स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १७५
॥ सूत उवाच ॥ ॥
एवं संशोचते यावदात्मानं परिगर्हयन्॥
ततस्तु ब्रह्मणा प्रोक्तः स्वयमभ्येत्य भो द्विजाः॥१॥
त्वया शंका न कर्तव्या सुतस्यास्य कृते द्विज॥
अज्ञानादेव ते जातो दैवयोगेन बालकः॥२॥
॥याज्ञवल्क्य उवाच॥ ॥
तथापि देव मे शुद्धिर्हृदयस्य न जायते ॥
तस्माद्वद सुरश्रेष्ठ प्रायश्चित्तं विशुद्धये॥३॥
॥ ब्रह्मोवाच॥ ॥
यदि ते चित्तशुद्धिस्तु न कथंचित्प्रवर्तते॥
तत्स्थापय महाभाग लिंगं देवस्य शूलिनः ॥ ४ ॥
अज्ञानाज्ज्ञानतोवापि यत्पापं कुरुते नरः ॥
ब्रह्महत्यादिकं चापि स्त्रीवधाद्वापि यद्भवेत्॥५ ॥
पंचेष्टिकामयं वापि यः कुर्याद्धरमन्दिरम्॥
तस्य तन्नाशमायाति तमः सूर्योदये यथा ॥ ६ ॥
विशेषेण महाभाग हाटकेश्वरसंभवे ॥
क्षेत्रे तत्र सुमेध्ये तु सर्वपातकनाशने ॥ ७ ॥
कलिकाले च संप्राप्ते यत्र पापं न विद्यते ॥
अहमप्यत्र वांछामि यज्ञं कर्तुं द्विजोत्तम ॥ ८ ॥
आनयिष्यामि तत्तीर्थं पुष्करं चात्मनः प्रियम् ॥
कलिकालभयाच्चैतद्यावन्नो व्यर्थतां व्रजेत् ॥ ९ ॥
कलिकाले तु संप्राप्ते तीर्थानि सकलानि च ॥
यास्यंति व्यर्थतां विप्र मुक्त्वेदं क्षेत्रमुत्तमम् ॥ ६.१७५.१० ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा चतुर्वक्त्रस्ततश्चादर्शनं गतः ॥
याज्ञवल्क्योऽपि तच्छ्रुत्वा पितामहवचोऽ खिलम् ॥ ११ ॥
लिंगं संस्थापयामास ज्ञात्वा क्षेत्रमनुत्तमम्॥
अब्रवीच्च ततो वाक्यं मेघगंभीरया गिरा ॥ १२ ॥
अष्टम्यां च चतुर्दश्यां यो लिंगं मामकं त्विदम् ॥
स्नापयिष्यति सद्भक्त्या तस्य पापं प्रयास्यति ॥ १३ ॥
परदारकृतं यच्च मात्रापि च समं कृतम्॥
क्षालयिष्यति तत्पापं स्नापितं पूजितं परैः ॥ १४ ॥
अस्मिन्नहनि संप्राप्ते तस्य पक्षसमुद्भवम् ॥
प्रयास्यति कृतं पापं यदज्ञानाद्विनिर्मितम् ॥ १५ ॥
ततःप्रभृति विख्यातो याज्ञव ल्क्येश्वरः शुभः ॥
तस्मिन्क्षेत्रे द्विजश्रेष्ठा हाटकेश्वरसंज्ञके ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये याज्ञवल्क्येश्वरोत्पत्तिमाहात्म्यवर्णनंनाम पंचसप्तत्युत्तरशततमोऽध्यायः ॥ १७५ ॥