सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १६६

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
ऋचीकोऽपि समादाय पुरुषैराप्तकारिभिः ॥
तानश्वान्प्रजगामाथ यत्र गाधिर्व्यवस्थितः ॥ १ ॥
तस्मै निवेदयामास कन्यार्थं तान्हयोत्तमान् ॥
गाधिस्तु तान्प्रगृह्याथ योग्यान्वाजिमखस्य च ॥ २ ॥
एकैकं परमं तेषां स जगामाथ पार्थिवः ॥
ततस्तां प्रददौ तस्मै कन्यां त्रैलोक्यसुन्दरीम् ॥ ३ ॥
विप्राग्निसाक्षिसंभूतां गृह्योक्तविधिना न्वितः ॥
ततो विवाहे निर्वृत्त ऋचीको मुनिसत्तमः ॥ ४ ॥
तस्याः संवेशने चैव निष्कामः समपद्यत ॥
अथाब्रवीन्निजां भार्यां निष्कामः संस्थितो मुनिः ॥ ५ ॥
अहं यास्यामि सुश्रोणि काननं तपसः कृते ॥
त्वं प्रार्थय वरं कंचिद्येनाभीष्टं ददामि ते ॥ ६ ॥
सा श्रुत्वा तस्य तद्वाक्यं निष्कामस्य प्रजल्पितम् ॥
वाष्पपूर्णेक्षणा दीना जगाम जननीं प्रति ॥ ७ ॥
प्रोवाच वचनं तस्य सा निष्कामपते स्तदा ॥
वरदानं तथा तेन यथोक्तं द्विजसत्तमाः ॥ ८ ॥
अथ श्रुत्वैव सा माता यथा तज्जल्पितं तया ॥
सुतया ब्राह्मणश्रेष्ठास्ततो वचनमब्रवीत् ॥ ९ ॥
यद्ययं पुत्रि ते भर्ता वरं यच्छति वांछितम् ॥
तत्प्रार्थय सुतं तस्माद्ब्राह्मण्येन समन्वितम् ॥ ६.१६६.१० ॥
मदर्थं चैकपुत्रं च निःशेषक्षात्त्रतेजसा ॥
संयुक्तं याचय शुभे विपुत्राऽहं यतः स्थिता ॥ ११ ॥
सा श्रुत्वा जननीवाक्यमृचीकं प्राप्य सुव्रता ॥
अब्रवीज्जननी वाक्यं सर्वं विस्तरतो द्विजाः ॥ १२ ॥
स तस्याश्च वचः श्रुत्वा चकाराथ चरुद्वयम् ॥
पुत्रेष्टिं विधिवत्कृत्वा नमस्कृत्य स्वयंभुवम् ॥ १३ ॥
एकस्मिन्योजयामास ब्राह्म्यं तेजोऽखिलं च सः ॥
क्षात्रं तेजस्तथान्यस्मिन्सकलं द्विजसत्तमाः ॥ १४ ॥
भार्यायै प्रददौ पूर्वं ब्राह्म्यं च चरुमुत्त मम्॥
अब्रवीत्प्राशयित्वैनमश्वत्थालिंगनं कुरु ॥ १५ ॥
ततः प्राप्स्यसि सत्पुत्रं ब्राह्म्यतेजःसमन्वितम् ॥
द्वितीयश्चरुको यश्च तं त्वं मात्रे निवे दय ॥ १६ ॥
अब्रवीच्च ततस्तां तु ऋचीको मुनिसत्तमः ॥
त्वमेनं चरुकं प्राश्य न्यग्रोधालिंगनं कुरु ॥ १७ ॥
ततः प्राप्स्यसि सत्पुत्रं संयुक्तं क्षात्रतेजसा ॥
निःशेषेण महाभागे न मे स्याद्वचनं वृथा ॥ १८ ॥
एवमुक्त्वा ऋचीकस्तु स विसृज्य च तेजसी ॥
सुहृष्टो ब्राह्मणश्रेष्ठः स्वयं च महितोऽभवत् ॥१९॥
ते चैव तु गृहे गत्वा प्रहृष्टेनांतरात्मना ॥
ऊचतुश्च मिथस्ते च सत्यमेतद्भविष्यति ॥ ६.१६६.२० ॥
ततो माता सुतां प्राह आत्मार्थे सकलो जनः ॥
विशेषं कुरुते कृत्ये सामान्ये च व्यवस्थिते ॥ २१ ॥
तत्तवार्थं कृतोऽनेन यश्चरुश्चारुलोचने ॥
यस्तस्मिन्विहितोऽनेन मन्त्रग्रामो भविष्यति ॥
विशेषेण महाभागे सत्यमेतन्मयोदितम् ॥ २२ ॥
तस्माच्च चरुकं मह्यं त्वं गृहाण शुचिस्मिते ॥
आत्मीयं मम यच्छस्व वृक्षाभ्यां च विपर्ययः ॥
क्रियतां च महाभागे येन मे स्यात्सुतोत्तमः ॥ २३ ॥
राज्यकर्मणि दक्षश्च शूरः परबलार्दनः ॥
त्वदीयो द्विजमात्रोऽपि तव तुष्टिं करिष्यति ॥ २४ ॥
अथ सा विजने प्रोक्ता तया मात्रा यशस्विनी ॥
अकरोद्व्यत्ययं वृक्षे चरौ च द्विजसत्तमाः ॥ २५ ॥
ततः पुंस वने स्नाते ते शुभे चारुलोचने ॥
दधाते गर्भमेवाथ भर्तुः संयोगतः क्षणात् ॥ २६ ॥
ततस्तु गर्भमासाद्य सा च त्रैलोक्यसुन्दरी ॥
क्षात्त्रेण तेजसा युक्ता तत्क्षणात्समपद्यत ॥
मनो राज्ये ततश्चक्रे हस्त्यश्वारोहणोद्भवे ॥ २७ ॥
युद्धवार्त्तास्तथा चक्रे देवासुरगणोद्भवाः ॥
शृणोति च तथा नित्यं विलासेषु मनो दधे ॥
अनुष्ठानं ततश्चक्रे मनोराज्यसमुद्भवम् ॥ २८ ॥
पितुर्गृहात्समानीय जात्यानश्वांस्तथा गजान् ॥
रक्तानि चैव वस्त्राणि काश्मीराद्यं विलेपनम् ॥ २९ ।१
तद्दृष्ट्वा चेष्टितं तस्या राज्यार्हं बहुभोगधृक् ॥
ब्राह्मणार्हैः परित्यक्तं समाचारैश्च कृत्स्नशः । ६.१६६.३० ॥
अब्रवीच्च ततः क्रुद्धो धिक्पापे किमिदं कृतम् ॥
व्यत्ययो विहितो नूनं चरुकस्य नगस्य च ॥ ३१ ॥
त्वया पापे प्रपश्यामि येनेदृक्तव चेष्टितम् ।१
क्षत्रियार्हं द्विजाचारैः सकलैः परिवर्जितम् ॥ ३२ ॥
चीरवल्कलसंत्यक्तं स्नानजाप्यविवर्जितम् ॥
संयुक्तं विविधैर्गन्धैर्मृगनाभिपुरःसरैः । ३३ ॥
तव माता शमस्था सा जपहोमपरायणा ॥
तीर्थयात्रापरा चैव वेदश्रवणलालसा ॥ ३४ ॥
तस्मात्ते क्षत्रियः पुत्रो भविष्यति न संशयः ॥ ३५ ॥
मातुश्च ब्राह्मणश्रेष्ठो ब्रह्मचर्यकथापरः ॥
भविष्यति सुतश्चिह्नैर्गर्भलक्षणसंभवैः ॥ ३६ ॥
यस्मादुदीरितः पूर्वं श्लोकोऽयं शास्त्रचिन्तकैः ॥
यादृशा दोहदाः सन्ति सगर्भाणां च योषिताम् ॥ ३७ ॥
तादृगेव स्वभावेन तासां पुत्रोऽत्र जायते ॥
सैवमुक्ता भयत्रस्ता वेपमाना कृतांजलिः ॥ ॥ ३८ ॥
बाष्पपूर्णेक्षणा दीना वाक्यमेतदुवाच ह ॥
सत्यमेतत्प्रभो वाक्यं यत्त्वया समुदाहृतम् ॥ ३९ ॥
अतीतानागतं वेत्ति विना लिंगैर्भवानिह ॥
तस्मात्कुरु प्रसादं मे यथा स्याद्ब्राह्मणः सुतः ॥
क्षत्रियस्य तु पुत्रस्य भवान्नार्हः कथंचन ॥ ६.१६६.४० ॥
॥ ऋचीक उवाच ॥ ॥
यत्किंचिद्ब्रह्मतेजः स्यात्तन्न्यस्तं ते चरौ मया ॥
क्षात्त्रं तेजश्च ते मातुर्व्यत्ययं च कथंचन ।।
करोमि वाधमो लोके शास्त्र स्य च व्यतिक्रमम् ॥ ४१ ॥
॥ पत्न्युवाच ॥ ॥
यद्येवं भृगुशार्दूल मम पौत्रोऽत्र यो भवेत् ॥
क्षात्त्रं तेजोऽखिलं तस्य गात्रे भूया त्त्वयाऽऽहृतम् ॥ ४२ ॥
पुत्रस्तु ब्राह्मणश्रेष्ठो भूयादभ्यधिकस्तव ॥ ४३ ॥
॥ ऋचीक उवाच ॥ ॥
एवं भवतु मद्वाक्यात्पुत्रस्ते ब्राह्मणः शुभे ॥
पौत्रः सुदुर्द्धरः संख्ये संयुक्तः क्षात्त्रतेजसा ॥ ४४ ॥
ततः सत्यं वरं लब्ध्वा प्रसन्नवदना सती ॥
मातुर्निवेदयामास तत्सर्वं कांत जल्पितम् ॥ ४५ ॥
ततः सा दशमे मासि संप्राप्ते गुरुदैवते ॥
नक्षत्रे जनयामास पुत्रं बालार्कसन्निभम् ॥ ४६ ॥
ब्राह्म्या लक्ष्म्या समोपेतं निधानं तपसां शुचि ॥
जमदग्निरिति ख्यातो योऽसौ त्रैलोक्यविश्रुतः ॥
तस्य पुत्रोभवत्ख्यातो रामोनाम महायशाः ॥ ४७ ॥
एकविंशतिदा येन धरा निःक्षत्रिया कृता ॥
क्षात्त्रतेजःप्रभावेन पितामहप्रसादतः ॥ ४८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये परशुरामोत्पत्तिवर्णनंनाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥ १६६ ॥