सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १५७

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
एवं संबोधितस्तैस्तु लोकैः पुष्पस्तदा द्विजाः ॥
तानब्रवीत्ततः कुद्धो न करिष्यामि भोजनम् ॥ १ ॥
यावन्न चास्य पापस्य करिष्यामि प्रतिक्रियाम् ॥
तद्वदध्वं महाभागा देवो वा देवताऽथवा ॥ २ ॥
तथान्ये सिद्धमन्त्रा वा सद्यः प्रत्ययकारकाः ॥
आराधिता यथा सद्यो मानुषाणां वरप्रदाः ॥ ३ ॥
॥ जना ऊचुः ॥ ॥
एको देवः स्थितश्चात्र सद्यःप्रत्ययकारकः ॥
तथैका देवता चात्र श्रूयते जगती तले ॥ ४ ॥
॥ पुष्प उवाच ॥ ॥
कोऽसौ देवः कियद्दूरे कस्मिन्स्थाने व्यवस्थितः ॥
तथा च देवता ब्रूत दयां कृत्वा ममोपरि ॥ ५ ॥ ॥
॥ जना ऊचुः ॥ ॥
चमत्कारपुरे सूर्यो याज्ञवल्क्यप्रतिष्ठितः ॥
अस्ति विप्र श्रुतोऽस्माभिः सद्यः प्रत्ययकारकः ॥ ६ ॥
सूर्यवारेण सप्तम्यां फलहस्तः प्रदक्षिणाम् ॥
यः करोति नरस्तस्य ह्यष्टोत्तरशतं द्विज ॥ ७ ॥
तस्य सिद्धिप्रदः सम्यङ्मनसा वांछितं ददेत् ॥
तथान्या शारदा नाम देवी काश्मीरसंस्थिता ॥ ८ ॥
उपवासकृतेरेव सापि सिद्धिप्रदायिनी ॥
तच्छ्रुत्वा वचनं तेषां जनानां स द्विजोत्तमाः ॥ ९ ॥
समुद्दिश्य चमत्कारं तस्मात्स्थानात्ततः परम् ॥
चमत्कारपुरं प्राप्य सप्तम्यां सूर्यवासरे ॥ ६.१५७.१० ॥
तत्रागत्य ततः स्नात्वा शुचिर्भूत्वा समाहितः ॥
गतः संति ष्ठते यत्र याज्ञवल्क्यकृतो रविः ॥ ११ ॥
ततः प्रदक्षिणाः कृत्वा अष्टोत्तरशतं मिताः ॥
नालिकेराणि चादाय श्रद्धया परयाः युतः ॥ १२ ॥
ततः क्षुत्क्षामकंठः स परिश्रांतस्तदग्रतः ॥
उपविष्टो जपं कुर्वन्सूर्येष्टैः स्तवनैस्तदा ॥ १३ ॥
मंडलब्राह्मणाद्यैश्च तारं स्वरमुपाश्रितः ॥
सप्तयुंजर वाद्यैश्च अग्निरेवेति भक्तितः ॥ १४ ॥
आदित्यव्रतसंज्ञाद्यैः सामभिर्दृढभक्तिभाक् ॥
क्षुरिकामंत्रपूर्वैश्च तथैवाथर्वणोद्भवैः ॥ १५ ॥
यावदन्योर्कवारस्तु नैव तुष्टो दिवाकरः ॥
पौर्णमासीदिने प्राप्ते वैराग्यं परमं गतः ॥ १६ ॥
ततः पुष्पो विधायाथ स्नानं धौतांबरः शुचिः ॥
भूनाम्ना साध्य भूमिं च स्थंडिलार्थं द्विजोत्तमाः ॥ १७ ॥
स्थंडिलं हस्तमात्रं च स्थंडिले प्रत्यकल्पयत् ॥
अग्निमीळेतिमंत्रेण ततोऽग्निं स निधाय च ॥ १८ ॥
तृणैः परिस्तृणामीतिकृत्वोपस्तरणं ततः ॥
आब्रह्मन्निति मन्त्रेण दत्त्वा ब्रह्मासनं ततः ॥ १९ ॥
सुत्रामाणमिति प्रोच्य समिधःस्थापनं च यत् ॥
प्रोक्षणीपात्रमासाद्य प्रोक्षणं कृतवांस्ततः ॥ ६.१५७.२० ॥
पात्राणामथ सर्वेषां स्रुवादीनां यथाक्रमम् ॥
ततः प्रकल्पयामास हविःस्थाने निजां तनुम् ॥ ॥ २१ ॥
न्यायं तु देवतास्थाने स आचार्यविधानतः ॥
ग्रहणं प्रोक्षणं चैव सूर्याय त्वेति चोत्तरम् ॥ २२ ॥
अयं त इध्म आत्मेति जप्त्वाथ समिधं ततः ॥
अग्निसोमेति मन्त्राभ्यां हुत्वा चाज्याहुती ततः ॥ २३ ॥
कृत्वा व्याहृतिहोमं तु भूर्भुवः स्वेति भो द्विजाः ॥
ये ते शतेति मन्त्राद्यैर्हुत्वात्रैव च दारुणम् ॥ २४ ॥
आह्वयामास वह्निं च प्रत्यक्षो भव देव मे ॥
एवं मन्त्रेण कृत्वा तं संमुखं ज्वलनं ततः ॥ २५ ॥
कालीकरालिकाद्याश्च सप्तजिह्वाश्च याः स्मृताः ॥
तासामाह्वानकं कृत्वा ततो दीप्ते हविर्भुजि ॥ २६ ॥
जुहाव च स मांसानि स्वानि चोत्कृत्त्य शस्त्रतः ॥
लोमभ्यः स्वाहेति विदिशो दिग्भ्यो दत्त्वा ततः परम् ॥ २७ ॥
अग्नये स्विष्टकृतइति यावदात्मानमाक्षिपेत् ॥
तावद्धृतः स सूर्येण स्वहस्तेन समंततः ॥ २८ ॥
धृतश्च सादरं तेन मा विप्र कुरु साहसम् ॥
नेदृग्घोमः कृतः क्वापि कदाचित्केनचिद्द्विज ॥ ॥ २९ ॥
तुष्टोऽहं च महाभाग ब्रूहि किं करवाणि ते ॥
अदेयमपि दास्यामि यत्ते मनसिवर्तते ॥ ६.१५७.३० ॥
॥ पुष्प उवाच ॥ ॥
यदि तुष्टोसि देवेश यदि देयो वरो मम ॥
तद्देयं गुटिकायुग्मं यदर्थं प्रार्थयाम्यहम् ॥ ३१ ॥
वैदिशे नगरे चास्ति मणिभद्रो महाधनी ॥
कुब्जांगः क्षत्रियो देव जरावलिसमन्वितः ॥ ३२ ॥
अब्रह्मण्यो महानीचः कीनाशो जनदूषितः ॥
द्वयोरेकां यदा वक्त्रे सदा चैव करोम्यहम् ॥ ३३ ॥
तदा मे तादृशं रूपमविकल्पं भवत्विति ॥
यदा पुनर्गृहीत्वा तां द्वितीयां प्रक्षिपाम्यहम् ॥ ३४ ॥
ततश्च सहजं रूपं मम भूयात्सुरेश्वर ॥
वैदिशे नगरे चास्ति मणिभद्रः सुरेश्वर ॥ ३५ ॥
अपरं तस्य यत्किंचिद्धनधान्यादिकं गृहे ॥
तत्सर्वं विदितं मे स्यात्तथा देव प्रजायताम्॥ ३६ ॥
किं वानेन बहूक्तेन तस्य मित्राणि बांधवाः ॥
व्यवहारास्तथा सर्वे प्रकटाः स्युः सदैव हि ॥ ३७ ॥
न कश्चिज्जायते तत्र विकल्पः कस्यचित्क्वचित् ॥
मम तस्याधम स्यापि सर्वकृत्येषु सर्वदा ॥ ३८ ॥
॥ भास्कर उवाच ॥ ॥
गृहाण त्वं महाभाग गुटिकाद्वितयं शुभम् ॥
शुक्लं कृष्णं च वक्त्रस्थं विभेद जननं महत् ॥ ३९ ॥
शुक्लया तस्य रूपं च तव नूनं भविष्यति ॥
कृष्णयापि पुनः स्वं च संप्राप्स्यसि महाद्विज ॥ ६.१५७.४० ॥
॥ पुष्प उवाच ॥ ॥
अपरं वद मे देव संदेहं हृदये स्थितम् ॥
यत्त्वां पृच्छामि देवेश तव कीर्तिविवर्धनम् ॥४१॥
मया श्रुतं सुरश्रेष्ठ सप्तम्यां सूर्यवासरे ॥
यस्ते प्रदक्षिणानां च कुर्यादष्टोत्तरं शतम् ॥
तस्य त्वं तत्क्षणादेव फलहस्तस्य सिद्धिदः ॥ ४२ ॥
मूर्खस्यापि च पापस्य सर्वदोषान्वितस्य च ॥
चतुर्वेदस्य मे कस्मात्तीर्थयात्रापरस्य च ॥ ४३ ॥
सप्तरात्रे गते तुष्टो होम एवंविधे कृते ॥ ४४ ॥
॥ श्रीसूर्य उवाच॥ ॥
तामसेन तु भावेन त्ववा सर्वमिदं कृतम्॥
तेन सर्वं वृथा जातं त्वया सर्वं च यत्कृतम् ॥ ४९ ॥
यत्किंचित्क्रियते विप्र तामसं भावमाश्रितैः ॥
तत्सर्वं जायते व्यर्थं किं न वेत्ति भवा निदम् ॥ ४६ ॥
एवमुक्त्वा ततः सूर्यस्तस्य गात्राण्युपास्पृशत् ॥
खंडितानि स्वहस्तेन निर्व्रणानि कृतानि च ॥ ४७ ॥
अब्रवीच्च पुनः पुष्पं प्रसन्न वदनः स्थितः ॥
अनेनैव विधानेन यः करोति कुशंडिकाम् ॥ ४८ ॥
सोम्यभावं समाश्रित्य समिद्भिश्चार्कसंभवैः ॥
तिलाक्षतैर्विशेषेण होमं यस्तु समाचरेत् ॥ ४९ ॥
छन्दऋषिसमोपेतमेकं यावत्सहस्रकम् ॥
तस्य दास्याम्यहं हृत्स्थमधिकेभ्योऽधिकं फलम् ॥६.१५७.५॥।
एवमुक्त्वा सहस्रांशुस्तत्रैवां तरधीयत ॥
दीपवल्लक्षितो नैव केन मार्गेण निर्गतः ॥ ५१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सूर्यसकाशात्पुष्पब्राह्मणस्य वरलब्धिवर्णनंनाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५७ ॥