स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १५२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
असंख्यातानि तीर्थानि त्वयोक्ता न्यत्र सूतज ॥
देवमानुषजातानि देवतायतनानि च ॥
तथा वानरजातानि राक्षसस्थापितानि च ॥१॥
सूतपुत्र वदास्माकं यैर्दृष्टैः स्पर्शितैरपि ॥
सर्वेषां लभ्यते पूर्णं फलं चेप्सितमत्र च ॥ २ ॥
॥ सूत उवाच ॥ ॥
सत्यमेतन्महाभागास्तत्र संख्या न विद्यते ॥
तीर्थानां चैव लिंगानामाश्र माणां तथैव च ॥ ३ ॥
तत्र यः कुरुते स्नानं शंखतीर्थे समाहितः ॥
एकादश्यां विशेषेण सर्वेषां लभते फलम् ॥ ४ ॥
यः पश्यति नरो भक्त्या तत्रैकादशरुद्रकम् ॥
सिद्धेश्वरसमं तेन दृष्टाः सर्वे महेश्वराः ॥ ५ ॥
यः पश्यति वटादित्यं षष्ठ्यां चैत्रे विशेषतः ॥
भास्कराकृत्स्नशो दृष्टास्तेन तत्रहि संस्थिताः ॥ ६ ॥
माहित्थां पश्यति तथा ये देवीं श्रद्धयाविताः ॥
तेन दुर्गाः समस्तास्ता वीक्षिता नात्र संशयः ॥ ७ ॥
यः पश्यति गणेशं च स्वर्गद्वारप्रदं नृणाम् ॥
सर्वे विनायकास्तेन दृष्टाः स्युर्नात्र संशयः ॥ ८ ॥
शर्मिष्ठास्थापितां गौरीं यो ज्येष्ठां तत्र पश्यति ॥
तेन गौर्यः समस्तास्ता वीक्षिता द्विजसत्तमाः ॥ ९ ॥
चक्रपाणिं च यः पश्येत्प्रातरुत्थाय मानवः ॥
वासुदेवा समस्ताश्च तेन तत्र निरीक्षिताः ॥ ६.१५२.१० ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
त्वयासूत तथाऽस्माकं चक्रपाणिश्च यः स्थितः ॥
नाख्यातः स कथं तत्र विस्मृतः किं वदस्व नः ॥
कस्मिन्काले विशेषेण स द्रष्टव्यो मनीषिभिः ॥ ११ ॥
॥ सूत उवाच ॥ ॥
अर्जुनेनैष विप्रेन्द्राः क्षेत्रेऽत्रैव प्रतिष्ठितः ॥
शयने बोधने चैव प्रातरुत्थाय मानवः ॥ १२ ॥
स्नानं कृत्वा सुभक्त्या च यः पश्येच्चक्रपाणिनम् ॥
ब्रह्महत्यादिपापानि तस्य नश्यंति तत्क्षणात् ॥ १३ ॥
भूभारोत्तारणार्थाय धर्मसंस्थापनाय च ॥
ब्रह्मणावतारितौ विप्रा नरनारायणावुभौ ॥ १४ ॥
कृष्णार्जुनौ तदा मर्त्ये द्वापरांते द्विजोत्तमाः ॥
अवतीर्णो धरापृष्ठे मिथः स्नेहानुगौ तदा ॥
नरनारायणावेतौ स्वयमेव व्यवस्थितौ ॥ १५ ॥
यथा रक्षोविनाशाय रामो दशरथात्मजः ॥
अवतीर्णो धरापृष्ठे तद्वत्कृष्णोऽपि चापरः ॥ १६ ॥
यदा पार्थः समायातस्तीर्थयात्रां प्रति द्विजाः ॥
युधिष्ठिरसमादेशाच्छक्रप्रस्थात्पुरोत्तमात् ॥ १७
द्रौपद्या सहितं दृष्ट्वा रहसि भ्रातरं द्विजम् ॥
प्रोवाच प्रणतो भूत्वा विनयावनतोऽर्जुनः ॥ १९ ॥
॥ अर्जुन उवाच ॥ ॥
आयुधार्थमहं प्राप्तः सांप्रतं पार्थिवोत्तम ॥
द्विजधेनुविमोक्षाय ममाज्ञां देहि पार्थिव ॥ १९ ॥
॥ युधिष्ठिर उवाच ॥ ॥
गच्छार्जुन द्रुतं तत्र नीयन्ते यत्र तस्करैः ॥
धेनवो द्विजवर्यस्य ता मोक्षय धनंजय ॥ ६.१५२.२० ॥
तीर्थयात्रां ततो गच्छ यावद्द्वादशवत्सरान् ॥
ततः पापविनिर्मुक्तः समेष्यसि ममांतिकम्॥ २१ ॥
यः सदारं नरं पश्येदेकांतस्थं तु बुद्धिमान् ॥
अपि चात्यंतपापः स्यात्किं पुनर्निजबांधवम् ॥ २२ ॥
तस्मान्न वीक्षयेत्कञ्चिदेकांतस्थं सभार्यकम् ॥
बांधवं च विशेषेण य इच्छेच्छुभमात्मनः ॥ २३ ॥
स तथेति प्रतिज्ञाय रथमारुह्य सत्वरम् ॥
धनुरादाय बाणांश्च जगाम तदनन्तरम् ॥ २४ ॥
येन मार्गेण ता गावो नीयन्ते तस्करैर्बलात् ॥
तिरस्कृत्य द्विजान्सर्वाञ्छितशस्त्रधरैर्द्विजाः ॥ २५ ॥
अथ हत्वा क्षणाच्चौरान्गाः सर्वाः स्वयमाहृताः ॥
स्वाः स्वा निवेदयामास ब्राह्मणानां महात्मनाम् ॥ २६ ॥
ततस्तीर्थान्यनेकानि स दृष्ट्वायतनानि च ॥
क्षेत्रेऽत्रैव समायातः स्नानार्थं पांडुनन्दनः ॥ २७ ॥
तेन पूर्वमपि प्रायस्तत्क्षेत्रमवलोकितम् ॥
दुर्योधनसमायुक्तो यदा तत्र समागतः ॥ २८ ॥
अथ संपूजयामास यल्लिंगं स्थापितं पुरा ॥
अर्जुनेश्वर संज्ञं तु पुष्पधूपानुलेपनैः ॥ २९ ॥
अन्येषां कौरवेन्द्राणां पांडवानां विशेषतः ॥ ६.१५२.३० ॥
अथ संचिंतयामास मनसा पांडुनंदनः ॥
अहं नरः स्वयं साक्षात्कृष्णो नारायणः स्वयम्॥ ३१ ॥
तस्मादत्र करिष्यामि चक्रपाणिं सुरेश्वरम् ॥
प्रासादो मानवश्चैव यादृङ्नास्ति धरातले ॥ ३२ ॥
कल्पांतेऽपि न नाशः स्यादस्य क्षेत्रस्य कर्हिचित् ॥
प्रासादोऽपि तथाप्येवमत्र क्षेत्रे भविष्यति ३३ ॥
एवं स निश्चयं कृत्वा स्वचित्ते पांडवानुजः ॥
प्रासादं निर्ममे पश्चाद्वैष्णवं द्विजसत्तमाः ॥ ३४ ॥
ततो विप्रान्समाहूय चमत्कारपुरोद्भवान्॥
प्रतिष्ठां कारयामास मतं तेषां समाश्रितः ॥ ३५ ॥
दत्त्वा दानान्यनेकानि शासनानि बहूनि च ॥
अन्यच्च प्रददौ पश्चात्स तेषां तुष्टिदायकम् ॥ ३६ ॥
ततः प्रोवाच तान्सर्वान्कृतांजलिपुटः स्थितः॥
नरोऽहं ब्राह्मणाज्जातः पाण्डोर्भूमिं प्रपेदिवान् ॥३७ ॥
मानुषेणैव रूपेण त्यक्त्वा तां बदरीं शुभाम् ॥
प्रसिद्ध्यर्थं मया चात्र प्रासादोऽयं विनि र्मितः ॥
मन्नाम्ना नरसंज्ञश्च श्रद्धापूतेन चेतसा ॥ ३८ ॥
तस्मादेष भवद्भिश्च चक्रपाणिरिति द्विजाः ॥
कीर्तनीयः सदा येन मम नाम प्रकाश्य ताम्॥ ३९ ॥
विष्णुलोके ध्वनिर्याति यावच्चंद्रदिवाकरौ ॥ ६.१५२.४० ॥
तथा महोत्सवः कार्यः शयने बोधने हरेः ॥
चैत्रमासे विशेषेण संप्राप्ते विष्णुवासरे ॥ ४१ ॥
एतेषु त्रिषु लोकेषु त्यक्त्वेमां बदरीमहम् ॥
पूजामस्य करिष्यामि स्वयं विष्णोर्द्विजोत्तमाः ॥४२॥
यस्तत्र दिवसे मर्त्यः पूजामस्य विधा स्यति ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स यास्यति॥४३॥
तथा ये वासुदेवस्य क्षेत्रे केचिद्व्यवस्थिताः ॥
तेषां प्रदर्शनं श्रेयो नित्यं दृष्ट्वा च लप्स्यते ॥४४॥
सूत उवाच॥
बाढमित्येव तैरुक्तो दाशार्हः पांडुनंदनः॥
तेषां तद्भारमावेश्य प्रशांतेनांतरात्मना॥
ययौ तीर्थानि चान्यानि कृतकृत्यस्ततः परम्॥४५॥
एवं तत्र स्थितो देवश्चक्रपाणिवपुर्द्धरः॥
स्वयमेव हृषीकेशो जंतूनां पापनाशनः॥४६॥
अद्याऽपि च कला विष्णोः प्राप्ते चैकादशीत्रये ॥
पूर्वोक्तेन विधानेन तस्माच्छ्रद्धासमन्वितैः ॥
सदैव पूजनीयश्च वन्दनीयो विशेषतः ॥ ४७ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चक्रपाणिमाहात्म्यवर्णनंनाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५२ ॥