स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १७९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति पुष्करत्रितयं शुभम् ॥
हाटकेश्वरजे क्षेत्रे सर्वपातकनाशनम् ॥ १ ॥
यस्मिन्दृष्टेऽथवा स्पृष्टे कीर्तिते वा द्विजोत्तमाः ॥
पातकं नाशमायाति भास्करेण तमो यथा ॥ २ ।।
पुनंति सर्वतीर्थानि स्नानाद्दानादसंशयम् ॥
पुष्करालोकनादेव सर्वपापैः प्रमुच्यते ॥ ३ ॥
॥ ऋषय ऊचुः ॥ ॥
श्रूयते पुष्करंनाम तीर्थं त्रैलोक्यविश्रुतम् ॥
ब्रह्मणा निर्मितं तत्र यच्च योजनमात्रकम् ॥ ४ ॥
उत्तरे चन्द्रभागाया नद्या यावत्सरस्वती ॥
दक्षिणे करतोयायाः सीमेयं पुष्करत्रये ॥ ५ ॥
अस्माकं तु पुरा सूत त्वयोक्तं वियति स्थितम् ॥
एतन्नः कौतुकं सूत तत्कथं हाटकेश्वरे ॥
तत्र क्षेत्रे समायातं तस्मात्त्वं वक्तुमर्हसि ॥ ६ ॥
॥ सूत उवाच ॥ ॥
सत्यमेतन्महाभागा यद्भवद्भिरुदाहृतम् ॥
तस्मिन्क्षेत्रे द्विजश्रेष्ठास्तच्छृणुध्वं समाहिताः ॥ ७ ॥
सर्वतो विस्तराद्वच्मि नमस्कृत्य स्वयं भुवम् ॥ ८ ॥
ब्रह्मलोके निवसतो ब्रह्मणोऽव्यक्तजन्मनः ॥
देवर्षिर्नारदः प्राप्तो भ्रांत्वा लोकत्रयं मुनिः ॥ ९ ॥
स नत्वा शिरसा पादावुपविष्टस्त दग्रतः ॥ ६.१७९.१० ॥
॥ ब्रह्मोवाच ॥ ॥
कस्माद्वत्स चिराद्दृष्टः कुतः प्राप्तोऽधुना भवान्॥
क्व भ्रांतस्त्वं समाचक्ष्व ब्रूहि वत्सात्र कारणम् ॥ ११ ॥ ॥
॥ नारद उवाच ॥ ॥
मर्त्यलोकाद्विभो प्राप्तः सांप्रतं च त्वरान्वितः ॥
तव पादप्रपूजार्थं सत्येनात्मानमालभे ॥ १२ ॥
॥ ब्रह्मोवाच ॥ ॥
किंवदन्तीं ममाचक्ष्व मर्त्यलोकसमुद्भवाम् ॥
कीदृशाः पार्थिवास्तत्र कीदृशा द्विजसत्तमाः ॥
कीदृशा व्यवहाराश्च वर्तन्ते तत्र सांप्रतम् ॥ १३ ॥ ॥
॥ नारद उवाच ॥ ॥
मर्त्यलोके कलिर्जातः सांप्रतं सुरसत्तम ॥ १४ ॥
राजानः सत्पथं त्यक्त्वा तथा लोभपरायणाः ॥
पीडयंति च लोकांश्च अर्थहेतोः सुनिर्घृणाः ॥ १५ ॥
शौर्यभावपरित्यक्ताः परदारविमर्दकाः ॥
पूजयन्ति न ते विप्रान्न देवान्न गुरूनपि ॥ १६ ॥
वेदविक्रय कर्तारो ब्राह्मणाः शौचवर्जिताः ॥
पापप्रतिग्रहासक्ताः सन्ध्याहीनाः सुनिर्घृणाः ॥ १७ ॥
कृषिकर्मरता नित्यं वैश्यवत्पशुपालकाः ॥
वैश्याः सर्वे समुच्छेदं प्रयाता धरणीतले ॥ १८ ॥
शूद्रा नित्यं धर्मकामाः शूद्राश्चैव तपस्विनः ॥
लोकयात्राक्रियाः सर्वे प्रहसंति व्यपत्रपाः ॥ १९ ॥
यस्य चास्ति गृहे वित्तं तरुण्यश्च तथा स्त्रियः ॥
तेनतेन समं सख्यं प्रकुर्वन्ति नरा भुवि ॥ ६.१७९.२० ॥
विधवानां व्रतस्थानां सर्वेषां लिंगिनां तथा ॥
हृदि स्थितो महान्कामो व्रतचर्याबहिःस्थिताः ॥२१॥
तीर्थानि विप्लवं यांतिपापलोकश्रितानि च॥
कलेभींतानि सर्वाणि प्रद्रवन्ति दिशो दश ॥२२॥
अहं तत्र स्थितो यस्मात्कलिकाले पितामह ॥ २३ ॥
कलिकाले विशेषेण स्वैरिण्यो ललितस्पृहाः ॥
भर्त्रा विवदमानाश्च स्त्रियः कार्मणतत्पराः॥
वृथा व्रतानि कुर्वंति त्यक्त्वा ताः स्वपतेः कथाम् ॥ २४ ॥
कलिर्बलिष्ठः सुतरां वरदानेन ते कृतः ॥
यदा मर्त्ये भवेद्युद्धं कंडूतिर्जायते हृदि ॥ २९ ॥
स्वर्गे वा मस्तके चैव पाताले चाथ पादयोः ॥
सांप्रतं मर्त्यलोके च मया दृष्टमनेकशः ॥ २६ ॥
श्वश्रूणां च वधूनां च तथा जनकपुत्रयोः ॥
बांधवानां विशेषेण तथा च स्वामिभृत्ययोः ॥ २७ ॥
चौराणां पार्थिवानां च दम्पत्योश्च विशेषतः ॥
स्वल्पोदकास्तथा मेघाः स्वल्पसस्या च मेदिनी ॥ २८ ॥
स्वल्पक्षीरास्तथा गावः क्षीरे सर्पिर्न विद्यते ॥
एवं युद्धानि तेषां च वीक्षमाणो दिवानिशम् ॥ २९ ॥
अहं मर्त्ये परिभ्रांतश्चिरात्तेन समागतः ॥
भूयो यास्यामि तत्रैव कण्डूतिर्महतीस्थिता ॥ ६.१७९.३० ॥
तच्छ्रुत्वा वचनं तस्य नारदस्य पितामहः ॥
पुष्करस्य कृते जातश्चिन्ताव्याकु लतेंद्रियः ॥ ३१ ॥
मर्त्ये च मामकं तीर्थं पुष्करंनाम विश्रुतम् ॥
नाशं यास्यति तन्नूनं कलिकालपरिप्लुतम् ॥ ३२ ॥
तस्मादन्यत्र नेष्यामि कलिर्यत्र न विद्यते ॥
येन तत्र विमुंचामि निजं तीर्थं च पुष्करम् ॥ ३३ ॥
कलिकाले च संप्राप्ते सर्वप्राणिभयंकरे ॥
तत्र प्रयांतु तीर्थानि सर्वा ण्येव विशेषतः ॥ ३४ ॥
गते कलौ प्रयास्यंति निजस्थानमसंशयम् ॥ ३५ ॥
एवं निश्चित्य मनसा हस्तस्थं कमलं ततः ॥
प्रोवाच सादरं तच्च स्वयं ध्यात्वा पितामहः ॥ ३६ ॥
पत त्वं पद्म भूपृष्ठे कलिर्यत्र न विद्यते ॥
येनानयामि तत्रैव पुष्करं तीर्थमात्मनः ॥ ३७ ॥
ततस्तत्प्रेषितं तेन पद्मं भ्रांत्वा महीतले ॥
समस्ते पतितं क्षेत्रे हाटकेश्वरसंभवे ॥३८॥
दृष्ट्वा वेदविदो विप्रान्स्वाध्यायनिरताञ्छुचीन् ॥
तेषां यज्ञक्रियाभिश्च यज्ञोपांतैः समंततः ॥ ३९ ॥
यूपाद्यैः सर्वतो व्याप्ते सदिशे गगनांगणे ॥
ऋग्यजुःसामघोषेण तथा चाथर्वजेन च ॥ ६.१७९.४० ॥
दिग्मण्डले तथा व्याप्ते नान्यः संश्रूयते ध्वनिः ॥
तथा च तार्किकाणां च विवादेषु महत्सु च ॥ ४१ ॥
वेदांतानां समस्तानां व्याख्याने बहुधा कृते ॥
दृश्यन्ते मुनयो यत्र संस्थिता नियमेषु च ॥ ४२ ॥
एकाहारा निराहारा एकांतरकृताशनाः ॥
त्रिरात्रोपोषिताश्चान्ये कृच्छ्रचांद्रायणे रताः ॥ ४३ ॥
महापाराकिणश्चान्ये तथा मासोपवासिनः ॥
अश्मकुट्टाशिनश्चान्ये दन्तोलूखलिकास्तथा ॥ ४४ ॥
शीर्णपर्णाशिनश्चैके फलाहारा महर्षयः ॥
तद्दृष्ट्वा तादृशं क्षेत्रं संयुक्तं विविधैर्गुणैः ॥ ४५ ॥
ततस्तत्पतितं तत्र पुण्यं ज्ञात्वा महीतले ॥
यत्र स्थानेऽपतत्पूर्वं तस्मादुच्चलितं पुनः ॥ ४६ ।
अन्यस्मिंश्च ततः स्थाने द्वितीये द्विजसत्तमाः ॥
तस्मादपि तृतीये तु तृतीयं पंकजं हितम् ॥ ४७ ॥
ततो गर्तात्रयं जातं तेषु स्थानेषु च त्रिषु ॥
गर्तासु च जल जातं स्वच्छं स्फटिकसंनिभम् ॥ ४८ ॥
एतस्मिन्नंतरे प्राप्तः स्वयमेव पितामहः ॥
तत्र स्थाने द्विजश्रेष्ठा यज्ञकर्मप्रसिद्धये ॥ ॥। ४९ ॥
दृष्ट्वा समंततः क्षेत्रं हाटकेश्वरसंज्ञितम् ॥
नानाविप्रैः समाकीर्णं वेदवेदांगपारगैः ॥
तपस्विभिस्तथानेकैर्व्रतचर्यापरायणैः ॥ ६.१७९.५० ॥
अहो क्षेत्रमहो क्षेत्रं पुण्यं रम्यं द्विजप्रियम् ॥
तस्मायज्ञं करिष्यामि क्षेत्रेऽस्मिंश्च द्विजाश्रये ॥ ५१ ॥
आनयिष्यामि तच्चापि पुष्करत्रितयं शुभम् ॥
गर्तास्वेतासु पुण्यासु ज्येष्ठं मध्यं कनीयकम् ॥ ५२ ॥
कलिकाले च संप्राप्ते येन लोपं न गच्छति ॥
स्वयं निश्चित्य मनसा चोपविश्य धरातले ॥ ५३ ॥
ध्यात्वा च सुचिरं कालमानयामास तत्र च ॥
पुष्करत्रितयं श्रेष्ठं ज्येष्ठमध्यकनीयकम् ॥ ५४ ॥
ततोऽब्रवीत्स हृष्टात्मा ह्येतद्धि पुष्कर त्रयम् ॥
मया सम्यक्समानीतं कलिकालभयेन च ॥ ५५ ॥
येऽत्र स्नानं करिष्यंति श्रद्धया परया युताः ॥
ते यास्यंति परां सिद्धिमक्षयां मत्प्रसादतः ॥ ५६ ॥
ये च श्राद्धं करिष्यंति कार्तिक्यां सुसमाहिताः ॥
करिष्यंति गयाशीर्षे तेषां पुण्यं महत्तमम् ॥ ५७ ॥
तत्राद्यात्पुष्करात्पुण्यं लभिष्यंति शताधिकम् ॥
मया यज्ञः कृतस्तत्र कार्तिक्यां पूर्वपुष्करे ॥ ५८ ॥
वैशाख्यां च करिष्यामि अत्राहं च द्वितीयके ॥ ॥ ५९ ॥
एवमुक्त्वा ततो ब्रह्मा ह्यादिदेश सदागतिम् ॥
ममादेशाद्द्रुतं वायो समानय पुरंदरम् ॥ ६.१७९.६० ॥
आदित्यैर्वसुभिः सार्धं रुद्रैश्चैव मरुद्गणैः ॥
गंधर्वैर्लोकपालैश्च सिद्धैर्विद्याधरैस्तथा ॥ ६१ ॥
येन मे स्यात्सहायत्वं समस्ते यज्ञकर्मणि ॥
तच्छ्रुत्वा सकलं वायुर्गत्वा शक्रनिवेशनम् ॥
कथयामास तत्सर्वं यदुक्तं परमेष्ठिना ॥ ६२ ॥
सत्वरं प्रययौ तत्र सर्वैर्देवगणैः सह ॥
प्रणिपत्य ततस्तं स ब्रह्माणं वाक्यमब्रवीत् ॥ ६३ ॥
आदेशो दीयतां देव ह्यहमाकारितस्त्वया ॥
यदर्थं तत्करिष्यामि तस्माच्छीघ्रं निवेदय ॥ ६४ ॥
ब्रह्मोवाच ॥ ॥
मया शक्रात्र चानीतं सुपुण्यं पुष्करत्रयम् ॥
कलिकालभयाच्चैव करिष्ये तदहं स्थिरम्॥ ६५ ॥
अग्निष्टोमत्रयं कृत्वा वैशाख्यां च यथार्चितम् ॥
संभारमाहरस्वाशु तदर्थं सर्वमेव हि ॥ ६६ ॥
ब्राह्मणांश्च तदर्हांश्च वेदवेदांगपारगान् ॥
तच्छ्रुत्वा विनयाच्छक्रस्तथेत्युक्त्वा त्वरान्वितः ॥'
संभारानानयामास तदर्हांश्च द्विजोत्तमान् ॥ ६७ ॥
ततश्चकार विधिवद्यज्ञं स प्रपितामहः ॥
यथोक्तविधिना सर्वं तथा संपूर्णदक्षिणम् ॥ ६८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्करत्रयोत्पत्तिपूर्वकं यज्ञसमारंभार्थमुपकरणानयनब्राह्मणामन्त्रणादि प्रकारकथनंनामैकोनाशीत्युत्तरशततमोऽध्यायः॥१७९॥