स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १७८

विकिस्रोतः तः
Jump to navigation Jump to search

॥ लक्ष्मीरुवाच ॥ ॥
एवं राज्यं मया प्राप्तं गौरीपूजा कृते विभो ॥
सौभाग्यं परमं चैव दुर्लभं सर्वयोषिताम्॥ १ ॥
न चापत्यं मया लब्धं तथापि परमेश्वर ॥
तादृशेऽपि च सौभाग्ये तारुण्ये तादृशे स्थिते ॥ २ ॥
दह्यामि तेन दुःखेन दिवानक्तं सुखं न मे ॥
कस्यचित्त्वथ कालस्य दुर्वासा मुनिसत्तमः ॥ ३ ॥
आनर्ताधिपतेर्हर्म्यं संप्राप्तो गौरवाय सः॥।
चातुर्मास्यकृते चैव मृत्तिकाग्रहणाय च ॥। ४॥
ततः संपूजितो राज्ञा आनर्तेन यथाक्रमम्॥
दत्त्वार्घ्यं मधुपर्कं च ततः प्रोक्तं प्रणम्य च॥५॥
स्वागतं ते मुनिश्रेष्ठ भूयः सुस्वागतं च ते॥
नान्यो धन्यतमो लोके भूयोऽस्ति सदृशो मया॥६॥
यौ ते पादौ रजोध्वस्तौ केशैर्मे निर्मलीकृतौ॥
तद्ब्रूहि किंकरोम्यद्य गृहायातस्य ते मुने ॥ ७ ॥
अपि राज्यं प्रयच्छामि का वार्तान्येषु वस्तुषु ॥ ८ ॥
॥ दुर्वासा उवाच ॥ ॥
चातुर्मासीविधानं ते करिष्ये नृप मंदिरे ॥
मृत्तिकाग्रहणं तावच्छुश्रूषा क्रियतां मम ॥
स तथेति प्रतिज्ञाय मामूचे पार्थिवोत्तमः ॥ ९ ॥
शुश्रूषा चास्य कर्तव्या सर्व दैव वरानने ॥
चातुर्मासीव्रतं यावद्देवतार्चनपूर्वकम् ॥ 6.178.१० ॥
बाढमित्येवमुक्त्वाथ मया सर्वमनुष्ठितम् ॥
शुश्रूषार्हं च यत्कर्म दुहितेव पितुर्यथा ॥। ॥ ११ ॥
चातुर्मास्यां व्यतीतायां यदा संप्रस्थितो मुनिः ॥
तदा प्रोवाच मां तुष्टः पुत्रि किं करवाणि ते ॥ १२ ॥
ततः स भगवान्प्रोक्तः प्रणिपत्य मया मुहुः ॥
अपत्यं नास्ति मे ब्रह्मंस्तेन दह्याम्यहर्निशम् ॥ १३ ॥
ईदृशे सति राज्ञोऽपि यौवने च महत्तरे ॥
तत्त्वं वद मुनिश्रेष्ठ येन स्यान्मम संततिः ॥ १४ ॥
व्रतेन नियमेनाथ दानेन च हुतेन च ॥
ततः स सुचिरं ध्यात्वा मामुवाच स्मयन्निव ॥ १५ ॥
अन्यदेहांतरे पुत्रि त्वया गौरी प्रपूजिता ॥
तप्ताभिर्वालुकाभिः सा मृत्युकाल उपस्थिते ॥ १६ ॥
तद्भक्त्या लब्धराज्यापि दाहेन परियुज्यसे ॥
गौरी यत्तापसंयुक्ता बालुकाभिः कृता त्वया ॥ १७ ॥
न देवो विद्यते काष्ठे पाषाणे मृत्तिकासु च ॥
भावेषु विद्यते देवो मन्त्रसंयोगसंयुतः ॥ १८ ॥
भावभक्तिसमा युक्ता मंत्रसंयोजनेन च ॥
देवी मन्त्रसमायाता त्वया वालुकयाऽर्चिता ॥ १९ ॥
त्वत्काये तेन संतापः सर्वदाऽयं व्यवस्थितः॥
तस्माद्रत्नमयीं गौरीं कृत्वा त्वं पंचपिंडिकाम् ॥
हाटकेश्वरजे क्षेत्रे संस्थापय शुभानने ॥6.178.२0॥
वृषस्थे भास्करे पश्चात्तस्या उपरि स्रावि यत् ॥
जलयन्त्रं दिवारात्रं धारयस्व प्रयत्नतः ॥ २१ ॥
ततो यथायथा तस्याः शीतभावो भविष्यति ॥
तथातथा च ते दाहः शांतिं यास्यत्यहर्निशम् ॥ २२ ॥
दाहांते भविता गर्भस्ततः पुत्रमवाप्स्यसि ॥
राज्यभारक्षमं शूरं त्रिषु लोकेषु विश्रुतम् ॥ २३ ॥
अन्यापि कामिनी यात्र एवं तां पूजयिष्यति ॥
ज्येष्ठे मासे तथा सापि यथा त्वं प्रभविष्यति ॥ २४ ॥
॥ लक्ष्मीरुवाच ॥ ॥
ततो मया पुनः प्रोक्तो भगवान्स मुनीश्वरः ॥
मानुषत्वे न मे रागो विरक्तिर्महती स्थिता ॥ २५ ॥
नदीवेगोपमं दृष्ट्वा जीवितंसर्वदेहिनाम् ॥
तन्मे वद महाभाग यत्किंचिद् व्रतमुत्तमम् ॥ २६ ॥
मानुषत्वं न येन स्यात्सम्यक्चीर्णेन सद्द्विज ॥
ततः स सुचिरं ध्यात्वा मामाह परमेश्वर ॥ २७ ॥
अस्ति पुत्रि व्रतं पुण्यं गौरी तुष्टिकरं परम् ॥
येन चीर्णेन वै सम्यग्योषिद्देवत्वमाप्नुयात् ॥ २८ ॥
गोमयाख्या महादेवी कृता वै गोमयेन सा ॥
ततो गोलोकमापन्नाः सर्वास्ता वरवर्णिनि ॥ २९ ॥
तां त्वं कुरुष्व कल्याणि येन देवत्वमाप्स्यसि ॥
ततो मया पुनः प्रोक्तः स मुनिः सुरसत्तम ॥ 6.178.३० ॥
कस्मिन्काले प्रकर्तव्या विधिना केन सन्मुने ॥
सर्वं विस्तरतो ब्रूहि येन तां प्रकरोम्यहम् ॥ ३१ ॥
॥ दुर्वासा उवाच ॥ ॥
नभस्ये चासिते पक्षे तृतीयादिवसे स्थिते॥
प्रातरुत्थाय पश्चाच्च भक्षयेद्दंतधावनम्॥३२॥
ततश्च नियमं कृत्वा उपवाससमुद्भवम्॥
गौरीनामसमुच्चार्य श्रद्धापूतेन चेतसा ॥ ३३ ॥
ततो निशागमे प्राप्ते कृत्वा गौरीचतुष्टयम् ॥
मृन्मयं यादृशं चैव तदिहैकमनाः शृणु ॥ ३४ ॥
एका गौरी प्रकर्तव्या पंचपिंडा यथोदिता ॥
प्रहरेप्रहरे प्राप्ते तासु पूजां समाचरेत् ॥
यैर्मंत्रैस्तान्निबोध त्वमेकैकस्याः पृथक्पृथक् ॥ ३५ ॥
हिमाचलगृहे जाता देवि त्वं शंकरप्रिये ॥
मेनागर्भसमुद्भूता पूजां गृह्ण नमोस्तु ते ॥ ३६ ॥
धूपं दद्यात्ततश्चैव कर्पूरं श्रद्धया सह ॥
रक्तसूत्रेण दीपं च घृतेन परिकल्पयेत् ॥ ३७ ॥
जातिपुष्पैः समभ्यर्च्य नैवेद्ये मोदकान्न्यसेत् ॥
रक्तवस्त्रेण संछाद्य अर्घ्यं दत्त्वा ततः परम् ॥ ३८ ॥
यस्य वृक्षस्य पुष्पं च तस्य स्याद्दन्तधावनम् ॥
मातुलिंगेन तस्यास्तु मन्त्रेणानेन भक्तितः ॥ ३९ ॥
अर्घ्यं दद्यात्प्रयत्नेन गन्धपुष्पाक्षतान्वितम् ॥
शंकरस्य प्रिये देवि हिमाचलसुते शुभे ॥
अर्घ्यमेनं मया दत्तं प्रतिगृह्ण नमोऽस्तु ते ॥ 6.178.४० ॥
तदेव प्राशनं कुर्यात्ततः कायविशुद्धये ॥
प्रहरांते च संपूज्य अर्धनारीश्वरं ततः ॥ ४१ ॥
सुरभ्या पूजयेद्भक्त्या मन्त्रेणानेन पार्वति ॥
वाममर्धं शरीरस्य या हरस्य व्यवस्थिता ॥
सा मे पूजां प्रगृह्णातु तस्यै देव्यै नमोऽस्तु ते ॥ ४२ ॥
अगरुं च ततो भक्त्या धूपं दद्यात्तथा शुभे ॥
नैवेद्ये गुणकांश्चैव नालिकेरेण चार्घकम् ॥ ४३ ॥
मन्त्रेणानेन दातव्यं तदेव प्राशनं स्मृतम् ॥
अर्धनारीश्वरौ यौ च संस्थितौ परमेश्वरौ ॥ ४४ ॥
अर्घ्यो मे गृह्यतां देवौ स्यातं सर्वसुखप्रदौ ॥
तृतीये प्रहरे प्राप्ते शतपत्र्या प्रपूजयेत् ॥ ४५ ॥
उमामहेश्वरौ देवौ मंत्रेणानेन पूजयेत् ॥ ॥ ४६ ॥
उमामहेश्वरौ देवौ यौ तौ सृष्टिलयान्वितौ ॥
तौ गृह्णीतामिमां पूजां मया दत्तां प्रभक्तितः ॥ ४७ ॥
गुग्गुलोत्थं ततो धूपं नैवेद्यं घारिकात्मकम् ॥
जातीफलेन चार्घ्यं च तदेव प्राशनं स्मृतम् ॥ ४८ ॥
ततश्चार्घ्यः प्रदातव्यो मंत्रेणानेन भक्तितः ॥
ग्रंथिचूर्णेन धूपं च अर्घ्यं मदनजं फलम् ॥ ४९ ॥
तदेव प्राशनं कार्यं ततः कायविशुद्धये ॥ 6.178.५० ॥
उमामहेश्वरौ देवौ सर्वकामसुखप्रदौ ॥
गृह्णीतामर्घ्यमेतं मे दयां कृत्वा महत्तमाम्॥ ९१ ॥
चतुर्थे प्रहरे प्राप्ते तां गौरीं पंचपिंडिकाम् ॥
भृंगराजेन संपूज्य मंत्रेणानेन भक्तितः ॥ ५२ ॥
पृथिव्यादीनि भूतानि यानि प्रोक्तानि पंच च ॥
पंचरूपाणि देवेशि पूजां गृह्ण नमोऽस्तु ते ॥ ५३ ॥
नैवेद्ये घृतपूपांश्च दद्याद्देव्याः प्रभक्तितः ॥
ग्रंथिचूर्णेन धूपं च ह्यर्घ्यं मदनजं फलम् ॥
तदेव प्राशनं कार्यमर्घ्यमंत्रमिदं स्मृतम् ॥ ५४ ॥
पंचभूतमयी देवी पंचधा या व्यवस्थिता ॥
अर्घ्यमेनं मया दत्तं सा गृह्णातु सुरे श्वरी ॥ ५५ ॥
एवं सर्वा निशा सा च गीतवाद्यादिनिःस्वनैः॥
तासां चैवाग्रतो नेया नैव निद्रां समाचरेत् । ५६ ॥
ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥
स्नात्वा संपूजयेद्विप्रं सह पत्न्या प्रभक्तितः ॥ ५७ ॥
वस्त्रैराभरणैश्चैव स्वशक्त्या नृपनंदिनि ॥
गौर्यै भक्ष्यं च दातव्यं मिष्टान्नेन शुचिस्मिते ॥ ५८ ॥
ततः करेणुमानीय वडवां वा सुमध्यमे ॥
गौरीचतुष्टयं तच्च समारोप्य तथोपरि ॥ ५९ ॥
गीतवादित्रशब्देन वेदध्वनियुतेन च ॥
नद्यां वाऽथ तडागे वा वाप्यां वाथ परिक्षिपेत् ॥ 6.178.६० ॥
मंत्रेणानेन सद्भक्त्या तवेदं वच्मि सुन्दरि ॥ ६१ ॥
आहूतासि मया देवि पूजितासि मया शुभे ॥
मम सौभाग्यदानाय यथेष्टं गम्यतामिति ॥ ६२ ॥
॥ लक्ष्मीरुवाच ॥ ॥
एवं मया कृता देव सा तृतीया यथोदिता ॥
नभस्ये मासि संप्राप्ते भक्त्या परमया विभो ॥ ६३ ॥
द्वितीये च तथा प्राप्ते तृतीये च विशेषतः ॥
यावत्पश्यामि प्रत्यूषे तावद्गौरीचतुष्टयम् ॥
जातं रत्नमयं तच्च मया यत्परिपूजितम् ॥ ६४ ॥
प्रस्थितां मां नदीतीरमुद्दिश्य च विसर्जनम् ॥
करिष्यामीति सा प्राह व्यक्तीभूता सुरेश्वरी ॥ ॥ ६५ ॥
मा पुत्रि जलमध्येऽत्र मम मूर्तिचतुष्टयम् ॥
परिभावय मद्वाक्यं श्रुत्वा चैव विधीयताम् ॥ ६६ ॥
हाटकेश्वरजे क्षेत्रे स्थापय त्वं च मा क्षिप ॥
अक्षयं जायते येन सर्वस्त्रीणां हिताय च ॥ ६७ ॥
त्वं प्रार्थय वरं सर्वं ददाम्यहमिहार्चिता ॥
अभ्यर्चिता गिरिसुता मया प्रोक्ता सुरेश्वरी ॥ ॥ ६८ ॥
यदि यच्छसि मे देवि वरं तुष्टा सुरेश्वरि ॥
तदहं मानुषे गर्भे मा भूयासं कथंचन ॥ ६९ ॥
भर्त्ता भवतु मे विष्णुः शाश्वताभीष्टदः सदा ॥
नान्यत्किंचिदभीष्टं मे राज्यं त्रिदिवशोभनम् [। 6.178.७० ॥
अन्यापि कुरुते या च व्रतमेतत्समाहिता ॥
सर्वैर्त्रतैर्यथातुष्टिस्तथा देवि प्रजायते ॥७१ ॥
तथा तस्याः प्रकर्तव्यमकेनानेन पार्वति ॥
तथेति गौरी मामुक्त्वा ततश्चादर्शनं गता ॥ ७२ ॥
सा देवी च मया तत्र तच्च गौरीचतुष्टयम् ॥
हाटकेश्वरजे क्षेत्रे शुभे संस्थापितं विभो ॥ ७३ ॥
तत्प्रभावान्मया लब्धो भर्त्ता त्वं परमेश्वर ॥
शाश्वतश्चाक्षयश्चैव मुखप्रेक्षश्च सर्वदा ॥ ७४ ॥
एतत्त सर्वमाख्यातं यत्पृष्टास्मि सुरेश्वर ॥
सत्येनानेन देवेश तव पादौ स्पृशाम्यहम् ॥ ७५ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा वचनं तस्याः शंखचक्रगदाधरः ॥
विहस्याथ महालक्ष्मीं तामुवाच प्रहर्षितः ॥
मुहुर्मुहुः समालिंग्य वक्षसश्चोपरि स्थिताम् ॥ ७६ ॥
साधुमाधु महाभागे सत्यमेतत्त्वयोदितम् ॥
जानतापि मया पृष्टा भवतीं वरवर्णिनि ॥ ७७ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
चतुर्भुजा यथा गौरी संजाता पंचपिंडिका ॥ ७८॥
यश्चैतत्पठते भक्त्या प्रातरुत्थाय मानवः ॥
न स लक्ष्म्या विमुच्येत न च दौर्भाग्यमाप्नुयात् ॥ ७९ ॥
तस्मात्सर्वप्रयत्नेन पठनीयमिदं शुभम् ॥
आख्यानं गौरिकं विप्रा यन्मया परिकीर्तितम् ॥ 6.178.८० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पंचपिंडिकागौर्युत्पत्तिमाहात्म्य वर्णनंनामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥ १७८ ॥ ॥९॥