स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १६१

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
अथ तेन द्विजाः सर्वे ब्रह्मस्थाने निवेशिताः ॥
चातुश्चरणसंज्ञाश्च ततस्तस्य निवेशिताः ॥ १ ॥
सोऽपि केशान्परित्यज्य सर्वगात्रसमुद्भवान् ॥
निजपत्न्या समोपेतः प्रणम्य च द्विजोत्तमान् ॥ २ ॥
कृतांजलिपुटो भूत्वा वाक्यमेतदुवाच ह ॥
भास्करस्यास्य विहितः प्रासादोयं मया द्विजाः ॥ ३ ॥
पुष्पादित्य इति ख्यातिं प्रयातु भुवनत्रये ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
न वयं याज्ञवल्क्यस्य कीर्तिं नेष्यामहे क्षयम् ॥ ४ ॥
प्रायश्चित्तं प्रदास्यामश्चित्तस्य हृदयंगमम् ॥
अन्ये च ब्राह्मणाः प्रोचुः केचिन्मध्यस्थवृत्तयः ॥ ५ ॥
वृत्त्यर्थमस्य देवस्य लक्षं होमेऽत्र कल्प्यताम् ॥
लक्षं तु सर्वविप्राणां प्रायश्चित्तविशुद्धये ॥ ६ ॥
॥ पुष्प उवाच ॥ ॥
तस्मात्सर्वे द्विजश्रेष्ठा मन्नाम्ना कीर्तयंत्विमम् ॥
पुष्पादित्यमिति ख्यातिं कीर्तयंतु तथानिशम् ॥ ७ ॥
अनया भार्यया मह्यं मान्या या स्थापिता पुरा ॥
दुर्गाऽस्याश्चात्र नाम्ना वै भूयात्ख्याताऽत्र सत्पुरे ॥ ८ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
दुःशीलेन पुराऽकारि प्रासादो हरसंभवः ॥
दुर्वासःस्थापितस्यापि भवद्भिस्तुष्ट मानसैः ॥ ९ ॥
तथाप्यस्य तु दीनस्य प्रासादः क्रियतां द्विजाः ॥ ६.१६१.१० ॥
नाममात्रेण देवस्य दुःशीलेन यया पुरा ॥
अनेनाराधितः पूर्वं स्वमांसैरेष भास्करः ॥ ११ ॥
तस्मान्न क्षतिरस्याथ दत्ते नाम्नि यथा पुरा ॥
नाम्ना माहिकया नाम माहीत्येव च सा भवेत् ॥१२॥
॥ सूत उवाच ॥
पुष्पेण दाने दत्तेऽथ संमतेनाग्रजन्मनाम् ॥
मध्यमेन कृतं नाम पुष्पादित्य इति श्रुतम् ॥ १३ ॥
तत्पत्न्या चापि या तत्र दुर्गा देवी द्विजोत्तमाः ॥
नाम्ना माहिकया नाम माहीत्येव च साऽभवत् ॥ १४ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः ॥
पुष्पा दित्यो यथा जातो याज्ञवल्क्यप्रतिष्ठितः ॥ १५ ॥
अद्यापि कलिकाले स दृष्टो भक्त्या सुरेश्वरः ॥
नाशयेद्दिनजं पापं नराणां नात्र संशयः ॥ ॥ १६ ॥
तथा च सप्तमीयुक्ते रवेर्वारे द्विजोत्तमाः ॥
अष्टोत्तरशतंयावत्फलहस्तः करोति यः ॥
प्रदक्षिणां च सद्भक्त्या स लभेद्वांछितं फलम् ॥१७॥
माहीकामपि यो दुर्गां नित्यमेव प्रपश्यति ॥
न स पश्यति कष्टानि तस्मिन्नहनि कर्हिचित् ॥ १८ ॥
चैत्रशुक्लचतुर्दश्यां यस्तां पूजयते नरः ।
तस्य संवत्सरंयावन्नापत्संजायते क्वचित् ॥ १९. ॥
इति श्रीस्कांदेमहापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पादित्यमाहात्म्यवर्णनंनामैकषष्ट्युत्तरशततमोऽध्यायः ॥ १६१ ॥