स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १३४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
यदा दक्षेण क्रुद्धेन पुरा शप्तो हिमद्युतिः ॥
तत्सर्वं भवता प्रोक्तं सोमनाथकथानकम्॥ १ ॥
सांप्रतं वद कामस्य यथा कुष्ठोऽभवत्पुरा ॥
येन दोषेण शापश्च केन तस्य नियोजितः ॥ २ ।
शिलाखंडा च या देवी तथा सौभाग्यकूपिका ॥
यथा तत्र समुत्पन्ना तथाऽस्माकं प्रकीर्तय ॥ ३ ॥
॥ सूत उवाच ॥ ॥
पुरासीद्ब्राह्मणो नाम हारीत इति विश्रुतः ॥
स तपस्तत्र संतेपे वानप्रस्थाश्रमे वसन् ॥ ४ ॥
तस्य भार्याऽभवत्साध्वी रूपौदार्यसमन्विता ॥
त्रैलोक्यसुन्दरी साक्षाल्लक्ष्मीरिव मधुद्विषः ॥ ५ ॥
ख्याता पूणकलानाम सर्वैः समुदितागुणैः ॥
तां दृष्ट्वा पद्मजोऽप्याशु कामस्य वशगोऽभवत् ॥ ६ ॥
कदाचिदपि स प्राप्तस्तस्मिन्क्षेत्रे मनोभवः ॥
सह रत्या तथा प्रीत्या कामेश्वरदिदृक्षया ॥ ७ ॥
एतस्मिन्नंतरे सापि स्नानार्थं तत्र चागता ॥
कृत्वा वस्त्रपरित्यागं विवेश जलाशयम् ॥ ८ ॥
अथ तां कामदेवोपि समालोक्य शुभाननाम्॥
आत्मीयैरपि निर्विद्धो हृदये पुष्पसायकैः ॥ ९ ॥
ततो रतिं परित्यक्त्वा प्रीतिं च शरपीडितः॥
विजनं कंचिदासाद्य प्रसुप्तः स तरोरधः ॥ ६.१३४.१० ॥
गात्रैः पुलकितैः सर्वैर्निःश्वासान्निःश्वसन्मुहुः ॥
अग्निवर्णान्सुदीर्घांश्च बाष्प पूर्णविलोचनः ॥ ११ ॥
तिष्ठन्स दर्शने तस्या एकदृष्ट्या व्यलोकयत्॥
योगीव सुसमाधिस्थो ध्यायंस्तद्ब्रह्म संस्थितम् ॥ १२ ॥
सापि कामं समालोक्य सानुरागं पुरः स्थितम् ॥
जृंभाभंगकृतास्यं च वेपमानशरीरकम् ॥ १३ ॥
सापि तद्बाणनिर्भिन्ना साभिलाषा बभूव ह ॥
कामं प्रति विशेषेण तस्य रूपेण मोहिता ॥ १४ ॥
अथ तस्माज्जलात्कृच्छ्राद्विनिष्क्रम्य शुचिस्मिता ॥
तीरोपांतं समासाद्य स्थिता तद्दृष्टिगोचरे ॥ १५ ॥
ततः कामः समुत्थाय शनैस्तदंतिकं ययौ ॥
कृतांजलिपुटो भूत्वा ततः प्रोवाच सादरम् ॥ १६ ॥
का त्वमत्र विशालाक्षि प्राप्ता स्नातुं जलाशये ॥
मम नाशाय चार्वंगि तस्माच्छृणु वचो मम ॥ १७ ॥
अहं पुष्पशरो लोके प्रसिद्धश्चारुहासिनि ॥
विडंबनां मया नीता देवा अपि निजैः शरैः ॥ १८ ॥
मद्बाणेनाहतो रुद्रः स्वशरीरे नितंबिनीम् ॥
अर्द्धेन धारयामास त्यक्त्वा लज्जां सुदूरतः ॥ १९ ॥
ब्रह्मा मच्छरनिर्भिन्नः स्वसुतां चकमे ततः ॥
जनयामास तान्विप्रान्वालखिल्यांस्तथाविधान् ॥ २० ॥
अहिल्यां चकमे शक्रो गौतमस्य प्रियां सतीम् ॥
मद्बाणैः पीडितोऽतीव स्वर्गादेत्य धरातलम् ॥ २१ ॥
एवं देवा अपि क्षुण्णा मच्छरैर्ये महत्तराः ॥
किं पुनर्मानवाः सुभ्रूः कृमिप्रायाः सुचंचलाः ॥ २२ ॥
आकीटांतं जगत्सर्वमाब्रह्मांतं तथैव च ॥
विडंबनां परां प्राप्तं मच्छरैश्चारुहासिनि ॥ २३ ॥
अहं पुनस्त्वया भीरु नीतोऽवस्थामिमां शुभे ॥ २४ ॥
तस्माद्देहि महाभागे ममाद्य रतदक्षिणाम् ॥
यावन्न यांति संत्यज्य मम प्राणाः कलेवरात् ॥ ॥ २५ ॥
॥ सूत उवाच ॥ ॥
सापि तद्वचनं श्रुत्वा पतिव्रतपरायणा ॥
हन्यमाना विशेषेण तद्बाणैर्हृदये भृशम् ॥ २६ ॥
अनभिज्ञा च सा साध्वी कामधर्मस्य केवलम् ॥
तापसैः सह संवृद्धा नान्यं जानाति किंचन ॥ २७ ॥
वक्तुं तद्विषये यच्च प्रोच्यते कामपीडितैः ॥
अधोमुखाऽलिखद्भूमिमंगुष्ठेन स्थिता चिरम् ॥ २८ ॥
एतस्मिन्नन्तरे भानुः प्राप्तश्चास्तं गिरिं प्रति ॥
विहारसमये प्राप्त आहिताग्निर्निवेशने ॥ २९ ॥
हारीतोऽपि चिरं वीक्ष्य तन्मार्गं चाकृताशनः ॥
ततः स चिंतयामास कस्मात्सा चात्र नागता ॥ ३० ॥
स्नात्वा तीर्थवरे तस्मिन्दृष्ट्वा तां चन्द्रकूपिकाम्॥
कामेश्वरं च देवेशं कामदं सुखदं नृणाम् ॥ ३१ ॥
ततः शिष्यसमायुक्तो वीक्षमाण इतस्ततः ॥
तं देशं समनुप्राप्तो यत्र तौ द्वावपि स्थितौ ॥ ३२ ॥
आलपन्बहुधा कामो हन्यमानो निजैः शरैः ॥
सापि चैव विशेषेण व्रीडयाऽधोमुखी स्थिता ॥ ३३ ॥
स गुल्मांतरितः सर्वं तच्छ्रुत्वा कामजल्पितम् ॥
तस्याश्च तद्गतं भावं ततः कोपादुवाच सः ॥ ३४ ॥
यस्मात्पाप त्वया पत्नी ममैवं शरपीडिता ॥
अनभिज्ञा तथा साध्वी पतिधर्मपरायणा ॥
कुष्ठव्याधिसमायुक्तस्तस्माद्विप्रियदर्शनः ॥ ३५ ॥
त्वं भविष्यसि पापात्मन्मुक्तो दारैः स्वकैरपि ॥
साऽपि चैव विशेषेण व्रीडयाऽधोमुखी स्थिता ॥ ३६ ॥
एषापि च शिलाप्राया भविष्यति विचेतना ॥
त्वां दृष्ट्वा या सरागाऽभून्निजधर्मबहिष्कृता ॥ ३७ ॥
ततः प्रसादयामास तं कामः प्रणिपत्य च ॥
न ज्ञातेयं मया विप्र तव भार्येति सुन्दरी ॥ ३८ ॥
तेन प्रोक्ता विरुद्धानि वाक्यानि विविधानि च ॥
एतस्या नास्ति दोषोऽत्र मद्बाणैः पीडिता भृशम् ॥ ३९
सानुरागा परं जाता नोक्तं किंचिद्वचो मुने ॥
तस्मान्नार्हसि शापं त्वं दातुमस्याः कथंचन ॥ ४० ॥
ममास्त्येषो ऽपराधोऽत्र तस्मान्मे निग्रहं कुरु ॥
भूयोऽपि ब्राह्मणश्रेष्ठ अस्याः शापसमुद्भवम् ॥ ४१ ॥
अपि रुद्रादयो देवा मद्बाणेभ्यो द्विजोत्तम ॥
सोढुं शक्ता न ते यस्मात्तत्कथं स्यादियं शिला ॥ ४२ ॥
तथात्र त्रिविधं पापं प्रवदंति मनीषिणः ॥
मानसं वाचिकं चैव कर्मजं च तृतीयकम्॥
तदस्माकं द्विधा जातमेकं चास्या मुनीश्वर । ४३ ॥
भार्यायास्ते सुरूपायास्तस्मात्संपूर्णनिग्रहम् ॥
करिष्यसि न ते भीतिः काचिदस्ति परत्रजा ॥ ॥ ४४ ॥
मनस्तापाद्व्रजेत्पापं मानसं वाचिकं च यत् ॥
तस्य प्रसादनेनैव यस्योपरि विजल्पितम् ॥ ४५ ॥
प्रायश्चित्तैर्यथोक्तैश्च कर्मजं पातकं व्रजेत् ।
धर्मशास्त्रैः परिप्रोक्तं यतः सर्वैर्महामुने ॥ ४६ ॥
॥ हारीत उवाच ॥ ॥
अन्यत्र विषये तस्याः पातकं कामदेवते ॥
एतस्य तव धर्मस्य प्राधान्यं मनसः स्मृतम् ॥ ४७ ॥
तस्मादेवंविधा चेयं सदा स्थास्यति चाधम ॥
किं पुनः कुरु यत्कृत्यं नाहं वक्ष्यामि किंचन ॥ ४८ ॥
प्रथमं मनसा सर्वं चिंत्यते तदनंतरम् ॥
ततः प्रजल्पते वाचा क्रियते कर्मणा ततः ॥ ४९ ॥
प्रमाणं हि मनस्तस्मात्सर्वकृत्येषु सर्वदा ॥
एतस्मात्कारणात्पूर्णो मयाऽस्या निग्रहः कृतः ॥ ५० ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा मुनिश्रेष्ठो हारीतः स्वाश्रमं ययौ ॥
सापि पूर्णकला जाता शिलारूपा च तत्क्षणात् ॥ ५१ ॥
कामदेवोऽपि कुष्ठेन ग्रस्तो रौद्रेण च द्विजाः ॥
शीर्णनासांघ्रिपाणिश्च नेत्राणामप्रियोऽभवत्॥ ५२ ॥
अथ कामे निरुत्साहे संजाते द्विजसत्तमाः ॥
व्याधिग्रस्ते जगत्यस्मिन्सृष्टिरोधो व्यजायत ॥५३॥
केवलं क्षीयते लोको नैव वृद्धिं प्रगच्छति ॥
स्वेदजा येऽपि जीवाः स्युस्तेपि याताः परिक्षयम् ॥ ५४ ॥
एतस्मिन्नंतरे देवाः सर्वे चिंतासमाकुलाः ॥
किमिदं क्षीयते लोको जलस्थैः स्थलजैः सह ॥५५॥
न दृश्यते क्वचिद्बालः कोऽपि कश्चित्कथंचन ॥
न च गर्भवती नारी कच्चित्क्षेमं स्मरस्य च ॥ ॥५६॥
ततस्तं व्याधिना ग्रस्तं ज्ञात्वात्र क्षेत्रसंश्रयम् ॥
आजग्मुस्त्वरिताः सर्वे व्याकुलेनांतरात्मना॥५७॥
कामेश्वरपुरस्थं च तं दृष्ट्वा कुसुमायुधम्॥
अत्यंतविकृताकारं चिंतयानं महेश्वरम् ॥ ५८ ॥
ततः प्रोचुः सुदुःखार्ताः किमिदं कुसुमायुध ॥
निरुत्साहः समुत्पन्नः कुष्ठव्याधिसमाकुलः ॥५९॥
ततश्चाधोमुखो जातो लज्जया परया वृतः ॥
प्रोवाच शापजं सर्वं हारीतस्य विचेष्टितम् ॥ ६.१३४.६० ॥
ततस्ते विबुधाः प्रोचुः पातकं यद्गिरा कृतम् ॥३
तत्तस्याराधनात्सर्वं संक्षयं यात्यसंशयम् ॥ ६१ ॥
तस्मादेतां शिलारूपां त्वमाराधय चित्तज ॥
येन कुष्ठः क्षयं याति ततस्तेजोऽभिवर्धते ॥ ६२ ॥
जगति स्यान्महासृष्टिर्देवकृत्यं कृतं भवेत् ॥
न तेऽस्ति कायजं पापं यतो मुक्त्वा प्रवाचिकम् ॥ ६३ ॥
अत्र कुण्डे त्वदीयेऽन्यो यः स्नात्वा श्रद्धयान्वितः ॥
एनां पापविनिर्मुक्तां शिलां वै मानवः स्पृशेत् ॥ ६४ ॥
कुष्ठव्याधिसमोपेतः कायोत्थेनापि कर्मणा ॥
सोऽपि व्याधिविनिर्मुक्तो भविष्यति गतज्वरः ॥ ६५ ॥
एतत्सौभाग्यकूपं च लोके ख्यातं जलाशयम् ॥
भविष्यति न संदेहः सर्वरोगक्षयावहम् ॥ ६६ ॥
दद्रूणि दुर्विभूतानि तथान्याश्च विचर्चिकाः ॥
अत्र स्नातस्य यास्यंति दृष्ट्वैतां सद्य एव हि ॥ ६७ ॥
एवमुक्त्वाथ ते देवाः प्रजग्मुस्त्रिदशालयम् ॥
कामदेवोऽपि तत्रस्थस्तस्याः पूजामथ व्यधात् ॥ ६८ ॥
ततश्च समतिक्रांते मासमात्रे द्विजोत्तमाः ॥
तादृग्रूपः स संजातो यादृगासीत्पुरा स्मरः ॥ ६९ ॥
ततश्चायतनं तस्याः कृत्वा श्रद्धासमन्वितः ॥
जगाम वांछितं देशं सृष्ट्यर्थं यत्नमास्थितः ॥ ६.१३४.७० ॥
सापि नम्रमुखी तादृक्तेन शप्ता तथैव च ॥
संजाता खण्डकाकारा तेन खण्डशिला स्मृता ॥ ७१ ॥
यस्तां पूजयते भक्त्या त्रयोदश्यां तथैव च ॥
नापवादो भवेत्तस्य परदारसमुद्भवः ॥ ७२ ॥
कामिन्याश्च विशेषेण प्राहैतच्छंकरात्मजः ॥
कार्तिकेयो द्विजश्रेष्ठाः सत्यमेतन्मयोदितम् ॥ ७३ ॥
तथा कामेश्वरं देवं कामदेवप्रतिष्ठितम् ॥
त्रयोदश्यां समाराध्य सर्वान्कामानवाप्नुयात् ॥ ७४ ॥
रतिप्रीतिसमायुक्तः स्थितस्तत्र स्मरस्तथा ॥
मूर्तो ब्राह्मणशार्दूलाः श्रेष्ठं प्रासादमाश्रितः । ७५ ।
विरूपो दुर्भगो यो वा त्रयोदश्यां समाहितः ॥
यस्तं कुंकुमजैः पुष्पैः संपूजयति मानवः ॥ ७६ ॥
स सौभाग्यसमायुक्तो रूपवांश्च प्रजायते ॥
या नारी पतिना त्यक्ता सपत्नीजनसंवृता ॥ ७७ ॥
तं देवं सुकलत्राढ्यं तथैव परिपूजयेत् ॥
त्रयोदश्यां द्विजश्रेष्ठाः केसरैः कुंकुमोद्भवैः ॥ ७८ ॥
सा सौभाग्यवती विप्रा जायते च प्रजावती ॥
धनधान्यसमृद्धा च दुःखशोकविवर्जिता ॥
दोषैः सर्वैर्विनिर्मुक्ता शंसिता धरणीतले ॥ ७९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये खंडशिलासौभाग्यकूपिकोत्पत्तिमाहात्म्यवर्णनं नाम चतुस्त्रिंशदुत्तरशततमोध्यायः ॥ १३४ ॥