स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १६८

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ॥ सूत उवाच ॥ ॥
एवं राज्यं परित्यज्य विश्वामित्रो द्विजोत्तमाः ॥
हिमवन्तं नगं प्राप्य तपश्चक्रे सुदारुणम् ॥ १ ।।
वर्षास्वाकाशशायी च हेमंते सलिलाशयः ॥
पञ्चाग्निसाधको ग्रीष्मे स्थितो वर्षशतत्रयम् ॥ २ ॥
फलमूलकृताहारस्ततो वर्षशतत्रयम् ॥
ध्यायमानः परं ब्रह्म स्थितो ब्राह्मणसत्तमाः ॥
शीर्णपर्णाशनः पश्चात्तावत्कालं व्यवस्थितः ॥ ३ ॥
ततश्चैव जलाहारस्तावन्मात्रं व्यवस्थितः ॥
कालं स वायुभक्षश्च ततश्चैवायुतं समाः॥ सूत उवाच॥
अथ दृष्ट्वा तपःशक्तिं तस्य तां त्रिदशाधिपः।
पातायष्यति मां नूनमेष स्थानान्नृपोत्तमः॥। ॥ ५ ॥
ततः प्रोवाच संगत्य साम्ना परमवल्गुना ॥
विश्वामित्रं नृपश्रेष्ठं भयेन महताऽन्वितः ॥ ६ ॥
॥ इंद्र उवाच ॥ ॥
विश्वामित्र प्रतुष्टोऽस्मि तपसानेन पार्थिव ॥
वरं वरय भद्रं ते यदभीष्टं हृदिस्थितम्॥ ७ ॥
॥ विश्वामित्र उवाच ॥ ॥
ब्राह्मण्यं देहि मे शक्र यदि तुष्टोऽसि सांप्रतम् ॥
तदर्थं तपसश्चर्यां जानीहि त्वं पुरंदर ॥९॥
॥ इंद्र उवाच ॥ ॥
अनेनैव शरीरेण क्षत्रियः स्यात्कथं द्विजः ॥
चतुर्विंशतिसंस्कारैर्द्विगुणैर्यःप्रजायते ॥
तदन्यत्प्रार्थय क्षिप्रं यत्तेऽभीष्टतरं स्थितम् ॥ ९ ॥
॥ विश्वामित्र उवाच ॥ ॥
न ब्राह्मण्यात्परं किंचित्प्रार्थयामि सुरेश्वर॥ ६.१६८.१० ॥
अपि त्रैलोक्यराज्यं ते वस्तुष्वन्येषु का कथा ॥
तस्माद्गच्छ सुरश्रेष्ठ स्वराज्यं परिपालय ॥ ११ ॥
परित्यक्ष्याम्यहं देहं यास्ये वाऽहं द्विजन्मताम् ॥
तच्छ्रुत्वा वचनं तस्य देवराजो दिवं गतः ॥ १२ ॥
तस्य तं निश्चयं ज्ञात्वा सर्वदेवसमावृतः॥
विश्वामित्रोऽपि तद्रूपं चकार दुश्चरं तपः॥ १३ ॥
अथ वर्षसहस्रे तु व्यतिक्रान्ते द्विजोत्तमाः ॥
अन्यस्मिन्वायुभक्षस्य विश्वामित्रस्य भूपतेः ॥ १४ ॥
आजगाम स्वयं ब्रह्मा पुण्यैर्देवर्षिभिः सह ॥
अब्रवीत्तं महीपालं तपसा दग्धकिल्बिषम् ॥ १५ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
विश्वामित्र प्रतुष्टोऽस्मि तपसानेन सत्तम ॥
वरं वरय भद्रं ते प्रदास्याम्यपि दुर्लभम् ॥ १६ ॥
॥ विश्वामित्र उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
ब्राह्मण्यं देहि मे देव नान्यदिष्टतमं महत् ॥ १७ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
क्षत्रियेण प्रजातस्य द्विजत्वं जायते कथम् ॥
श्रुतिस्मृतिविरुद्धं हि किमेवं वदसीप्सितम् ॥ १८९ ॥
यन्न जातं धरापृष्ठे न भविष्यति कर्हिचित् ॥ १९ ॥
॥ विश्वामित्र उवाच ॥ ॥
गच्छ त्वं देवदेवेश ब्रह्मलोकमनुत्तमम्॥
अहं त्यक्ष्यामि वा प्राणान्संप्राप्स्ये वा द्विजन्मताम् ॥ ६.१६८.२० ॥
अथ देवर्षिमध्यस्थ ऋचीको वाक्यमब्रवीत् ॥
अस्य जन्मकृते देव ब्राह्म्यैर्मंत्रैर्मया चरुः ॥ २१ ॥
अभितो ब्रह्मसर्वस्वं तत्र सयोजितं मया ।
तेनैव क्षत्रजन्माऽयं ब्राह्मणश्चतुरानन॥२२॥
ब्रह्मर्षिकीर्तयस्वैनं तस्मात्त्वं प्रपितामह॥
राज्यस्थोऽपि द्विजार्हाणि सत्कृत्यान्य करोदसौ ॥ २३ ॥
ब्राह्ममन्त्रप्रभावेन तस्माद्ब्रह्मर्षिमाह्वय ॥
येन कीर्तामहे सर्वे विश्वामित्रं द्विजोत्तमम्॥ २४ ।
अथ ब्रह्मा चिरं ध्यात्वा ब्राह्म्यै र्मंत्रैश्च तेजसा ॥
समुत्पन्नं ततः प्राह ब्राह्मणस्त्वं मया कृतः ॥ २५ ॥
त्यजेदं दुष्करं घोरं तपो मद्वचनाद्द्रुतम् ॥
स यदा ब्रह्मणा प्रोक्तो ब्रह्मर्षि स्त्वमसंशयम्॥ २६ ॥
ऋचीकाद्यैस्ततः सर्वैः प्रोक्तो देवर्षिभिस्तथा ॥ २७ ॥
अथ तेषां मध्यगतो वसिष्ठो मुनिसत्तमः ॥
सोऽब्रवीत्कोपसंयुक्तो नाहं वक्ष्यामि कर्हिचित्॥ २८ ॥
ब्राह्मणं क्षत्रियाज्जातं जानन्नपि पितामह ॥
ऋचीकस्य च दाक्षिण्यात्तथा त्वं वदसि प्रभो ॥ २९ ॥
प्रोच्यमानो ऽपि बहुधा वसिष्ठो मुनिसत्तमः ॥
पितामहेन मुनिभिर्नारदाद्यैरनेकधा ॥
जगामाथ परित्यज्य तान्सर्वान्द्विजसत्तमान् ॥ ६.१६८.३० ॥
स चागत्य मुनि श्रेष्ठो देशं चानर्तसंज्ञितम् ॥
हाटकेश्वरजे क्षेत्रे शंखतीर्थसमीपतः ॥ ३१ ॥
यत्र ब्रह्मशिला पुण्या श्वेतद्वीपसमन्विता ॥
सरस्वती स्थिता यत्र नदी पापहरा शुभा ॥ ३२ ॥
तत्राश्रमपदं कृत्वा चकार विपुलं तपः ॥
विश्वामित्रोऽपि सामर्षस्तद्वधार्थं समागतः ॥ ३३ ॥
तस्याश्रमस्य दूरे स याम्यां दिशि समाश्रितः ॥
कृत्वाश्रमपदं तत्र तस्य च्छिद्राणि चिन्तयन् ॥ ३४ ॥
संस्थितः सुचिरं कालं न च पश्यति किंचन ॥
अथाभिचारिकं तेन प्रारब्धं तस्य चोपरि॥३५॥
यदुक्तं सामविधिना सामवेदे वधात्मकम्॥
तस्य तैर्दारुणैर्मंत्रैर्जुह्वतो जातवेदसम्॥३६॥
निष्क्रांता दारुणा शक्तिर्मुक्तकेशी भयानका॥
वानरस्कंधमारूढा कुर्वाणा किल्किलाध्वनिम्॥३७॥
नानायुधसमोपेता यमजिह्वा यथा परा॥
साब्रवीद्वद विप्रेंद्र किं ते कृत्यं करोम्यहम्॥३८॥
त्रैलोक्यमपि कृत्स्नं च संहरामि तवाज्ञया॥३९॥
विश्वामित्र उवाच॥
मम शत्रुर्मान्यो त्र वसिष्ठः कुमुनिः स्थितः।
तं त्वं जहि द्रुतं गत्वा तदर्थं च मया कृता॥६.१६८.४०॥
एवमुक्ता तु सा तेन विश्वामित्रेण धीमता।
वसिष्ठाश्रममुद्दिश्य प्रस्थिता चोत्तरामुखी॥४१॥
एतस्मिन्नेव काले तु वसिष्ठस्याश्रमे द्विजाः।
दुर्निमित्तानि जातानि प्रभूतानि महांति च॥४२॥
पपात महती चोल्का निहत्य रविमण्डलम्॥
तथा रुधिरवृष्टिश्च अस्थिमिश्रा व्यजायत॥४३॥
दीप्तां दिशं समासाद्य रुरोद च तथा शिवा।
तां दृष्ट्वा सुमहोत्पातान्वसिष्ठो मुनिपुंगवः॥४४॥
यावदालोकते रूपं ज्वालामालासमाकुलम्॥
ततः सम्यक्परिज्ञाय सर्वं दिव्येन चक्षुषा॥४५॥
विश्वामित्रप्रयुक्तेयं शक्तिर्मम वधाय च॥
कृत्या रूपा सुमंत्रैश्च सामवेदसमुद्भवैः॥४६॥
तिष्ठतिष्ठेति तेनोक्ता ततः सा निश्चलाभवत्॥
निजमंत्रैश्च सा तेन स्तंभिताथर्वणोद्भवैः॥४७॥
ततः स्त्रीरूपमादाय प्रोवाच मुनिपुंगवम्॥
सामवेदस्तु वेदानां प्राधान्येन व्यवस्थितः॥४८।.
विधिना तेन संसृष्टा विश्वामित्रेण धीमता॥
मा कुरुत्वप्रमाणंतु प्रहारं सह मे मुने ॥
रक्षयिष्यामि ते
प्राणान्स्वल्पस्पर्शेन ते मुने ॥ ४९ ॥
॥ वसिष्ठ उवाच ॥ ॥
यद्येवं कुरु मे स्पर्शं न मर्म स्पर्शनं शुभे ॥
मया चाथर्वणा मंत्राः संहृताः कृपया तव ॥ ६.१६८.५० ॥
ततः सा दारुणा शक्तिर्विश्वामित्रप्रयोजिता ॥
तस्यांगदेशं स्पृष्ट्वाथ निपपात धरातले ॥ ५१ ॥
ततस्तुष्टो वसिष्ठस्तु तामाह मधुरं वचः ॥
अद्यप्रभृति ते पूजां करिष्यंति समाहिताः ॥
जनाः सर्वे महाभागे भक्त्या परमया युताः ॥ ५२ ॥
चैत्रमासे सिते पक्षे अष्टमीदिवसे स्थिते ॥
ये ते पूजां करिष्यंति श्रद्धया परया युताः ॥ ५३ ॥
ते सर्वे वत्सरंयावद्भवि ष्यंति निरामयाः ॥
तस्मादत्रैव स्थातव्यं सदैव मम वाक्यतः ॥ ५४ ॥
॥ सूत उवाच ॥ ॥
एवमुक्ता च सा तेन वसिष्ठेन महात्मना ॥
स्थिता तत्रैव सा देवी तस्य वाक्येन तत्क्षणात् ॥ ५५ ॥
प्राप्नोति परमां पूजां विशेषान्नागरैः कृताम् ॥
धारानामेति विख्याता भक्तलोकसुख प्रदा ॥ ५६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धारोत्पत्तिमाहात्म्यवर्णनंनामाष्ट षष्ट्युत्तरशततमोऽध्यायः ॥ १६८ ॥