स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १७३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
अहो बत महाश्चर्यं विश्वामित्रस्य सन्मुनेः ॥
मंत्रप्रभावतो येन तत्तोयं रुधिरीकृतम् ॥ १ ॥
ततःप्रभृति संप्राप्तं कथं तोयं प्रकीर्तय ॥
सरस्वत्या महाभाग सर्वं विस्तरतो वद ॥ २ ॥
॥ सूत उवाच ॥ ॥
बहुकालं प्रवाहः स सरस्वत्या द्विजोत्तमाः ॥
महान्रक्तमयो जातो भूतराक्षससेवितः ॥ ३ ॥
कस्यचित्त्वथ कालस्य वसिष्ठो मुनिसत्तमः ॥
अर्बुदस्थस्तया प्रोक्तो दीनया दुःखयुक्तया ॥ ४ ॥
तवार्थाय मुने शप्ता विश्वामित्रेण कोपतः ॥
रुधिरौघवहाजाता तपस्विजनवर्जिता ॥५॥
तस्मात्कुरु प्रसादं मे यथा स्यात्सलिलं पुनः ॥
प्रवाहे मम विप्रेन्द्र प्रयाति रुधिरं क्षयम् ॥६॥
त्रैलोक्यकरणे विप्र संक्षये वा स्थितौ हि वा ॥
नाशक्तिर्विद्यते काचित्तव सर्वमुनीश्वर ॥ ७ ॥
॥ वसिष्ठ उवाच ॥ ॥
तथा भद्रे करिष्यामि यथा स्यात्सलिलं पुनः ॥
प्रवाहे तव निर्याति सर्वं रक्तं परिक्षयम् ॥ ८ ॥
एवमुक्त्वा स विप्रर्षिरवतीर्य धरातले ॥
गतः प्लक्षतरुं यस्मा दवतीर्णा सरस्वती ॥ ९ ॥
समाधिं तत्र संधाय निविष्टो धरणीतले ॥
संभ्रमं परमं गत्वा विश्वामित्रस्य चोपरि ॥ ६.१७३.१० ॥
वारुणेन तु मन्त्रेण वीक्ष यन्वसुधातलम् ॥
ततो निर्भिद्य वसुधां भूरितोयं विनिर्गतम् ११ ॥
रन्ध्रद्वयेन विप्रेन्द्रा लोचनाभ्यां निरीक्षणात् ॥
एकस्य सलिलं क्षिप्रं यत्र जाता सरस्वती ॥ १२ ॥
प्लक्षमूले ततस्तस्य वेगेनापहृतं बलात् ॥
तद्रक्तं तेन संपूर्णं ततस्तेन महानदी ॥ १३ ॥
द्वितीयस्तु प्रवाहो यः संभ्रमा त्तस्य निर्गतः ॥
सा च साभ्रमती नाम नदी जाता धरातले ॥ १४ ॥
एवं प्रकृतिमापन्ना भूय एव सरस्वती ॥
यत्पृष्टोऽस्मि महाभागाः सरस्वत्याः कृते द्विजाः ॥ १५ ॥
एतत्सारस्वतं नाम व्याख्यानमतिबुद्धिदम् ॥
यः पठेच्छ्रणुयाद्वापि मतिस्तस्य विवर्द्धते ॥
सरस्वत्याः प्रसादेन सत्यमेतन्म योदितम् ॥ १६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सरस्वत्युपाख्याने सरस्वती शापमोचनसाभ्रमत्युत्पत्तिवृत्तान्तवर्णनंनाम त्रिसप्तत्युत्तरशततमोऽध्यायः ॥ १७३ ॥ ॥