स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १६०
॥ सूत उवाच ॥ ॥
अन्यस्मिन्नहनि प्राप्ते रहस्युक्तः स भार्यया ॥
रात्रौ प्रसुप्तः पार्श्वे च पादौ संस्पृश्य तत्क्षणात् ॥ १ ॥
त्वं तावन्मम भर्त्तासि यावज्जीवमसंशयम् ॥
तद्वदस्व विभोऽस्माकं त्वदर्थं स मयोज्झितः ॥ २ ॥
इन्द्रजालमिदं किं ते किं वा मंत्रप्रसाधनम् ॥
देवानां वा प्रसादोऽयं यत्त्वं चैतादृशः स्थितः ॥ ३ ॥
मया त्वं हि तदा ज्ञातः प्रथमेऽपि दिने स्थिते ॥
यदा संभूषिता वस्त्रैस्तथा वस्तुविभूषणैः ॥ ४ ॥
यद्यहं तव वार्तां च सर्वां कपटसंभवाम् ॥
कथयामि द्वितीयस्य तत्ते पादौ स्पृशाम्यहम् ॥ ५ ॥
॥ सूत उवाच ॥ ॥
एवमुक्तो विहस्योच्चैः स तदा ब्राह्मणोत्तमाः ॥
तामालिंग्य ततः प्राह वचनं मधुराक्षरम् ॥ ६ ॥
साधु प्रिये त्वया ज्ञातं सर्वं मम विचेष्टितम् ॥
अहं स विप्रः सुभगे मणिभद्रेण यः पुरा ॥ ७ ॥
विडंबितो मुखं पश्यंस्त्वदीयं चंद्रसन्निभम् ॥
चमत्कारपुरं गत्वा मया चाराधितो रविः ॥
तेन तुष्टेन मे दत्तं तद्रूपं ज्ञानमेव च ॥८॥ ॥
॥ माहिकोवाच ॥ ॥
त्वदीयदर्शनेनाहं कामदेववशं गता ॥ ९ ॥
तस्मादाराधयिष्यामि तं गत्वा दिननायकम् ॥
येन ते तादृशं भूयः प्रतुष्टो विदधाति सः ॥ ६.१६०.१० ॥
किं मे चैतेन रूपेण तारुण्येनापि च प्रभो ॥
यत्ते तथाविधं रूपं संभजामि दिवानिशम् ॥ ११ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा गुटिकां पुष्प समादाय मुखान्ततः ॥
दधार तादृशं रूपं यादृग्दृष्टं पुरा तया ॥ १२ ॥
ततः सा हर्षिता माही पुलकेन समन्विता ॥
तमालिंग्याभजद्गाढं वाक्यमेतदुवाच ह ॥ १३ ॥
अद्य मे सफलं जन्म यौवनं रूपमेव च ॥
यत्त्वं हृद्वांछितः कांतः प्रलब्धो मदनोपमः ॥ १४ ॥
एतावंति दिनान्येव न मया कामजं सुखम् ॥
अपि स्वल्पतरं लब्धं कथंचिद्वृद्धसेवया ॥ १५ ॥
भजस्व स्वेच्छया विप्र दासी तेऽहं व्यवस्थिता ॥ १६ ॥
॥ पुष्प उवाच ॥ ॥
प्रविशामि किमंगेषु भवन्तीं किं मिलाम्यहम् ॥
प्रिये चिरेण लब्धासि न जाने कर वाणि किम् ॥ १७ ॥
एवमुक्त्वा ततस्तौ च मैथुनाय कृतक्षणौ ॥
प्रवृत्तौ ब्राह्मणश्रेष्ठाः कामदेववशंगतौ ॥ १९८ ॥
अथ रात्र्यां व्यतीतायामुदिते सूर्यमण्डले ॥
वक्त्रे तां गुटिकां कृत्वा स पुष्पस्तादृशोऽभवत् ॥ १९ ॥
एवं तस्य स्थितस्यात्र महान्कालो व्यजायत ॥
पुत्राः पौत्रास्तथा जाताः कन्यकाश्च तथैव च ॥ ६.१६०.२० ॥
स वृद्धत्वं यदा प्राप्तो जराविप्लवतां गतः ॥
तदा स चिन्तयामास मया पापं महत्कृतम् ॥ २१ ॥
मणिभद्रो वराकोऽसौ मिथ्याचारेण घातितः ॥
तस्य भार्या हृता चैव प्रसूतिं च नियोजिता ॥ २२ ॥
हाटकेश्वरजं क्षेत्रं तस्माद्गत्वा करोम्य हम् ॥
पुरश्चरणसंज्ञं च येन शुद्धिः प्रजायते ॥ २३ ॥
एवं स निश्चयं कृत्वा पुष्पश्चित्ते निजे तदा ॥
असंख्यं वित्तमादाय चमत्कारपुरंगतः ॥ ॥ २४ ॥
पुत्रेभ्योऽपि यथासंख्यं दत्त्वा चैव पृथक्पृथक् ॥
प्रासादं कारयामास तस्य सूर्यस्य शोभनम् ॥ २५ ॥
यस्मिन्सिद्धिं गतः सोऽत्र याज्ञवल्क्यप्रतिष्ठिते ॥
ततो मध्यममाहूय प्रणिपत्याभिवाद्य च ॥
सोऽब्रवीद्ब्राह्मणानां मे चातुश्चरणमानय ॥ २६ ॥
येनाहमग्रतो भूत्वा प्रायश्चित्तं विशुद्धये ॥
पुरश्चरणसंज्ञं तु प्रार्थयामि यथाविधि ॥ २७ ॥
इति स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाट केश्वरक्षेत्रमाहात्म्ये पुष्पस्य पापक्षालनार्थं हाटकेश्वरक्षेत्रगमनपुरश्चरणार्थब्राह्मणामन्त्रणवर्णनंनाम षष्ट्यधिकशततमोऽध्यायः ॥ १६० ॥