स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १३६

विकिस्रोतः तः


मांडव्य उवाच ॥ ॥
ग्रहीष्यामि सुरश्रेष्ठा वरं युष्मत्समुद्रवम् ॥
परं मे निर्णयं चैकं धर्मराजः प्रचक्षतु॥ । १ ॥
सर्वेषां प्राणिनां लोके कृतं कर्म शुभाशुभम् ॥
उपतिष्ठति नान्यत्र सत्यमेतत्सुरोत्तमाः ॥ २ ॥
मयाप्यत्र परे चापि किं कृतं पातकं च यत् ॥
ईदृशीं वेदनां प्राप्तो न च मृत्युं कथचन ॥ ३ ॥
॥ धर्मराज उवाच ॥ ॥
अन्यदेहे त्वया विप्र बालभावेन वर्तता ॥
शूलाग्रेण सुतीक्ष्णेन काये विद्धो बकः क्षितौ ॥ ४ ॥
नान्यत्कृतमपि स्वल्पं पातकं किंचिदेव हि ॥
एतस्मात्कारणादेषा व्यथा संसेविता द्विज ॥ ५ ॥ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा भृशं क्रोधसमन्वितः ॥
ततस्तं प्राह मांडव्यो धर्मराजं पुरः स्थितम् ॥ ६ ॥
अस्य स्वल्पापराधस्य यस्माद्भूयान्विनिग्रहः ॥
कृतस्त्वया सुदुर्बुद्धे तस्माच्छापं गृहाण मे ॥ ७ ॥
त्वं प्राप्य मानुषं देहं शूद्रयोनौ व्यवस्थितः ॥
जातिक्षयकृतं दुःखं प्रभूतं सेवयिष्यसि ॥ ८ ॥
तथा कृता मयैषाद्य व्यवस्था सर्वदेहिनाम् ॥
अष्टमाद्वत्सरादूर्ध्यं कर्मणा गर्हितेन च ॥
प्रग्रहीष्यति वै जंतुः पुरुषो योषिदेव वा ॥ ९ ॥
एवमुक्त्वा स मांडव्यो धर्मराजं ततः परम् ॥
प्रस्थितो रोषनिर्मुक्तो वांछिताशां प्रति द्विजाः ॥ 6.136.१० ॥
अथ तं प्रस्थितं दृष्ट्वा प्रोचुः सर्वे दिवौकसः ॥
धर्मराजकृते व्यग्राः श्रुत्वा शापं तथाविधम् ॥ ११ ॥
॥ देवा ऊचुः ॥ ॥
भगवन्पापसक्तस्य धर्मराजस्य केवलम्॥
न त्वमर्हसि शापेन शूद्रं कर्तुं कथंचन ॥ १२ ॥
प्रसादं कुरु तस्मात्त्वमस्य धर्मपतेर्द्विज ॥
अस्माकं वचनात्सद्यः प्रार्थयस्व तथा वरम् ॥ ॥ १३ ॥
॥ मांडव्य उवाच ॥ ॥
नान्यथा जायते वाणी या मयोक्ता सुरोत्तमाः ॥
अवश्यं धर्मराजोऽयं शूद्रयोनौ प्रयास्यति ॥ १४ ॥
परं नैवास्य संतानं तस्यां योनौ भविष्यति ॥
संप्राप्स्यति च भूयोऽपि धर्मराजत्वमुत्तमम् ॥ १५ ॥
आराधयतु चाव्यग्रः क्षेत्रेऽत्रैव त्रिलोचनम् ॥
प्रसादात्तस्य देवस्य शीघ्रं मृत्युमवाप्स्यति ॥ १६ ॥
तथा देयो वरो मह्यं भवद्भिर्यदि स्वर्गपाः ॥
तदेषा शूलिकाऽस्माकं स्पर्शाद्भूयात्सुधर्मदा ॥ ॥ १७ ॥
॥ देवा ऊचुः ॥ ॥
एनां यः प्रातरुत्थाय स्पर्शयिष्यति शूलिकाम् ॥
पातकात्स विमुक्तो वा इह लोके भविष्यति ॥ १८ ॥
एवमुक्त्वा मुनिं तं ते देवाः शक्रपुरोगमाः ॥
ततस्तां सादरं प्राहुः सह भर्त्रा पतिव्रताम् ॥ १९ ॥
त्वमपि प्रार्थयाभीष्टमस्मत्तो वरवर्णिनि ॥
यत्ते चित्ते स्थितं नित्यं नादेयं विद्यतेऽत्र नः ॥ 6.136.२० ॥
॥ पतिव्रतोवाच ॥ ॥
येयं मयाकृता गर्ता स्थानेऽत्र त्रिदशेश्वराः ॥
मन्नाम्ना ख्यातिमायातु दीर्घिकेति जगत्त्रये ॥ २१ ॥
॥ देवा ऊचुः ॥ ॥
अद्यप्रभृति लोकेऽत्र गर्त्तेयं तव शोभने ॥
दीर्घिकेति सुविख्याता भविष्यति जगत्त्रये ॥ २२ ॥
येऽस्यां स्नानं करिष्यंति प्रातरुत्थाय मानवाः ॥
सर्वपापविनिर्मुक्तास्ते भविष्यंति तत्क्षणात् ॥ २३ ॥
कन्याराशिगते सूर्ये संप्राप्ते पंचमीदिने ॥
येऽत्र स्नानं करिष्यंति श्रद्धया सहिता नराः ॥ २४ ॥
अपुत्रास्ते भविष्यंति सपुत्रा वंशवर्धनाः ॥
एवमुक्त्वाऽथ तां देवा जग्मुः स्वर्गं द्विजोत्तमाः॥ ॥ २५ ॥
पतिव्रतापि तेनैव सह कांतेन सुन्दरी ॥
सेवयामास कल्याणी स्मरसौख्यमनुत्तमम् ॥ २६ ॥
पर्वतेषु सुरम्येषु नदीनां पुलिनेषु च ॥
उद्यानेषु विचित्रेषु वनेषूपवनेषु च ॥ २७ ॥
ततो वयसि संप्राप्ते पश्चिमे कालपर्ययात् ।
तदेवात्मीयसत्तीर्थं सेवयामास सादरम् ॥ २८ ॥
ततो देहं परित्यक्त्वा स्वकांतं वीक्ष्य तं मृतम् ॥
तत्र तोये जगामाथ ब्रह्मलोकं पतिव्रता । २९ ॥
एतद्वः सर्वमाख्यातं दीर्घिकाख्यानमुत्तमम् ॥
यस्य संश्रवणादेव नरः पापात्प्रमुच्यते ॥ 6.136.३० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वर क्षेत्रमाहात्म्ये दीर्घिकोत्पत्तिमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३६