स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १५०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
शुक्रस्तस्य वचः श्रुत्वा चित्ते कृत्वा दयां ततः ॥
हाटकेश्वरजं क्षेत्रं गत्वा सिद्धिप्रदायकम् ॥ ॥ १ ॥
चकार विधिवद्धोमं स्वमांसेन हुताशने ॥
मंत्रैराथर्वणै रौद्रैः कुण्डं कृत्वा त्रिकोणकम् ॥ २ ॥
एवं संजुह्वतस्तस्य तेन वै विधिना तदा ॥
यथा रुद्रेण संतुष्टा देवी केलीश्वरी तदा ॥ ३ ॥
तं प्रोवाच समेत्याशु शुक्रं दैत्यपुरोहितम् ॥
मा त्वं भार्गवशार्दूल कुरु मांसपरिक्षयम् ॥ ४ ॥
भाविताऽहं त्रिनेत्रेण तत्किं ब्रूहि करोमि ते ॥ ५ ॥
॥ शुक्र उवाच ॥ ॥
यथा रुद्रस्य साहाय्यं त्वयात्र विहितं शुभे ॥
अंधकस्याऽपि कर्तव्यं तथैवैष वरो मम ॥ ६ ॥
ये केचिद्दानवा युद्धे भक्षिताश्च विनाशिताः ॥
अस्य सैन्यस्य ते सर्वे पुनर्जीवंतु सत्वरम् ॥ ७ ॥
॥ देव्युवाच ॥ ॥
जीवयिष्यामि तान्सर्वान्दानवान्निहतान्रणे ॥
नवसंभक्षितान्विप्र प्रविष्टान्योगिनीमुखे ॥ ८ ॥
एवमुक्त्वा ददौ तस्मै सा देवी हर्षितानना ॥
नाम्नाऽमृतवतीं विद्यां यया जीवंति ते मृताः ॥ ९ ॥
ततः शुक्रः प्रहृष्टात्मा गत्वांधकमुवाच ह ॥
सिद्धा केलीश्वरी देवी यथा शम्भोस्तथा मम ॥ ६.१५०.१० ॥
तया दत्ता शुभा विद्या मम दैत्या मृताश्च ये ॥
तान्सर्वांस्तत्प्रभावेन योजयिष्यामि जीविते ॥ ११ ॥
त्वयाऽस्याः सततं भक्तिः कार्या दानव सत्तम ॥
अष्टम्यां च विशेषेण चतुर्दश्यां च सर्वदा ॥ १२ ॥
एषा सा परमा शक्तिर्यया व्याप्तमिदं जगत्॥
केवलं भक्तिसाध्या सा न दण्डेन कथंचन ॥ १३ ॥
एवमुक्तस्तु शुक्रेण स तदा दानवाधिपः ॥
तां देवीं पूजयामास भावभक्तिसमन्वितः ॥ १४ ॥
स्तुत्वा च विविधैः स्तोत्रैस्ततः प्रोवाच सादरम् ॥
तथान्या मातरः सर्वा यथाज्येष्ठं यथाक्रमम् ॥ १५ ॥
अज्ञानाद्यन्मया देवि कृतः कोपस्तवोपरि ॥
मर्षणीयस्तथा सोऽद्य दीनस्य प्रणतस्य च ॥ १६ ॥
॥ श्रीदेव्युवाच ॥ ॥
परितुष्टाऽस्मि ते वत्स प्रभावाद्भार्गवस्य च ॥
वरं वरय तस्मात्त्वं न वृथा दर्शनं मम ॥ १७ ॥
॥ अन्धक उवाच ॥ ॥
अनेनैव तु रूपेण ये त्वां ध्यायंति देहिनः ॥
पूजयंति च सद्भक्त्या संस्थाप्य प्रतिमां तव ॥
तेषां सिद्धिः प्रदातव्या त्वया हृदयवांछिता ॥ १८ ॥
देव्युवाच ॥ ॥
यो मामनेन रूपेण स्थापयिष्यति मानवः ॥
तस्य मोक्षं प्रदास्यामि पापस्यापि न संशयः ॥ १९ ॥
योऽष्टम्यां च चतुर्दश्यां मम पूजां करिष्यति ॥
तस्मै स्वर्गं प्रदास्यामि पापस्यापि दनूत्तम ॥ ६.१५०.२० ॥
केवलं दर्शनं यश्च ध्यानं वा मे करिष्यति ॥
तस्य राज्यं प्रदास्यामि भोगान्मानुषसंभवान् । २१ ॥
एवमुक्त्वाऽथ सा देवी ततश्चादर्शनं गता ॥
तैश्च मातृगणैः सार्धं पश्यतस्तस्य तत्क्षणात् । २२ ॥
शक्रोऽपि दानवान्सर्वांस्तया संसिद्धया ततः ॥
मृतान्संजीवयामास दैतेयान्नवभक्षितान् ॥ २३ ॥
तैः समेत्य स दैत्येन्द्रः प्रहृष्टेनांतरात्मना ॥
तां पुरीं प्राप्य शक्रस्य राज्यं चक्रे दिवानिशम् ॥ २४ ॥
तां देवीं ध्यायमानस्तु पूजयानो दिवानिशम् ॥
अष्टम्यां च चतुर्दश्यां विशेषेण महाबलः ॥ २५
अथ तस्याः प्रभावं तं ज्ञात्वा व्याससमुद्भवः ॥
स्थानेऽत्र स्थापयामास संसिद्धिं प परां गतः ॥ २६ ॥
॥ सूत उवाच । ॥
एवं केलीश्वर देवी संजाता परमेश्वरी ॥
तस्मात्स्थाप्या च पूज्या च ध्येया चैव विशेषतः ॥ २७ ॥
एवं देव्या नरो यश्च पठते वा शृणोति वा ॥
वाच्यमानं स मुच्येत व्यसनेन गरीयसा ॥ २८ ॥
भ्रष्टराज्योऽथवा राजा यः शृणोत्यष्टमीदिने ॥
स राज्यं लभते भूयो निखिलं हतकंटकम् ॥ २९ ॥
युद्धकाले च संप्राप्ते यश्चैतच्छृणुयान्नरः ॥
स हत्वा शत्रुसंघातं विजयं च समाप्नुयात् ॥ ६.१५०.३० ॥ इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये केलीश्वरीमाहात्म्यवर्णनंनाम पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५० । ॥ ।