स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १६९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
कस्मात्सा तुष्टिदा प्रोक्ता नागराणां विशेषतः ॥
धारानामेति विख्याता कस्मात्सा धरणीतले ॥ १ ॥
॥ सूत उवाच ॥ ॥
चमत्कारपुरे पूर्वं धारानामेति विश्रुता ॥
आसीत्तपस्विनी साध्वी नागरी ब्राह्मणोत्तमा ॥
तस्याः सख्यमरुन्धत्या आसीत्पूर्वं सुमेधया ॥ २ ॥
अरुन्धती यदा प्राप्ता चमत्कारपुरे शुभे ॥
स्नानार्थं शंखतीर्थं तु वसिष्ठेन समागता ॥ ३ ॥
तया दृष्टाथ सा तत्र अंगुष्ठाग्रेण संस्थिता ॥
वायुभक्षा निराहारा दिव्येन वपुषान्विता ॥ ४ ॥
तया पृष्टा च सा साध्वी का त्वं कस्य सुता शुभे ॥
किमर्थं तु स्थिता चोग्रे तपसि ब्रूहि मे शुभे ॥ ५ ॥
॥ धारोवाच ॥ ॥
देवशर्माख्यविप्रस्य सुताहं नागरस्य च ॥
बालत्वे वर्तमानाया वैधव्यं मे व्यवस्थितम् ॥ ६ ॥
शंखतीर्थस्य माहात्म्यं श्रुत्वा शंखेश्वरस्य च ॥
ततोऽहं संस्थिता ह्यत्र तस्यैवाराधने स्थिता ॥ ७ ॥ ॥
॥ अरुन्धत्युवाच ॥ ॥
तवोपरि महान्स्नेहो दर्शनात्ते व्यवस्थितः ॥
तस्मादागच्छ गच्छावो ममाश्रमपदं शुभम् ॥ ८ ॥
सरस्वत्या स्तटे शुभ्रे सर्वपातकनाशने ॥
शास्त्रगोष्ठीरता नित्यं तत्र तिष्ठ मया सह ॥ ९ ॥
ततः संप्रस्थिता सा तु तया सार्धं तपस्विनी ॥
अनुज्ञाता स्वपित्रा तु जनन्या बांधवैस्तथा ॥ ६.१६९.१० ॥
तस्याः सख्यं चिरं कालं तया सह बभूव ह ॥
कस्यचित्त्वथ कालस्य सा शक्तिस्तत्र चागता ॥ ॥ ११ ॥
विश्वामित्रेण संसृष्टा वसिष्ठस्य वधाय च ॥
सा स्तंभिता वसिष्ठेन कृता देवीस्वरूपिणी ॥
संपूज्या देवमर्त्यानां सर्वरक्षाप्रदा शुभा ॥ १२ ॥
ततस्तु धारया तस्याः कैलासशिखरोपमः ॥
प्रासादो निर्मितो विप्रा नानारत्नविचित्रितः ॥ १३ ॥
चकाराथ ततः स्तोत्रं तस्याः सा च तपस्विनी ॥ १४ ॥
नमस्ते परमे ब्राह्मि धारयोगे नमोनमः ॥
अर्धमात्रे परे शून्ये तस्यार्धार्धे नमोस्तु ते ॥- ॥ १५ ॥
नमस्ते जगदाधारे नमस्ते भूतधारिणि ॥
नमस्ते पद्मपत्राक्षि नमस्ते कांचनद्युते ॥ १६ ॥
नमस्ते सिंहयानाढ्ये नमस्तेऽस्तुमहाभुजे ॥
नमस्ते देवताभीष्टे नमस्ते दैत्यसूदिनि ॥ १७ ॥
नमस्ते महिषाक्रांतशरीरच्छिन्नमस्तके ॥
नमस्ते विंध्यनिरते सुरामांसबलिप्रिये ॥ १८ ॥
त्वं लक्ष्मीस्त्वं शची गौरी त्वं सिद्धिस्त्वं विभावरी ॥
त्वं स्वाहा त्वं स्वधा तुष्टिस्त्वं पुष्टिस्त्वं सुरेश्वरी ॥ १९ ॥
शक्तिरूपासि देवि त्वं सृष्टिसंहारका रिणी ॥
त्वयि दृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ६.१६९.२० ॥
यथा तिलेस्थितं तैलं दधिसंस्थं यथा घृतम् ॥
हविर्भुजश्च काष्ठस्थः सुगुप्तं लभ्यते न हि ॥ २१ ॥
तथा त्वमपि देवेशि सर्वगापि न लक्ष्यसे ॥ २२ ॥
॥ सूत उवाच ॥ ॥
एतेन स्तोत्रमुख्येन स्मृता सा परमेश्वरी ॥
बहूनि वर्ष पूगानि पूजयंत्या दिनेदिने ॥ २३ ॥
कस्यचित्त्वथ कालस्य चैत्रशुक्लाष्टमी सिता ॥
तस्मिन्नहनि देवी सा नद्यां संस्नाप्य पूजिता ॥ २४ ॥
बलि पूजां ततो दत्त्वा स्तोत्रेणानेन च स्तुता ॥
ततः प्रत्यक्षतां गत्वा तामुवाच तपस्विनीम् ॥२५॥
पुत्रि तुष्टास्मि भद्रं ते स्तोत्रेणानेन चानघे ॥
वरं वरय भद्रं ते तव दास्यामि वांछितम् ॥ २६ ॥
॥ धारोवाच ॥ ॥
यदि तुष्टासि मे देवि यदि देयो वरो मम ॥
तन्मे नाम तवाप्यस्तु प्रासादेऽत्र हि केवलम्॥ २७ ॥
अपरं नागरो योऽत्र त्वस्मिन्नहनि संस्थिते ॥
प्रदक्षिणात्रयं कृत्वा तव दत्त्वा फलत्रयम् ॥ २८ ॥
स्तोत्रेणानेन भवतीं स्तुत्वा च कुरुते नतिम्॥
तस्य संवत्सरं यावद्रोगो रक्ष्यस्त्वयाऽखिलः ॥२९।।
या च वंध्या भवेन्नारी सा भूयात्पुत्रसंयुता ॥
दुर्भगा च ससौभाग्या कुरूपा रूपसंभवा ॥
रोगिणी रोगनिर्मुक्ता सर्वसौख्यसमन्विता ॥ ६.१६९.३० ॥
॥ देव्युवाच ॥ ॥
अहं धारेति विख्याता प्रासादेऽत्र त्वया कृते॥
भविष्यामि न सन्देहस्तव कीर्तिकृते सदा ॥ ३१ ॥
अत्र यो नागरो भक्त्या समागत्य तपस्विनि ॥
प्रदक्षिणात्रयं कुर्याद्दत्त्वा मम फलत्रयम् ॥ ३२ ॥
सोऽपि संवत्सरं यावद्भविता रोगवर्जितः ॥
एवमुक्ता तु सा देवीततश्चादर्शनं गता ॥ ३३ ॥
धारापि संस्थिता तत्र अरुन्धत्या समन्विता ॥
अद्यापि दृश्यते व्योम्नि तस्याश्चापि समीपगा ॥ ३४ ॥
एतद्धारोद्भवं योऽत्र वृत्तांतं कीर्तयिष्यति ॥
शृणुयाद्वा द्विजश्रेष्ठा मुच्येत्पापाद्दिनोद्भवात् ॥ ३५ ॥
तस्मात्सर्वप्रयत्नेन पठनीयं विशेषतः ॥
श्रोतव्यं च प्रभक्त्येदं नागरैश्च विशेषतः ॥ ३६ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धारानामोत्पत्तिवृत्तांत धारादेवीमाहात्म्यवर्णनं नामैकोनसप्तत्युत्तरशततमोऽध्यायः ॥१६९॥