स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १६२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
एवं नाम्नि कृते तस्य भास्करस्यांशुमालिनः ॥
द्विजानां पुरतः पुष्पः कथयामास चेष्टितम् ॥ १ ॥
आत्मीयं कुत्सितं तेषां मणिभद्रवधो यथा ॥
विहितो विहिता पत्नी तस्य व्याजेन कृत्स्नशः ॥ २ ॥
ततस्ते ब्राह्मणाः प्रोचुस्तच्छ्रुत्वा कोपसंयुताः ॥
सीत्कारान्प्रचुरान्कृत्वा धिक्त्वां पाप प्रगम्यताम् ॥ ३ ॥
आत्मीयं हेम चादाय न ते शुद्धिर्भविष्यति ॥ ४ ॥
ब्रह्मघ्नस्त्वं यतः प्रोक्तास्त्रयो वर्णा द्विजोत्तमाः ॥
ब्राह्मणः क्षत्रियो वैश्यः स्मृतिशास्त्रप्रपाठकैः ॥ ५ ॥ ॥
॥ सूत उवाच ॥ ॥
ततस्तु दुःखितः पुष्पो बाष्पसंपूरितेक्षणः ॥
ब्रह्मस्थानाद्विनिर्गत्य प्ररुरोद सुदुःखितः ॥ ६ ॥
रोरूयमाणमालोक्य ततस्ते नागरा द्विजाः ॥
दयां च महतीं कृत्वा ततः प्रोचुः परस्परम् ॥ ७ ॥
नानाविधानि शास्त्राणि स्मृतयश्च पृथग्विधाः ॥
पुराणानि समस्तानि वीक्षध्वं सुसमाहिताः ॥ ८ ॥
कुत्रचित्क्वचिदेवास्य कथंचिच्छुद्धिरस्ति चेत् ॥
न तच्च विद्यते शास्त्रमस्मिन्स्थाने न चास्ति यत्॥९॥ न स्मृतिर्न पुराणं च वेदांतं वा द्विजोत्तमाः ॥ न चास्ति ब्राह्मणः सोऽत्र सर्वज्ञप्रतिमो न यः ॥ ६.१६२.१० ॥ तस्माच्चिन्तयत क्षिप्रमस्य शुद्धिप्रदं हि यत् ॥
तच्च प्रमाणतां नीत्वा शुद्धिरस्य प्रदीयते ॥ ११ ॥
अथैको ब्राह्मणः प्राह चंडशर्मेति विश्रुतः ॥
मया स्कांदपुराणेऽस्मिन्पुरश्चरणसंश्रिता ॥१२॥
पठिता सप्तमी या च पुरश्चरणसंज्ञिता ॥
पुरश्चरणतः पापं विहितं तु यथा व्रजेत् ॥ १३ ॥
सम्यक्तथापि विप्रेंद्रास्ततो याति न संशयः ॥
तस्मात्करोतु तामेष पुरश्चरणसप्तमीम् ॥ १४ ॥
अपरं भूभुजादेशान्मणिभद्रो निपातितः ॥
वधकैस्तस्य तत्पापं यदि पापं प्रजायते ॥ १५ ॥
राजा भूत्वा न यः सम्यग्विचारयति वादिनम् ॥
तस्य तत्पातकं घोरं राज्ञश्चैव प्रजायते ॥ १६ ॥
तथास्य पत्न्यास्तत्पापं जानंत्या यत्तयोदितम् ॥
मत्पित्रा ब्राह्मणैर्दत्तोऽयं पुरा वह्निसंनिधौ ॥ १७ ॥
विडंबितेन चानेन कृतप्रतिकृतं कृतम् ॥
तस्मान्न चास्य दोषः स्याद्यतः प्रोक्तं मुनीश्वरैः ॥ ॥ १८ ॥
कृते प्रतिकृतं कुर्याद्धिंसने प्रतिहिंसनम् ॥
न तत्र जायते दोषो यो दुष्टे दुष्टमाचरेत्॥ १९ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यद्येवं वद विप्रास्य पुरश्चरणसंज्ञिताम् ॥
सप्तमीमद्य विप्रेंद्र वराकस्य विशुद्धये ॥ ६.१६२.२० ॥
॥ सूत उवाच ॥ ॥
अथास्य कथयामास सप्तमीं तां द्विजोत्तमाः ॥
चंडशर्माभिधानस्तु कृत्वा तस्योपरि कृपाम् ॥ २१ ॥
तेनापि विहिता सम्यग्यथा तस्य मुखाच्छ्रुता ॥
ततः संवत्सरस्यांते विपाप्मा समपद्यत ॥ २२ ॥
॥ ॥ ऋषय ऊचुः ॥ ॥
पुरश्चरणसंज्ञां तु सप्तमीं वद सूतज ॥
विधिना केन कर्तव्या कस्मिन्काल उपस्थिते ॥ २३ ॥
॥ सूत उवाच ॥ ॥
अहं वः कीर्तयिष्यामि रोहिताश्वस्य भूपतेः ॥
मार्कंडेन पुरा प्रोक्ता पृच्छयमानेन भक्तितः ॥ २४ ॥
सप्तकल्पस्मरो विप्रा मार्कंडाख्यो महामुनिः ॥
रोहिताश्वेन पृष्टः स हरिश्चंद्रात्मजेन च ॥ २५ ॥
॥ रोहिताश्व उवाच ॥ ॥
अज्ञानाज्ज्ञानतो वापि यत्पापं कुरुते नरः ॥
उपायं तस्य नाशाय किंचिन्मे वद सन्मुने ॥ २६ ॥
॥ मार्कंडेय उवाच ॥ ॥
मानसं वाचिकं चैव कायिकं च तृतीयकम् ॥
त्रिविधं पातकं लोके नराणामिह जायते ॥ २७ ॥
तत्रोपाया विनाशाय तस्य संपरिकीर्तिताः ॥
तानहं ते प्रवक्ष्यामि शृणुष्व नृपसत्तम ॥ २८ ॥
मानसं चैव यत्पापं नराणामिह जायते ॥
पश्चात्तापे कृते तस्य तत्क्षणादेव नश्यति ॥ २९ ॥
वाचिकं चैव यत्पापं नाभुक्त्वा तत्प्रणश्यति ॥
पुरश्चरणबाह्यं तु सत्यमेतन्मयोदितम् ॥ ॥ ६.१६२.३० ॥
निवेद्य ब्राह्मणेंद्राणां तदुक्तं च समाचरेत् ॥
प्रायश्चित्तं यथोक्तं तु ततः शुद्धिमवाप्नुयात् ॥ ३१ ॥
अथवा पार्थिवो ज्ञात्वा कुरुते तस्य निग्र हम् ॥
तेन शुद्धिमवाप्रोति यद्यपि स्यात्स किल्विषी ॥ ३२ ॥
लज्जया ब्राह्मणेंद्राणां यो न ब्रूते कथंचन ॥
न च राजा विजानाति शरीरस्थेन यो म्रियेत् ॥
तस्य निग्रहकर्ता च स्वयं वैवस्वतो यमः ॥ ३३ ॥
तस्मात्सर्वप्रयत्नेन कृत्वा पापं विजानता ॥
प्रायश्चित्तं तु कर्तव्यं यथोक्तं ब्राह्मणो दितम् ॥ ३४ ॥
॥ रोहिताश्व उवाच ॥ ॥
सर्वेषामेव पापानां विहितानां मुनीश्वर ॥
किंचिद्व्रतं समाचक्ष्व दानं वा होममेव वा ॥
विपाप्मा जायते येन पुरश्चरणवर्जितम् ॥ ३५ ॥
नित्यं पापानि कुरुते नरः सूक्ष्माणि सर्वतः ॥
प्रायश्चित्तानि सर्वेषां कर्तुं शक्तिः कथं भवेत् ॥ ३६ ॥ ॥
॥ मार्कंडेय उवाच ॥ ॥
अस्ति राजन्व्रतं पुण्यं पुरश्चरणसंज्ञितम् ॥
पुरश्चरणसंज्ञा तु सप्तमी सूर्यवल्लभा ॥ ३७ ॥
यया संचीर्णया राज न्कायस्थो यमसंभवः ॥
विचित्रो मार्जयेत्पापं कृतं जन्मनि संचितम् ॥ ३८॥
तस्मात्कुरु महाराज तथाशु वचनं मम ॥
येन वा मुच्यते पापा त्सर्वस्मात्कायसंभवात् ॥ ३९ ॥
॥ रोहिताश्व उवाच ॥ ॥
पुरश्चरणसंज्ञा तु सप्तमी मुनिसत्तम ॥
विधिना केन कर्तव्या कस्मिन्काले वद स्व मे ॥ ६.१६२.४० ॥
॥ मार्कंडेय उवाच ॥ ॥
माघमासे सिते पक्षे मकरस्थे दिवाकरे ॥
सूर्यवारेण सप्तम्यां व्रतमेतत्समाचरेत् ॥ ४१ ॥
पाखंडैः पतितैः सार्धं तस्मिन्नहनि नालपेत् ॥
भक्षयित्वा नृपश्रेष्ठ प्रभाते दन्तधावनम् ॥
मंत्रेणानेन पश्चाच्च कर्तव्यो नियमो नृप ॥ ४२ ॥
पुरश्चरणकृत्यायां सप्तम्यां दिवसाधिप ॥
उपवासं करिष्यामि अद्य त्वं शरणं मम ॥४३॥
ततोऽपराह्णसमये स्नात्वा धौतांबरः शुचिः ॥
प्रतिमां पूजयेद्भक्त्या दिनाधिपसमुद्भवाम् ॥४४॥
रक्तैः पुष्पैर्महावीर पादाद्यं पूजयेत्ततः ॥
पतंगाय नमः पादौ मार्तंडायेति जानुनी ॥ ४५ ॥
गुह्यं दिवसनाथाय नाभिं द्वादश मूर्तये ॥
बाहू च पद्महस्ताय हृदयं तीक्ष्णदीधिते ॥ ४६ ॥
कंठं पद्मदलाभाय शिरस्तेजोमयाय च ॥
एवं संपूज्य विधिवद्धूपं कर्पूरमाददेत् ॥ ॥ ४७ ॥
गुडौदनं च नैवेद्यं रक्तवस्त्राभिवेष्टितम् ॥
रक्तसूत्रेण दीपं च तथैवारार्तिकं नृप ॥ ४८ ॥
शंखे तोयं समादाय रक्तचन्दनमिश्रितम् ॥
सफलं च ततः कृत्वा अर्घ्यं दद्यात्ततः परम् ॥ ४९ ॥
कुकृतं यत्कृतं किंचिदज्ञानाज्ज्ञानतोऽपि वा ॥
प्रायश्चित्तं कृतं देव ममार्घ्यश्च प्रगृह्यताम् ॥ ६.१६२.५० ॥
ततः संपूजयद्विप्रं गन्धपुष्पानुलेपनैः ॥
दत्त्वा तु भोजनं तस्मै दक्षिणां च स्वशक्तितः ॥
प्राशनं कायशुद्ध्यर्थं पञ्चगव्यस्य चाचरेत् । ५१ ॥
कृतांजलिपुटो भूत्वा समुद्वीक्ष्य दिवाकरम्॥
दिवाकरं गतश्चैव मन्त्रमेतं समुच्चरेत् ॥ ५२ ॥
इदं व्रतं मया देव गृहीतं पुरतस्तव ॥
अविघ्नं सिद्धिमायातु प्रसादात्तव भास्कर ॥ ५३ ॥
ततश्च फाल्गुने मासि संप्राप्ते मुनिसत्तम ॥
कुन्देन पूजयेद्देवं तेनैव विधिना ततः ॥ ५४ ॥
धूपं च गुग्गुलुं दद्यान्नैवेद्यं भक्तमेव च ॥
प्राशनं गोमयं प्रोक्तं सर्वपापविशुद्धये ॥ ५५ ॥
चैत्रे मासि तु संप्राप्ते सुरभ्या पूज्येद्धरिम् ॥
नैवेद्यं गुणिकाः प्रोक्ता धूपं सर्जरसोद्भवम् ॥ ५६ ॥
कुशोदकं च संप्राश्य कायशुद्धिमवाप्नुयात् ॥
वैशाखे किंशुकैः पूजां यथावच्च घृताशनैः ॥ ५७ ॥
नैवेद्यं च सुरामांसं धूपं च विनिवेदयेत् ॥
दधिप्राशनमेवात्र कर्तव्यं कायशुद्धये ॥ ५८ ॥
पुष्पपाटलया पूजा विधातव्या रवेर्नृप ॥
नैवेद्ये सक्तवः प्रोक्ताः प्राशनं च घृतं स्मृतम् ॥ ५९ ॥
कपिलाया महावीर सर्वपापविशुद्धये ॥
आषाढे मुनिपुष्पैश्च पूजयेद्भास्करं नृप ॥ ६.१६२.६० ॥
नैवेद्ये घारिका प्रोक्ता प्राशनं मधुसर्पिषोः ॥
धूपं चैवागरुं दद्यात्परया श्रद्धया युतः ॥ ६१ ॥
श्रावणे तु कदंबेन पूजनं तीक्ष्णदीधितेः ॥
नैवेद्ये मोदकाश्चैव तगरं धूप माददेत् ॥ ६२ ॥
गोशृंगोदकमादाय सद्यः पापात्प्रमुच्यते ॥
जात्या भाद्रपदे पूजा क्षीरनैवेद्यमाददेत् ॥ ६३ ।।
धूपं नखसमुद्भूतं प्राशनं क्षीरमेव च ॥
आश्विने कमलैः पूजा नैवेद्ये घृतपूरिका ॥ ६४ ॥
धूपं कुंकुमजं प्रोक्तं कर्पूरप्राशनं स्मृतम् ॥ ६५ ॥
तुलस्या कार्तिके पूजा भास्करस्य प्रकीर्तिता ॥
नैवेद्ये चैव खंडाख्यं धूपं कौसुंभिकं नृप ॥ ६६ ॥
प्राशनं च लवंगाख्यं सर्वपापविशोधनम् ॥
भृंगराजेन पूजा च सौम्ये मासि समाचरेत् ॥ ६७ ॥
नैवेद्ये फेणिका देया धूपं गुडसमुद्भवम् ॥
कंकोलप्राशनं चैव भास्करस्य प्रतुष्टये ॥ ६८ ॥
शतपत्रिकया पूजा पौषे मासि रवेः स्मृता ॥
सहजं धूपमादिष्टं नैवेद्ये शुष्कली तथा ॥ ६९ ॥
प्राशने पूर्वमुक्तानि सर्वाण्येव समाचरेत् ॥
समाप्तौ च ततो दद्यात्षड्भागं गृहसंभवम् ॥ ६.१६२.७० ॥
ब्राह्मणाय नृपश्रेष्ठ सर्वपापविशुद्धये ॥
इष्टभोज्यं ततः कार्यं स्वशक्त्या पार्थिवोत्तम ॥ ७१ ॥
एवं तु कुरुते योऽत्र सप्तमीं भास्करोद्भवाम् ॥
सर्वपापविनिर्मुक्तो निर्मलत्वं स गच्छति ॥ ७२ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
एवं पुरा वै कथिता रोहिताश्वाय धीमते ॥
मार्कंडेन महाभाग तस्मात्त्वमपि तां कुरु ॥ ७३ ॥
येन संजायते सम्यक्पुरश्चरणमेव ते ॥ ७४ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा पुष्पोऽपि द्विजसत्तमाः ॥
तां चक्रे सप्तमीं हृष्टो यथा तेन निवेदिता ॥ ७५ ॥
षड्भागं प्रददौ तस्मै ब्राह्मणाय महात्मने ॥
स्ववित्तस्य गृहस्थस्य कुप्याकुप्यस्य कृत्स्नशः ॥ ७६ ॥
सोऽपि जग्राह तद्वित्तं प्रहृष्टेनांतरात्मना ॥
सुवर्णमणि रत्नानि संख्यया परिवर्जितम् ॥ ७७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुरश्चरणसप्तमीव्रतविधानवर्णनंनाम द्विषष्ट्युत्तरशततमोऽध्यायः ॥ १६२ ॥