स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १३९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
धर्मराजेश्वरोत्थं च माहात्म्यं द्विजसत्तमाः ॥
यन्मया प्रश्रुतं पुण्यं सकाशात्स्वपितुः पुरा ॥ १ ॥
तदहं कीर्तयिष्यामि शृणुध्वं सुसमाहिताः ॥
त्रैलोक्येऽपि सुविख्यातं सर्व पातकनाशनम् ॥ २ ॥
तत्र क्षेत्रे पुरा विप्रः कश्यपान्वयसंभवः ॥
उपाध्याय इति ख्यातो वेदविद्यापरायणः ॥ ३ ॥
पश्चिमे वयसि प्राप्ते तस्य पुत्रो बभूव ह ॥
स्वाध्यायनियमस्थस्य प्रभूतविभवस्य च ॥४॥
पञ्चवर्षकमात्रस्तु यदा जज्ञे च तत्सुतः ॥
तदा मृत्युवशं प्राप्तः पितृमातृसुदुःखकृत् ॥५॥
ततः स ब्राह्मणः कोपं चक्रे वैवस्वतोपरि ॥
धर्मराजगृहं प्राप्तं दृष्ट्वा निजकुमारकम् ॥ ६ ॥
आदाय सलिलं हस्ते शुचिर्भूत्वासमाहितः ॥
प्रददौ दारुणं शापं धर्मराजाय दुःखितः ॥ ७ ॥
अपुत्रोऽद्य कृतो यस्मादहं तेन दुरात्मना ॥
अतः सोऽपि च दुष्टात्मा यमोऽपुत्रो भविष्यति ॥ ८ ॥
तथास्य भूतले लोको नैव पूजां विधास्यति ॥
कीर्तयिष्यति नो नाम यथान्येषां दिवौकसाम् ॥ ९ ॥
यः कश्चित्प्रातरुत्थाय नाम चास्य ग्रही ष्यति ॥
मंगल्यकरणे चाथ विघ्नं तस्य भविष्यति ॥ 6.139.१० ॥
तं श्रुत्वा तस्य विप्रस्य यमः शापं सुदारुणम् ॥
स्वधर्मे वर्तमानस्तु ततो दुःखा न्वितोऽभवत् ॥ ११ ॥
एतस्मिन्नंतरे गत्वा ब्रह्मणः सदनं प्रति ॥
कृतांजलिपुटो भूत्वा यमः प्राह पितामहम् ॥ १२ ॥
पश्य देवेश शप्तोऽहं निर्दोषोपि द्विजन्मना ॥
स्वधर्मे वर्तमानस्तु यथान्यः प्राकृतो जनः ॥ १३ ॥
तस्मादहं त्यजिष्यामि नियोगं ते पितामह ॥
ब्रह्मशापभया द्भीतः सत्यमेतन्मयोदितम् ॥ १४ ॥
पुरा मांडव्यशापेन शूद्रयोन्यवतारितः ॥
सांप्रतं पुत्ररहितः कृतोऽपूज्यश्च सत्तम ॥ १५ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा दीनं वैवस्वतस्य च ॥
तत्कालोचितमाहेदं स्वयमेव शतक्रतुः ॥ १६ ॥
युक्तमुक्तमनेनैतद्धर्मराजेन पद्मज ॥
नियोगे वर्तमानेन तावकीये सुरेश्वर ॥ १७ ॥
अवश्यमेव मर्त्ये च मनुष्याः समये स्थिताः॥
बाल्ये वा यौवने वाथ वार्धक्ये वा पितामह ॥
संहर्तव्या न संदेहो नाकाले च कथंचन ॥ १८ ॥
एतदेव कृतं नाम धर्मराजाख्यमुत्तमम् ॥
त्वया च सममित्रस्य समशस्त्रोर्महात्मनः ॥ १९ ॥
तस्मादद्य समालोक्य कश्चिदेव विचिंत्यताम् ॥
उपायो येन निर्दोषो नियोगं कुरुते तव ॥ 6.139.२० ॥
॥ ब्रह्मोवाच ॥ ॥
ब्रह्मशापं न शक्तोऽह मन्यथाकर्तुमेवच ॥
उपायं च करिष्यामि सांप्रतं त्रिदशाधिप ॥ २१ ॥
ततो ध्यानं प्रचक्रे स ब्रह्मा लोकपितामहः ॥
तदर्थं सर्वदेवानां पुरतः सुस माहितः ॥ २२ ॥
तस्यैवं ध्यानसक्तस्य प्रादुर्भूताः समंततः ॥
मूर्ता रोगाः सुरौद्रास्ते वातगुल्मकफात्मकाः ॥
अष्टोत्तरशतप्रायाः प्रोचुस्तं च कृतादराः ॥ २३ ॥
॥ रोगा ऊचुः ॥ ॥
किमर्थं देवदेवेश त्वया सृष्टा वयं विभो ॥
आदेशो दीयतां शीघ्रं प्रसादः क्रियतामिति ॥ २४ ॥ ॥
॥ व्रह्मोवाच ॥ ॥
व्रजध्वं भूतले शीघ्रं ममादेशादसंशयम् ॥
यमादेशान्मनुष्येषु गन्तव्यमविकल्पितम् ॥ २५ ॥
एवमुक्त्त्वा तु तान्रोगांस्ततः प्राह पितामहः ॥
धर्मराजं समीपस्थं भृशं दीनमधोमुखम् ॥ २६
एते ते व्याधयः सर्वे मया यम नियोजिताः ॥
साहाय्यं च करिष्यंति सर्वकृ त्येषु सर्वदा ॥२७॥
यः कश्चिदधुना मर्त्यो गतायुः संप्रपद्यते ॥
वधाय तस्य यत्नेन त्वया प्रेष्याः सदैव तु॥२८॥
एतेषां जायते तेन जननाशसमुद्भवः ॥
अपवादो धरापृष्ठे न च संजायते तव ॥२९॥
तस्माद्गत्वा निजं स्थानं स्वाधिकारपरो भव ॥
ममादेशादसंदिग्धं नैवं दोषमवाप्स्यसि॥6.139.३॥।
ततस्तान्सकलान्व्याधीन्गृहीत्वा रविनंदनः॥
यमलोकं समासाद्य ततः प्रोवाच सादरम् ॥ ३१ ॥
पृष्ट्वापृष्ट्वा च गंतव्यं चित्रगुप्तं धरातले ॥
गंतव्यं जननाशाय समये समुपस्थिते ॥ ३२ ॥
परमस्ति मया तत्र स्थापितं लिंगमुत्तमम् ।
हाटकेश्वरजेक्षेत्रे सर्वपातकनाशनम् ॥३३॥
यस्तं पश्यति सद्भक्त्या प्रातरुत्थाय मानवः ॥
स युष्माभिः सदा त्याज्यो दूरतो वचनान्मम ॥ ३४ ॥
एवमुक्त्वा स तान्व्याधींस्ततो वैवस्वतः स्वयम् ॥
तस्य विप्रस्य तं पुत्रं गृहीत्वा सत्वरं ययौ ॥
तस्यैव मंदिरे रम्ये कृत्वा रूपं द्विजन्मनः ॥ ३५ ॥
अथासौ ब्राह्मणो दृष्ट्वा स्वं पुत्रं गृहमागतम् ॥
सहितं विप्ररूपेण धर्मराजेन धीमता ॥ ३६ ॥
ततः प्रहृष्टचित्तेन सत्वरं सम्मुखो ययौ ॥
पुत्रपुत्रेति जल्पन्स निजभार्यासमन्वितः ॥ ३७ ॥
परिष्वज्य ततो भूयो वाष्पपर्याकुलेक्षणः ॥
आघ्राय च ततो मूर्ध्नि वाक्यमेतदुवाच ह ॥ ३८ ॥
॥ ब्राह्मण उवाच ॥ ॥
कथं पुत्र समायातस्त्वं तस्मा द्यममंदिरात् ॥
न कश्चित्पुनरायाति यत्र गत्वाऽपि वीर्यवान् ॥ ३९ ॥
किं वा चैतत्समुत्पन्नमिन्द्रजालं ममांतिकम् ॥
किं वा स्वप्नमिदं किं वा ममायं दृष्टिविभ्रमः ॥6.139.४॥।
कश्चायं ब्राह्मणः पार्श्वे तव संतिष्ठते सुत ॥
दिव्येन तेजसा युक्तस्तं नमाम्यहमात्मज ॥ ४१ ॥
॥ पुत्र उवाच ॥ ॥
एष ब्राह्मणरूपेण समायातो यमः स्वयम् ॥
मामादाय कृपाविष्टो ज्ञात्वा त्वां दुःखसंयुतम् ॥ ४२ ॥
तस्मात्त्वं कुरु तातास्य शापानुग्रहमद्य वै॥
गृहप्राप्तस्य सुस्नेहाद्यद्यहं तव वल्लभः ॥ ४३ ॥
ततस्तस्य प्रणामं स कृत्वा ब्राह्मणसत्तमः ॥
व्रीडयाऽधोमुखो भूत्वा ततः प्रोवाच सादरम् ॥ ४४ ॥ ॥
॥ ब्राह्मण उवाच ॥ ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥
यत्पुत्रस्य मम प्राप्तिर्गतस्य यमसादनम् । ४५ ॥
त्वं च पुत्रकृते तात सन्तोषं परमं गतः ॥
तस्मात्पुत्रेण संयुक्तो यथायं स्यात्तथा कुरु ॥ ४६ ॥
॥ ब्राह्मण उवाच ॥ ॥
न मे स्यादनृतं वाक्यं कदा चिदपि पुत्रक ॥
अपि स्वैरेण यत्प्रोक्तं किं पुनर्दुःखितेन च ॥ ४७ ॥
तस्मात्तस्य भवेत्पुत्रो दैवयोनिसमुद्भवः ॥
न कथंचिदपि प्राज्ञ मम शापवशाद्ध्रुवम्॥ ४८ ॥
भविष्यति सुतश्चान्यो मानुषीयोनिसंभवः ॥
राजसूयाश्वमेधाभ्यां यश्चैनं तारयिष्यति ॥ ४९ ॥
कोऽर्थः पुत्रेण जातेन यो न संतारणक्षमः ॥
पितृपक्षं शुभं कर्म कृत्वा सर्वोत्तमं भुवि ॥ 6.139.५० ॥
तथा पूजाकृते योऽस्य शापो दत्तश्च वै पुरा ॥
तत्रापि शृणु मे वाक्यं तस्य पुत्रक जल्पतः ॥५१॥
वेदोक्तैर्विविधैर्मन्त्रैर्या पूजा चास्य संस्थिता ॥
न भविष्यति सा लोके कथंचिदपि पुत्रक ॥ ५२ ॥
अस्य मानुषसंभूतैर्मन्त्रैः पूजा भविष्यति ॥
विशिष्टा सर्वदेवेभ्यः सत्यमेतन्मयोदितम् ॥ ५३ ॥
॥ पुत्र उवाच ॥ ॥
अहमेनं प्रतिष्ठाप्य द्रिजश्रेष्ठ महीतले ॥
सम्यगाराधयिष्यामि किमन्यैर्विबुधैर्मम ॥ ५४ ॥
तस्मात्संकीर्तयिष्यामि मंत्रान्मानुषसंभवान् ॥
तथा पूजाविधानं च त्वत्प्रसादेन पूर्वज ॥ ५५ ॥
ततः सुगं नः पन्थेति तस्य मंत्रं विधाय सः ॥
समाचरत्प्रहृष्टात्मा धर्मराजस्य शृण्वतः ॥ ५६ ॥
तच्छ्रुत्वाथ यमः प्रोच्चैः सुप्रसन्नेन चेतसा ॥
तं ब्राह्मण मुवाचेदं हर्षगद्गदयागिरा ॥ ९७ ॥
॥ यम उवाच ॥ ॥
कथंचिदपि विप्रेद्र न मे स्याद्दर्शनं वृथा ॥
अन्येषामपि देवानां तस्मात्प्रार्थय वांछि तम् ॥ ५८ ॥
॥ ब्राह्मण उवाच ॥ ॥
तवार्चां मम पुत्रोऽयं स्थापयिष्यति यामिह ॥
तामनेनैव मंत्रेण यः कश्चित्पूजयेद्द्विजः ॥ ५९ ॥
भवेत्संवत्सरं यावत्संप्राप्ते पंचमीदिने ॥
मा तस्य पुत्रशोको हि इह लोके कथञ्चन ॥ 6.139.६० ॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय संप्रहृष्टमना यमः ॥
यमलोकं जगामाथ स्वाधिकारपरोऽभवत्॥ ६१ ॥
सोऽपि ब्राह्मणदायादः कृत्वा प्रासादमुत्तमम् ॥
यममाराधयामास मध्ये संस्थाप्य भक्तितः ॥
पित्रा चोक्तेन मन्त्रेण तेनैव विधिपूर्वकम्॥ ६२ ॥
ततश्च क्रमशः प्राप्य पुत्रपौत्राननेकशः ॥
कालधर्ममनुप्राप्तश्चिरं स्थित्वा महीतले ॥ ६३ ॥
एतद्वः सर्वमाख्यातं पुराणेयत्पुरा श्रुतम्॥
यश्चैतत्कीर्तयेद्भक्त्या संप्राप्ते पंचमीदिने ॥
नापमृत्युर्भवेत्तस्य न च शोकः सुतोद्भवः ॥ ६४ ॥
इति श्रीस्कांदे महपुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धर्मराजेश्वरमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तर शततमोऽध्यायः ॥ १३९ ॥ ॥ छ ॥