्तं तदा तेन यदा स्थानं ददौ हि नः ॥ ७ ॥
तस्माद्यत्कुरुषे यज्ञं ब्राह्मणैर्नागरैः कुरु ॥
नान्यथा लप्स्यसे कर्तुं जीवद्भिर्नागरैर्द्विजैः ॥ ८ ॥
एवमुक्तस्ततो गत्वा मध्यगो यत्र पद्मजः ॥
यज्ञमण्डपदूरस्थो ब्राह्मणैः परिवारितः ॥ ९ ॥
यत्प्रोक्तं नागरैः सर्वैः सविशेषं तदा हि सः ॥
तच्छ्रुत्वा पद्मजः प्राह सांत्वपूर्वमिदं वचः ॥ ६.१८१.१० ॥
मानुषं भावमापन्न ऋत्विग्भिः परिवारितः ॥
त्वया सत्यमिदं प्रोक्तं सर्वं मध्यगसत्तम ॥ ११ ॥
किं करोमि वृताः सर्वे मया ते यज्ञकर्मणि ॥
ऋत्विजोऽध्वर्यु पूर्वा ये प्रमादेन न काम्यया ॥ १२ ॥
तस्मादानय तान्सर्वानत्र स्थाने द्विजोत्तमान् ॥
अनुज्ञातस्तु तैर्येन गच्छामि मखमण्डपे ॥ १३ ॥ ॥
॥ मध्यग उवाच ॥ ॥
त्वं देवत्वं परित्यज्य मानुषं भावमाश्रितः ॥
तत्कथं ते द्विजश्रेष्ठाः समागच्छंति तेंऽतिकम् ॥ १४ ॥
श्रेष्ठा गावः पशूनां च यथा पद्मसमुद्भव ॥
विप्राणामिह सर्वेषां तथा श्रेष्ठा हि नागराः ॥ १५ ॥
तत्माच्चेद्वांछसि प्राप्तिं त्वमेतां यज्ञसंभवाम् ॥
तद्भक्त्यानागरान्सर्वान्प्रसादय पितामह ॥ १६ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा पद्मजो भीत ऋत्विग्भिः परिवारितः ॥
जगाम तत्र यत्रस्था नागराः कुपिता द्विजाः ॥१७॥
प्रणिपत्य ततः सर्वान्विनयेन समन्वितः ॥
प्रोवाच वचनं श्रुत्वा कृतांजलिपुटः स्थितः॥१८॥
जानाम्यहं द्विजश्रेष्ठाः क्षेत्रेऽस्मिन्हाट केश्वरे ॥
युष्मद्बाह्यं वृथा श्राद्धं यज्ञकर्म तथैव च ॥ १९ ॥
कलिभीत्या मयाऽऽनीतं स्थानेऽस्मिन्पुष्करं निजम् ॥
तीर्थं च युष्मदीयं च निक्षेपोऽ यंसमर्पितः ॥ ६.१८१.२० ॥
ऋत्विजोऽमी समानीता गुरुणा यज्ञसिद्धये ॥
अजानता द्विजश्रेष्ठा आधिक्यं नागरात्मकम् ॥ २१ ॥
तस्माच्च क्षम्यतां मह्यं यतश्च वरणं कृतम् ॥
एतेषामेव विप्राणामग्निष्टोमकृते मया ॥ २२ ॥
एतच्च मामकं तीर्थं युष्माकं पापनाशनम् ॥
भविष्यति न सन्देहः कलिकालेऽपि संस्थिते ॥ २३ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यदि त्वं नागरैर्बाह्यं यज्ञं चात्र करिष्यसि ॥
तदन्येऽपि सुराः सर्वे तव मार्गानुयायि नः ॥
भविष्यन्ति तथा भूपास्तत्कार्यो न मखस्त्वया ॥ २४ ॥
यद्येवमपि देवेश यज्ञकर्म करिष्यसि ॥
अवमन्य द्विजान्सर्वाक्षिप्रं गच्छास्मदंतिकात् ॥ २५ ॥
॥ ब्रह्मोवाच ॥ ॥
अद्यप्रभृति यः कश्चिद्यज्ञमत्र करिष्यति ॥
श्राद्धं वा नागरैर्बाह्यं वृथा तत्संभविष्यति ॥२६॥
नागरोऽपि च यो न्यत्र कश्चिद्यज्ञं करिष्यति ॥
एतत्क्षेत्रं परित्यज्य वृथा तत्संभविष्यति ॥ २७ ॥
मर्यादेयं कृता विप्रा नागराणां मयाऽधुना ॥
कृत्वा प्रसादमस्माकं यज्ञार्थं दातुमर्हथ ॥
अनुज्ञां विधिवद्विप्रा येन यज्ञं करोम्यहम् ॥ २८ ॥
॥ सूत उवाच ॥ ॥
ततस्तैर्ब्राह्मणैस्तुष्टैरनुज्ञातः पितामहः ॥
चकार विधिवद्यज्ञं ये वृता ब्राह्मणाश्च तैः ॥ २९ ॥
विश्वकर्मा समागत्य ततो मस्तकमण्डनम् ॥
चकार ब्राह्मणश्रेष्ठा नागराणां मते स्थितः ॥ ६.१८१.३० ॥
ब्रह्मापि परमं तोषं गत्वा नारदमब्रवीत् ॥
सावित्रीमानय क्षिप्रं येन गच्छामि मण्डपे ॥ ३१ ॥
वाद्यमानेषु वाद्येषु सिद्धकिन्नरगुह्यकैः ॥
गन्धर्वैर्गीतसंसक्तैर्वेदोच्चारपरैर्द्विजैः ॥
अरणिं समुपादाय पुलस्त्यो वाक्यमब्रवीत् ॥ ३२ ॥
पत्नी ३ पत्नीति विप्रेन्द्राः प्रोच्चैस्तत्र व्यवस्थिताः ॥ ३३ ॥
एतस्मिन्नंतरे ब्रह्मा नारदं मुनिसत्तमम्॥
संज्ञया प्रेषयामास पत्नी चानीयतामिति ॥ ३४ ॥
सोऽपि मंदं समागत्य सावित्रीं प्राह लीलया ॥
युद्धप्रियोंऽतरं वांछन्सावित्र्या सह वेधसः [। ३५ ॥
अहं संप्रेषितः पित्रा तव पार्श्वे सुरेश्वरि ॥
आगच्छ प्रस्थितः स्नातः सांप्रतं यज्ञमण्डपे ॥ ३६ ॥
परमेकाकिनी तत्र गच्छमाना सुरेश्वरि ॥
कीदृग्रूपा सदसि वै दृश्यसे त्वमनाथवत् ॥ ३७ ॥
तस्मादानीयतां सर्वा याः काश्चिद्देवयोषितः ॥
याभिः परिवृता देवि यास्यसि त्वं महामखे ॥ ३८ ॥
एवमुक्त्वा मुनिश्रेष्ठो नारदो मुनिसत्तमः ॥
अब्रवीत्पितरं गत्वा तातांबाऽऽकारिता मया ॥ ३९ ॥
परं तस्याः स्थिरो भावः किंचित्संलक्षितो मया ॥
तस्य तद्वचनं श्रुत्वा ततो मन्युसमन्वितः॥६.१८१.४॥।
पुलस्त्यं प्रेषयामास सावित्र्या सन्निधौ ततः ॥
गच्छ वत्स त्वमानीहि स्थानं सा शिथिलात्मिका ॥
सोमभारपरिश्रांतं पश्य मामूर्ध्वसंस्थितम्॥४१॥
एष कालात्ययो भावि यज्ञकर्मणि सांप्रतम्॥
यज्ञयानमुहूर्तोऽयं सावशेषो व्यवस्थितः ॥४२॥
तस्य तद्वचनं श्रुत्वा पुलस्त्यः सत्वरं ययौ ॥
सावित्री तिष्ठते यत्र गीतनृत्यसमाकुला ॥ ४३ ॥
ततः प्रोवाच किं देवि त्वं तिष्ठसि निराकुला ॥
यज्ञयानोचितः कालः सोऽयं शेषस्तु तिष्ठति ॥४४॥
तस्मादागच्छ गच्छामस्तातः कृच्छ्रेण तिष्ठति॥
सोमभारार्द्दितश्चोर्ध्वं सर्वैर्देवैः समावृतः ॥४५॥
॥ सावित्र्युवाच ॥ ॥
सर्वदेववृतस्तात तव तातो व्यवस्थितः ॥
एकाकिनी कथं तत्र गच्छाम्यहमनाथवत् ॥४६॥
तद्ब्रूहि पितरं गत्वा मुहूर्तं परिपाल्यताम् ॥४७॥
यावदभ्येति शक्राणी गौरी लक्ष्मीस्तथा पराः॥
देवकन्याः समाजेऽत्र ताभिरेष्याम्यह८द्रुतम् ॥ ४८ ॥
सर्वासां प्रेषितो वायुर्निमत्रणकृते मया ॥
आगमिष्यन्ति ताः शीघ्रमेवं वाच्यः पिता त्वया ॥४९॥
॥ सूत उवाच ॥ ॥
सोऽपि गत्वा द्रुतं प्राह सोमभारार्दितं विधिम्॥
नैषाभ्येति जगन्नाथ प्रसक्ता गृहकर्मणि ॥ ६.१८१.५० ॥
सा मां प्राह च देवानां पत्नीभिः सहिता मखे ॥
अहं यास्यामि तासां च नैकाद्यापि प्रदृश्यते ॥ ५१ ॥
एवं ज्ञात्वा सुरश्रेष्ठ कुरु यत्ते सुरोचते ॥
अतिक्रामति कालोऽयं यज्ञयानसमुद्रवः ॥
तिष्ठते च गृहव्यग्रा सापि स्त्री शिथिलात्मिका ॥ ५२ ॥
तच्छ्रुत्वा वचनं तस्य पुलस्त्यस्य पितामहः ॥
समीपस्थं तदा शक्रं प्रोवाच वचनं द्विजाः ॥ ५३ ॥
॥ ब्रह्मोवाच ॥ ॥
शक्र नायाति सावित्री सापि स्त्री शिथिलात्मिका ॥
अनया भार्यया यज्ञो मया कार्योऽयमेव तु ॥ ५४ ॥
गच्छ शक्र समानीहि कन्यां कांचित्त्वरान्वितः ॥
यावन्न क्रमते कालो यज्ञयानसमुद्भवः ॥ ५५ ॥
पितामहवचः श्रुत्वा तदर्थं कन्यका द्विजाः ॥
शक्रेणासादिता शीघ्रं भ्रममाणा समीपतः ॥ ५६ ॥
अथ तक्रघटव्यग्रमस्तका तेन वीक्षिता ॥
कन्यका गोपजा तन्वी चंद्रास्या पद्मलोचना ॥ ५७ ॥
सर्वलक्षणसंपूर्णा यौवनारंभमाश्रिता ॥
सा शक्रेणाथ संपृष्टा का त्वं कमललोचने ॥ ५८ ॥
कुमारी वा सनाथा वा सुता कस्य ब्रवीहि नः ॥ ५९ ॥
॥ कन्यो वाच ॥ ॥
गोपकन्यास्मि भद्रं ते तक्रं विक्रेतुमागता ॥
यदि गृह्णासि मे मूल्यं तच्छीघ्रं देहि मा चिरम् ॥ ६.१८१.६० ॥
तच्छ्रुत्वा त्रिदिवेन्द्रोऽपि मत्वा तां गोपकन्यकाम् ॥
जगृहे त्वरया युक्तस्तक्रं चोत्सृज्य भूतले ॥ ६१ ॥
अथ तां रुदतीं शक्रः समादाय त्वरान्वितः ॥
गोवक्त्रेण प्रवेश्याथ गुह्येनाकर्षयत्ततः ॥ ६२ ॥
एवं मेध्यतमां कृत्वा संस्नाप्य सलिलैः शुभैः ॥
ज्येष्ठकुण्डस्य विप्रेन्द्राः परिधाय्य सुवाससी ॥ ६३ ॥
ततश्च हर्षसंयुक्तः प्रोवाच चतुराननम् ॥
द्रुतं गत्वा पुरो धृत्वा सर्वदेवसमागमे ॥ ६४ ॥
कन्यकेयं सुरश्रेष्ठ समानीता मयाऽधुना ॥
तवार्थाय सुरूपांगी सर्वलक्षणलक्षिता ॥ ६५ ॥
गोपकन्या विदित्वेमां गोवक्त्रेण प्रवेश्य च ॥
आकर्षिता च गुह्येन पावनार्थं चतुर्मुख ॥ ६६ ॥
॥ श्रीवासुदेव उवाच ॥ ॥
गवां च ब्राह्मणानां च कुलमेकं द्विधा कृतम् ॥
एकत्र मंत्रास्तिष्ठंति हविरन्यत्र तिष्ठति ॥ ६७ ॥
धेनूदराद्विनिष्क्रांता तज्जातेयं द्विजन्मनाम् ॥
अस्याः पाणिग्रहं देव त्वं कुरुष्व मखाप्तये ॥ ६८
यावन्न चलते कालो यज्ञयानसमुद्भवः ॥ ६९ ॥
॥ रुद्र उवाच ॥ ॥
प्रविष्टा गोमुखे यस्मादपानेन विनिर्गता ॥
गायत्रीनाम ते पत्नी तस्मादेषा भविष्यति ॥ ६.१८१.७० ॥
॥ ब्रह्मोवाच ॥ ॥
वदन्तु ब्राह्मणाः सर्वे गोपकन्याप्यसौ यदि ॥
संभूय ब्राह्मणीश्रेष्ठा यथा पत्नी भवेन्मम ॥ ७१ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
एषा स्याद्ब्राह्मणश्रेष्ठा गोपजातिविवर्जिता ॥
अस्मद्वाक्याच्चतुर्वक्त्र कुरु पाणिग्रहं द्रुतम् ॥ ७२ ॥
॥ सूत उवाच ॥ ॥
ततः पाणिग्रहं चक्रे तस्या देवः पितामहः ॥
कृत्वा सोमं ततो मूर्ध्नि गृह्योक्तविधिना द्विजाः ॥ ७३ ॥
संतिष्ठति च तत्रस्था महादेवी सुपावनी ॥
अद्यापि लोके विख्याता धनसौभाग्यदायिनी ॥ ॥ ७४ ॥
यस्तस्यां कुरुते मर्त्यः कन्यादानं समाहितः ॥
समस्तं फलमाप्नोति राजसूयाश्वमेधयोः ॥ ७९ ॥
कन्या हस्तग्रहं तत्र याऽऽप्नोति पतिना सह ॥
सा स्यात्पुत्रवती साध्वी सुखसौभाग्यसंयुता ॥ ७६ ॥
पिंडदानं नरस्तस्यां यः करोति द्विजोत्तमाः ॥
पितरस्तस्य संतुष्टास्तर्पिताः पितृतीर्थवत् ॥ ७७ ॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गायत्रीविवाहे गायत्रीतीर्थमाहात्म्यवर्णनंनामैकाशीत्युत्तरशततमोअध्यायः ॥ १८१ ॥