स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १३५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

॥ सूत उवाच ॥ ॥
तथान्यापि च तत्रास्ति दीर्घिकाख्या सुशोभना ॥
सरसी लोकविख्याता सर्वपातकनाशनी ॥ १ ॥
यस्यां स्नातो नरः सम्यग्भास्करस्योदयं प्रति ॥
ज्येष्ठशुक्लचतुर्दश्यां मुच्यते सर्वपातकैः ॥२॥
आसीत्पूर्वं द्विजो वीरशर्मनामातिविश्रुतः ॥
वेदविद्याव्रतस्नातो वर्धमाने पुरोत्तमे ॥ ३ ॥
तस्य कन्या समुत्पन्ना कदाचिल्लक्षणाच्च्युता ॥
अतिदीर्घा प्रमाणेन जनहास्यविवर्द्धिनी ॥ ४ ॥
ततः सा यौवनं प्राप्ता तद्रूपापि कुमारिका ॥
न कश्चिद्वरयामास शास्त्रवाक्यमनुस्मरन् ॥ ५ ॥
अतिसंक्षिप्तकेशा या अतिदीर्घातिवामना ॥
उद्वाहयति यः कन्यां पुरुषः काममोहितः ॥ ६ ॥
षण्मासाभ्यंतरे मृत्युं स प्राप्नोति नरो ध्रुवम् ॥
एतस्मात्कारणात्सर्वे तां त्यजंति कुमारिकाम् ॥ ७ ॥
पुरुषा अतिदीर्घत्वयुक्तां वीक्ष्य समंततः ॥
ततो वैराग्यमापन्ना तपस्तेपेऽतिदारुणम्॥ ८ ॥
चांद्रायणानि कृच्छ्राणि तया चीर्णान्यनेकशः ॥
पाराकाणि यथोक्तानि तथा सांतपनानि च ॥ ९ ॥
व्रतं यद्विद्यते किंचिन्नियमः संयमस्तथा ॥
अन्यच्चापि शुभं कृत्यं तत्सर्वं च तया कृतम् ॥ ६.१३५.१० ॥
एवं तस्या व्रतस्थाया जरा सम्यगुपस्थिता ॥
तथापि तेजसो वृद्धिर्ववृधे तपसा कृता ॥ ११ ॥
सा च नित्यं महेन्द्रस्य सभां यात्यतिकौतुकात् ॥
देवर्षीणां मतं श्रोतुं देवतानां विशेषतः ॥ १२ ॥
यदा सा स्वासनं त्यक्त्वा प्रयाति स्वगृहोन्मुखी ॥
तदैवाभ्युक्षणं चक्रुस्तत्र शक्रस्य किंकराः ॥ १३ ॥
तथान्यदिवसे दृष्टं क्रियमाणं तया हि तत् ॥
अभ्युक्षणं स्वकीये च आसने द्विजसत्तमाः ॥ ॥ १४ ॥
ततः कोपपरीतांगी दीर्घिका सा कुमारिका ॥
त्रिशाखां भृकुटीं कृत्वा ततः प्राह पुरंदरम् ॥ १५ ॥
किं दोषं वीक्ष्य मे शक्र प्रोक्षितं चासनं त्वया ॥
परद्वा रकृतं दोषं किं मयैतत्कृतं क्वचित् ॥ १६ ॥
तस्मान्मे पातकं ब्रूहि नो चेच्छापं सुदारुणम् ॥
त्वयि दास्याम्यसंदिग्धं सत्ये नात्मानमालभे ॥ १७ ॥
॥ इन्द्र उवाच ॥ ॥
न ते दीर्घेऽस्तिदोषोत्र कश्चिदेकं विना शुभे ॥
तेनाथ क्रियते चैतदासनस्याभिषेचनम् ॥ ॥ १८ ॥
त्वं कुमार्यपि संप्राप्ता ऋतुकालं विगर्हिता ॥
तेन दोषं त्वमापन्ना नान्यदस्तीह कारणम् ॥ १९ ॥
तस्मादद्यापि त्वां कश्चिदुद्वाहयति तापसः ॥
त्वं तं वरय भर्त्तारं येन गच्छसि मेध्यताम् ॥ ६.१३५.२० ॥
ततश्च लज्जया युक्ता सा तदा दीर्घकन्यका ॥
गत्वा भूमितले तूर्णं वर्धमाने पुरोत्तमे ॥ २१ ॥
ततः फूत्कर्तुमारब्धा चत्वरेषु त्रिकेषु च ॥
उच्छ्रित्य दक्षिणं पाणिं भ्रममाणा इतस्ततः ॥ २२ ॥
यदि कश्चिद्द्विजो जात्या करोति मम सांप्रतम् ॥
पाणिग्राहं तपोऽर्द्धस्य श्रेयो यच्छामि तस्य च ॥२३॥
एवं तां प्रविजल्पन्तीं श्रुत्वा लोका दिवानिशम् ॥
उन्मत्तामिति मन्वाना हास्यं चक्रुः परस्परम् ॥ २४ ॥
ततः कतिपयाहस्य प्रकुर्वंती च दीर्घिका ॥
कुष्ठव्याधिगृहीतेन ब्राह्मणेन परिश्रुता ॥ २५ ॥
ततः प्रोवाच मन्दं स समाहूय सुदुःखिताम् ॥ २६ ॥
अहं त्वामुद्वहाम्यद्य कृत्वा पाणिग्रहं तव ॥
यदि मद्वचनं सर्वं सर्वदैवानुतिष्ठसि ॥ २७ ॥ ॥
॥ कुमारिकोवाच ॥ ॥
करिष्यामि न संदेहस्तव वाक्यं द्विजाधिप ॥
कुरु पाणिग्रहं मेऽद्य विधिदृष्टेन कर्मणा ॥ २८ ॥
॥ सूत उवाच ॥ ॥
ततस्तस्याः कुमार्याः स पाणिं जग्राह दक्षिणम् ॥
गृह्योक्तेन विधानेन देवाग्निगुरुसंनिधौ ॥ २९ ॥
अथ सा प्राह भूयोऽपि विवाहकृतमंगला ॥
आदेशं देहि मे नाथ यं करोमि तवाधुना ॥ ६.१३५.३० ॥
॥ पतिरुवाच ॥ ॥
अष्टषष्टिषु तीर्थेषु स्नातुमिच्छामि सुन्दरि ॥
साहाय्येन त्वदीयेन यदि शक्नोषि तत्कुरु ॥ ३१ ॥
बाढमित्येव सा प्रोच्य ततस्तूर्णं पतिव्रता ॥
तत्प्रमाणं दृढं कृत्वा रम्यं वंशकुटीरकम् ॥ ३२ ॥
मृदु तूलसमायुक्तं ततः प्राह निजं पतिम् ॥
कृतांजलिपुटा भूत्वा प्रहृष्टेनान्तरात्मना ॥ ३३ ॥
एतत्तव कृते रम्यं कृतं वंशकुटीरकम् ॥
मम नाथारुहाशु त्वं येन कृत्वाथ मूर्धनि ॥
नयामि सर्वतीर्थेषु क्षेत्रेषु सुशुभेषु च ॥ ३४ ॥
ततः कुष्ठी प्रहृष्टात्मा शनैरुत्थाय भूतलात् ॥
तया चोद्धृतदेहः सन्सुप्तो वंशकुटीरके ॥ ३५ ॥
ततस्तं मस्तके कृत्वा सर्वतीर्थे यथासुखम् ॥
सर्वक्षेत्रेषु बभ्राम स्नापयन्ती निजं पतिम् ॥ ३६ ॥
यथा यथा स चक्रेऽथ स्नानं तीर्थेषु कुष्ठभाक् ॥
तथातथास्य गात्रेषु तेजो वृद्धिं प्रगच्छति ॥३७॥
ततः क्रमेण सा साध्वी भ्रममाणा महीतले ॥
हाटकेश्वरजे क्षेत्रे संप्राप्ता रजनी मुखे ॥ ३८ ॥
क्लान्ता वैक्लव्यमापन्ना भाराक्रान्ता पतिव्रता ॥
निद्रान्धा निश्वसन्ती च प्रस्खलन्ती पदेपदे ॥ ३९ ॥
अथ तत्र प्रदेशे तु माण्डव्यो मुनिपुंगवः ॥
शूलारोपितगात्रस्तु संतिष्ठति सुदुःखितः ॥ ६.१३५.४० ॥
अथ सा तं समासाद्य शूलं रात्रौ पतिव्रता ॥
निजगात्रेण भारार्त्ता गच्छमाना महासती ॥ ४१ ॥
तया संचालितः सोऽथ मांडव्यो मुनिपुंगवः ॥
परां पीडां समासाद्य ततः प्राह सुदुःखितः ॥४२॥
केनेदं पाप्मना शल्यं ममांतः परिचालितम् ॥
येनाहं दुःखयुक्तोऽपि भूयो दुःखास्पदीकृतः ॥ ४३ ॥
॥ दीर्घिकोवाच ॥ ॥
न मया त्वं महाभाग निद्रोपहतया दृशा ॥
दृष्टस्तेन परिस्पृष्टो ह्यस्पृश्यः पापकृत्तमः ॥ ४४ ॥
न त्वया सदृशश्चान्यः पापात्मास्ति धरातले ॥
शिरस्युद्भूतशूलोऽपि यो मृत्युं नाधिगच्छति ॥ ॥ ४५ ॥
अहं पतिव्रता मूढ वहामि शिरसा धृतम् ॥
तीर्थयात्राकृते कांतं विकलांगं सुवल्लभम् ॥ ४६ ॥
कस्मात्तस्यास्तिरस्कारं मम यच्छसि निष्ठुरम्॥
अज्ञातां मूढबुद्धिः सन्विशेषान्मानुषोद्भवाम् ॥ ४७ ॥
॥ माण्डव्य उवाच ॥ ॥
अहं यादृक्त्वया प्रोक्तस्तादृगेव न संशयः ॥
पापात्मा मूढबुद्धिश्च अस्पृश्यः सर्वदेहिनाम् ॥ ४८ ॥
यदि प्रातस्तवायं च भर्त्ता जीवति निष्ठुरे ॥
येन मे जनिता पीडा प्राणांतकरणी दृढा ॥ ४९ ॥
तस्मादेष तवाभीष्टः स्पृष्टः सूर्यस्य रश्मिभिः ॥
मया शप्तः परित्यागं जीवितस्य करिष्यति ॥ ६.१३५.५० ॥
॥ दीर्घिकोवाच ॥ ॥
यद्येवं मरणं पत्युः प्रभाते संभविष्यति ॥
मदीयस्य ततः प्रातर्नोद्गमिष्यति भास्करः ॥ ५१ ॥
एवमुक्त्वा ततः साथ निषसाद धरातले ॥
भूमौ तद्भर्तृसंयुक्तं मुक्त्वा वंशकुटीरकम् ॥ ५२ ॥
अथ तां प्राह कुष्ठी स पिपासा संप्रवर्तते ॥
तस्मात्तोयं समानेहि पानार्थमतिशीतलम् ॥ ५३ ॥
तथैव सा समाकर्ण्य भर्तुरादेशमुत्सुका ॥
इतस्ततश्च बभ्राम जलार्थं न प्रपश्यति ॥
न च निर्याति दूरं सा त्यक्त्वारण्ये तथाविधम् ॥ ५४ ॥
भर्तारं श्वापदोत्थं च भयं हृदि वितन्वती ॥
उपविश्य ततो भूमौ स्पृष्ट्वा पादौ पतेस्तदा ॥
प्रोवाच दीर्घिका वाक्यं तारवाक्येन दुःखिता ॥ ५५ ॥
पतिव्रता त्वमाचीर्णं यदि सम्यङ्मया स्फुटम् ॥
तेन सत्येन भूपृष्ठान्निर्गच्छतु जलं शुभम् ॥ ५६ ॥
एवमुक्त्वा जघानाथ पादाघातेन मेदिनीम् ॥
कान्तभक्तिं पुरस्कृत्य तस्य जीवितवांछया ॥ ५७ ॥
एतस्मिन्नन्तरे तोयं पादाघातादनन्ततरम् ॥
निष्क्रांतं निर्मलं स्वादु माण्डव्यस्य च पश्यतः ॥ ५८ ॥
ततस्तं स्नापयामास तस्मिंस्तोये श्रमातुरम् ॥
अपाययत्ततः पश्चात्स्वयं स्नात्वा पपौ जलम् ॥ ५९ ॥
एतस्मिन्नंतरे सूर्यः पतिव्रतकृताद्भयात् ॥
नाभ्युदेति समुत्पन्नस्ततः कालात्ययो महान् ॥ ६.१३५.६० ॥
अथ रात्रिं समालोक्य दीर्घां ये कामुका जनाः ॥
ते सर्वे तुष्टिमापन्नास्तथा च कुल स्त्रियः ॥ ६१ ॥
कौशिका राक्षसाश्चापि चोरा जाराश्च ये नराः ॥
ते सर्वे प्रोचुः संहृष्टाः समालिंग्य परस्परम् ॥ ६२॥
अद्यास्माकं विधिस्तुष्टो भगवान्मन्मथस्तथा ॥
येन दीर्घा कृता रात्रिर्नाशं नीतश्च भास्करः ॥ ६३ ॥
ये पुनर्ब्राह्मणाः शांता यज्ञकर्मसमुद्यताः ॥
ते सर्वे दुःखमापन्नाः सूर्योदयविनाकृताः ॥ ६४ ॥
न कश्चिद्यजनं चक्रे याजनं न च सद्द्विजः ॥
न श्राद्धं न च संकल्पं न स्वाध्यायं कथंचन ॥ ॥ ६५ ॥
न स्नानं न च दानं च लोकयात्रां विशेषतः ॥
व्यवहारं न कृत्यं च किंचिद्धर्मसमुद्भवम् ॥ ६६ ॥
एतस्मिन्नन्तरे देवाः सर्वे शक्रपुरोगमाः ।
परं दौःस्थ्यं समापन्ना यज्ञभागविवर्जिताः ॥ ६७ ॥
ततो भास्करमासाद्य ऊचुर्दुःखसमन्विताः ॥
कस्मान्नोद्गमनं देव प्रकरोषि दिवाकर ॥ ॥ ६८ ॥
एतत्त्वया विना सर्वं जगद्व्याकुलतां गतम् ॥ ६९ ॥
तस्माल्लोकहितार्थाय त्वमुद्गच्छ यथापुरा ॥
अग्निष्टोमादिका यज्ञा वर्तंते येन भूतले ॥ ६.१३५.७० ॥
॥ सूर्य उवाच । ॥
पतिव्रतासमादेशात्त्यक्तश्चाभ्युदयो मया ॥
तस्माद्गत्वा सुराः सर्वे तां वदंतु कृते मम ॥ ७१ ॥
येन तद्वाक्यमासाद्य प्रवर्त्तामि यथासुखम् ॥
अन्यथा मां शपेत्क्रुद्धा नूनं सा हि पतिव्रता ॥ ७२ ॥
एवं सा तपसा युक्ता प्रोत्कृष्टं हि सुरोत्तमाः ॥
पतिव्रतात्वमाधत्ते तथान्यदपरं महत् ॥ ७३ ॥
कस्तस्या वचनं शक्तः कर्तुमेवमतोऽन्यथा ॥
एतस्मात्कारणाद्भीतो नोद्गच्छामि कथंचन॥ ७४ ॥
न तत्क्रतुसहस्रेण यजंतः प्राप्नुयुः फलम् ॥
पतिव्रतात्वमापन्ना यत्स्त्री विंदति केवलम् ॥ ७९ ॥
ततस्ते विबुधाः सर्वे गत्वा तत्क्षेत्रमुत्तमम् ॥
प्रोचुस्तां दीर्घिकां वाक्यैर्मृदुभिः पुरतः स्थिताः ॥ ७६ ॥
त्वया पतिव्रते सूर्यो यन्निषिद्धो न तत्कृतम् ॥
शुभं यतो हताः सर्वा भूतले शोभनाः क्रियाः ॥७७॥
तस्मादुद्गच्छतु प्राज्ञे त्वद्वाक्यात्तीक्ष्णदीधितिः ॥
यज्ञक्रिया विशेषेण येन वर्तंति भूतले ॥ ७८ ॥
॥ पतिव्रतोवाच ॥
अयं च मे पतिः सद्यः प्राणेभ्योऽपि च यः प्रियः ॥
सोऽभ्येति निधनं देवाः प्रोद्गते रविमंडले ॥ ७९ ॥
शप्तश्चानेन दुष्टेन मांडव्येन सुपाप्मना ॥
कार्यं विनापि निर्दिष्टस्तद्ब्रूयां भास्करं कथम् ॥ ६.१३५.८० ॥
उदयार्थं न मे यज्ञैः कार्यं किंचिन्न चापरैः ॥
श्राद्धदानादिकैः कृत्यैः संजातैर्दर्यितं विना ॥ ८१ ॥
॥ सूत उवाच ॥ ॥
ततस्ते विबुधाः सर्वे समालोक्य परस्परम् ॥
चिरकालं सुदुःखार्तास्तामूचुर्विनयान्विताः ॥ ८२ ॥
उद्गच्छतु रविर्भद्रे तवायं दयितः पतिः ॥
प्रयातु निधनं सद्यो भूयादेष मुनीश्वरः ॥ ८३ ॥
पुनर्जीवापयिष्यामो वयमेनमपि द्रुतम् ॥
मृत्युमार्गमनुप्राप्तं त्वत्कृते पतिवत्सले ॥ ८४ ॥
पञ्चविंशतिवर्षीयं कामदेवमिवापरम् ॥
त्वं द्रक्ष्यसि सुदीप्तांगं सर्वलक्षणलक्षितम् ॥ ८५ ॥
भूत्वा पंचदशाब्दीया पद्मपत्रायतेक्षणा ॥
मर्त्यलोके सुखं सम्यक्त्वेच्छया साधयिष्यसि ॥ ८६ ॥
एषोऽपि मुनिशार्दूलो विपाप्मा सांप्रतं शुभे ॥
शूलवेधेन निर्मुक्तः सुखभागी भवत्क्लम॥ ॥ ८७ ॥
॥ सूत उवाच ॥ ॥
बाढमित्येव च प्रोक्ते तया स द्विजसत्तमाः ॥
उद्गतो भगवान्सूर्यस्तत्क्षणादेव वेगतः ॥ ८८ ॥
ततः सूर्यांशुसंस्पृष्टः स मृतश्च सुकुष्ठभाक् ॥
विबुधानां करैः स्पृष्टः पुनरेव समुत्थितः ॥ ८९ ॥
पंचविंशतिवर्षीयः कामदेव इवापरः ॥
संस्मरन्पूर्विकां जातिं सर्वा हर्ष समन्वितः ॥ ६.१३५.९० ॥
दीर्घिकापि परिस्पृष्टा स्वयं देवेन शंभुना ।
संजाता यौवनोपेता दिव्यलक्षणलक्षिता ॥ ९१ ॥
पद्मपत्रेक्षणा रम्या चन्द्रबिम्बसमानना ॥
मध्ये क्षामा सुगौरांगी पीनोन्नतपयोधरा ॥ ९२ ॥
ततस्तं मुनिशार्दूलं शूलाग्रादवतार्य च ॥
प्रोचुश्च विबुधश्रेष्ठाः सादरं हर्षसंयुताः ॥९३॥
एतत्सत्यं कृतं वाक्यं मुने तव यथोदितम्॥
मृतोऽपि ब्राह्मणः कुष्ठी संस्पृष्टो रविरश्मिभिः॥९४॥
पुनरुत्थापितोऽस्माभिः कृतश्च तरुणः पुनः॥
अनया भार्यया सार्धं तस्मात्त्वं स्वाश्रमं व्रज ॥९५॥
नास्माकं दर्शनं व्यर्थं कथंचिदपि जायते ॥
तस्मात्प्रार्थय यच्चित्ते तव नित्यं समाश्रितम् ॥९६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पतिव्रतावरलाभोनाम पञ्चत्रिंशदुत्तरशतत मोऽध्यायः ॥ १३५ ॥ ॥ छ ॥ ॥