सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १३०

विकिस्रोतः तः

॥ऋषय ऊचुः ॥ ॥
याज्ञवल्क्यसुतः सूत यस्त्वया परिकीर्तितः ॥
कतमा तस्य माताभूत्सर्वं नो ब्रूहि विस्तरात् ॥ १ ॥
॥ सूत उवाच ॥ ॥
तस्य भार्याद्वयं श्रेष्ठमासीत्सर्वगुणान्वितम्॥
एका गुणवती तस्य मैत्रेयीति प्रकीर्तिता ॥ २ ॥
ज्येष्ठा चान्याथ कल्याणी ख्याता कात्यायनीति च ॥
यस्याः कात्यायनः पुत्रो वेदार्थानां प्रजल्पकः ॥ ३ ॥
ताभ्यां कुण्डद्वयं तत्र संतिष्ठति सुशोभनम् ॥
यत्र स्नाता नरा यांति लोकांस्तांश्च महोदयान् ॥४ ॥
कात्यायन्याश्च तीर्थस्य शांडिल्यास्तीर्थमुत्तमम्॥
पतिव्रतात्वयुक्तायास्तथान्यत्तत्र संस्थितम् ॥ ५ ॥
यत्र कात्यायनी प्राप्ता शांडिल्या प्रतिबोधिता ॥
वैराग्यं परमं प्राप्ता सपत्नीदुःखदुःखिता ॥ ६ ॥
तत्र या कुरुते स्नानं तृतीयायां समाहिता ॥
नारी मार्गसिते पक्षे सा सौभाग्यवती भवेत् ॥
अथ दौर्भाग्यसंपन्ना काणा वृद्धाऽथ वामना ॥
अभीष्टा जायते सा च तत्प्रभावाद्द्विजोत्तमाः ॥ ८ ॥
॥ ऋषय ऊचुः ॥ ॥
कीदृक्सपत्निजं दुःखं कात्यायन्या उपस्थितम् ॥
उपदेशः कथं लब्धः शांडिल्याः सूत कीदृशः ॥ ९ ॥
कात्यायन्या समाचक्ष्व कौतुकं नो व्यवस्थितम् ॥
सामान्यो भविता नैष उपदेशस्तयेरितः ॥ ६.१३०.१० ॥
॥ सूत उवाच ॥ ॥
मैत्रेय्या सह संसक्तं याज्ञवल्क्यं विलोक्य सा ॥
कात्यायनी सुदुःखार्ता संजाता चेर्ष्यया ततः ॥ ११ ॥
सा न स्नाति न भुंक्ते च न हास्यं कुरुते क्वचित् ॥
केवलं बाष्पपूर्णाक्षी निःश्वासाढ्या बभूव ह ॥ १२ ॥
ततः कदाचिदेवाथ फलार्थं निर्गता बहिः ॥
अपश्यच्छांडिलीनाम पतिपार्श्वे व्यवस्थिताम्॥ १३ ॥
कृतांजलिपुटां साध्वी विनयावनता स्थिताम् ॥
सोऽपि तस्या मुखासक्तः सानुरागः प्रसन्नदृक् ॥ १४ ॥
गुणदोषोद्भवां वार्तामापृच्छ्याकथयत्तथा ॥
सा च तौ दंपती दृष्ट्वा संहृष्टावितरेतरम् ॥ १५ ॥
चित्ते स्वे चिंतयामास सुधन्येयं तपस्विनी ॥
यस्याः पतिर्मुखासक्तो गुणदोषप्रजल्पकः ॥
सानुरागश्च सुस्निग्धो नान्यां नारीं बिभर्त्ति च ॥ १६ ॥
एवं संचित्य सा साध्वी भूयोभूयो द्विजोत्तमाः ॥
जगाम स्वाश्रमं पश्चान्निंद्यमाना स्वकं वपुः ॥ १७ ॥
ततः कदाचिदेकांते स्थितां तां शांडिलीं द्विजाः ॥
बहिर्गते भर्तरि च तस्याः कार्येण केनचित् ॥ १८ ॥
कात्यायनी समागम्य ततः पप्रच्छ सादरम् ॥
वद कल्याणि मे कंचिदुपदेशं महोदयम् ॥ १९ ॥
मुखप्रेक्षः सदा भर्त्ता येन स्त्रीणां प्रजायते ॥
नापमानं करोत्येव दुरुक्तवचनैः क्वचित् ॥ ॥ ६.१३०.२० ॥
नान्यां संगच्छते नारीं चित्तेनापि कथंचन ॥
अहं भर्तुः कृतैर्दुःखैरतीव परिपीडिता ॥
सपत्नीजैर्विशेषेण तस्मान्मे त्वं प्रकीर्तय ॥ ॥ २१ ॥
यथा ते वशगो भर्त्ता संजातः कामदः सदा ॥
मनसापि न संदध्यान्नारीमेष कथंचन ॥ २२ ॥
॥ शांडिल्युवाच ॥ ॥
शृणु साध्वि प्रवक्ष्यामि तवाहं गुह्यमुत्तमम् ॥
यथा ममाभवद्वश्यो मुखप्रेक्षस्तथा पतिः ॥ २३ ॥
मम तातः कुरुक्षेत्रे शांडिल्यो मुनिसत्तमः ॥
वानप्रस्थाश्रमेऽतिष्ठत्पूर्वे वयसि संस्थितः ॥ २४ ॥
तत्रैकाहं समुत्पन्ना कन्या तस्य महात्मनः ॥
वृद्धिं गता क्रमेणाथ तस्मिन्नेव तपोवने ॥ २५ ॥
करोमि तत्र शुश्रूषां होमकाले यथोचिताम् ॥
नीवारादीनि धान्यानि नित्यं चैवानयाम्यहम् ॥ २६ ॥
कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ॥
आश्रमे मम तातस्य सुश्रांतः समुपागतः ॥ २७ ॥
तातादेशात्ततस्तत्र मया स विश्रमः कृतः ॥
पादशौचादिभिः कृत्यैः स्नानाद्यैश्च तथापरैः ॥ २८ ॥
ततो भुक्तावसानेऽथ निविष्टः मुखसंस्थित॥
मम मात्रा परिपृष्टो विनयाद्वरवर्णिनि ॥ २९ ॥
एकेयं कन्यकास्माकं जाते वयसि संस्थिते ॥
संजाता मुनिशार्दूल प्राणेभ्योऽपि गरीयसी ॥ ६.१३०.३० ॥
तदस्याः कीर्तय क्षिप्रं सुखोपायं सुखोदयम् ॥
व्रतं वा नियमं वा त्वं होमं वा मन्त्रमेव वा ॥ ३१ ॥
येन चीर्णेन भर्त्ता स्यात्सुसौम्यः सद्गुणान्वितः ॥
प्रियंवदो मुखप्रेक्षः परनारीपराङ्मुखः ॥ ३२ ॥
तस्यास्तद्वचनं श्रुत्वा स मुनिस्तदनंतरम् ॥
चिरं ध्यात्वा वचः प्राह प्रसन्नवदनस्ततः ॥ ३३ ॥
हाटकेश्वरजे क्षेत्रे पञ्चपिंडा व्यवस्थिता ॥
गौरी गौर्या स्वयं तत्र स्थापिता परमेश्वरी ॥ ३४ ॥
तामेषा वत्सरं यावच्छ्रद्धया परया युता ॥
सदा पूजयतु प्रीत्या तृतीयायां विशेषतः ॥ ३५ ॥
ततो वर्षांतमासाद्य संप्राप्स्यति यथोचितम् ॥
भर्त्तारं नात्र संदेहो यादृग्रूपं यथोचितम् ॥ ३६
तत्र पूर्वं गता गौरी परित्यज्य महेश्वरम् ॥
गंगेर्ष्यया महाभागे ज्ञात्वा क्षेत्रं सुसिद्धिदम् ॥ ३७ ॥
ततः सा चिंतयामास कां देवीं पूजयाम्यहम् ॥
सौभाग्यार्थं यतोऽन्या मां पूजयंति सुरस्त्रियः ॥ ३८ ॥
तस्मादहं प्रभक्त्याढ्या स्वयमात्मानमेव च ॥
आत्मनैव कृतोत्साहा पूजयिष्यामि सिद्धये ॥ ॥ ३९ ॥
ततः प्राणाग्निहोत्रोत्थैर्मंत्रैराथर्वणैः शुभैः ॥
मृत्पिंडान्पंच संयोज्य ह्येकस्थाने समाहिता ॥ ६.१३०.४० ॥
पृथ्वीमपश्च तेजश्च वायुमाकाशमेव च ।
तेषु संयोजयामास मृत्पिंडेषु निधाय सा ॥ ४१ ॥
महद्भूतानि चैतानि पञ्च देवी यतव्रता ॥
ततः संपूजयामास पुष्पधूपानुलेपनैः ॥ ४२ ॥
अथ तां तत्र विज्ञाय तपःस्थां गिरजां भवः ॥
तन्मंत्राकृष्टचित्तश्च सत्वरं समुपागतः ॥ ४३ ॥
प्रोवाच च प्रहृष्टात्मा कस्मात्त्वमिह चागता ॥
मां मुक्त्वा दोषनिर्मुक्तं मुखप्रेक्षं सदा रतम् ॥ ४४ ॥
तस्मादागच्छ कैलासं वृषारूढा मया सह ॥
अथवा कारणं ब्रूहि यदि दोषोऽस्ति मे क्वचित् ॥ ॥ ४५ ॥
॥ देव्युवाच ॥ ॥
त्वं मूर्ध्ना जाह्नवीं धत्से मूर्तां पदजलात्मिकाम् ॥
तस्मान्नाहं गमिष्यामि मंदिरं ते कथंचन ॥ ४६ ॥
यावन्न त्यजसि व्यक्तं मम सापत्न्यतां गताम् ॥
तथा नित्यं प्रणामं त्वं करोषि वृषभध्वज ॥ ४७ ॥
प्रत्यक्षमपि मे नित्यं संध्यायाश्च न लज्जसे ॥
तस्मादेतत्परित्यज्य कर्म लज्जाकरं परम् ॥ ४८ ॥
आकारयसि मां देव तत्स्याद्यदि मतं मम ॥
अन्यथाहं न यास्यामि तव हर्म्ये कथंचन ॥
एतच्छ्रुत्वा यदिष्टं ते कुरुष्व वृषभध्वज ॥ ४९ ॥
॥ देव उवाच । ॥
नाहं सौख्येन तां गंगां धारयामि सुरेश्वरि ॥ ६.१३०.५० ॥
भगीरथेन भूपेन प्रार्थितो ज्ञाति कारणात् ॥
दिव्यं वर्षसहस्रं तु तपस्तप्त्वा सुदारुणम् ॥ ५१ ॥
येन नो याति पातालं गंगा स्वर्गपरिच्युता ॥
तस्मात्त्वं देव मद्वाक्यात्स्वमूर्ध्ना वह जाह्नवीम् ॥५२॥
मया तस्य प्रतिज्ञातं धारयिष्याम्यसंशयम् ॥
आकाशाज्जाह्नवीवेगं पतंतं धरणीतले ॥ ५३ ॥
नो चेद्व्रजेत पातालं यदत्र विषयेस्थि?म्॥
ततोऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु ॥५४॥
एषा गंगा वरारोहे मम मूर्ध्नो विनिर्गता ॥
हिमवंतं नगं भित्त्वा द्विधा जाता ततः परम्॥५५॥
ततः सिंध्वभिधाना सा पश्चिमं सागरं गता॥
शतानि नव संगृह्य नदीनां परमेश्वरि ॥५६॥
तथा गंगाभिधाना च सैव प्राक्सागरं गता ॥
तावतीश्च समादाय नदीः पर्वतनन्दिनि ॥५७॥
एवमष्टादशैतानि नदीनां पर्वतात्मजे ॥
शतानि सागरे यांति तेन नित्यं स तिष्ठति ॥५८॥
सततं शोष्यमाणोऽपि वाडवेन दिवानिशम् ॥
समुद्रसलिलं मेघाः समादाय ततः परम् ॥५९॥
मर्त्यलोके प्रवर्षंति ततः सस्यं प्रजायते॥
सस्येन जीवते लोकः प्रभवन्ति मखास्तथा ॥
मखांशेन सुराः सर्वे तृप्तिं यांति ततः परम्॥ ६.१३०.६० ॥
एतस्मात्कारणान्मूर्ध्नि देवि गंगां दधाम्यहम् ॥
न स्नेहात्कामतो नैव जगद्येन प्रवर्तते ॥ ६१ ॥
अथवा सन्त्यजाम्येनां यदि मूर्ध्नः कथंचन ॥
तद्दूरं वेगतो भित्त्वा पृथ्वीं याति रसातलम् ॥ ६२ ॥
ततः शोषं व्रजेदाशु समुद्रः सरितां पतिः ॥
और्वेण पीयमानोऽत्र ततो वृष्टिर्न जायते ॥
वृष्ट्यभावाज्जगन्नाशः सत्यमेतन्मयोदितम् ॥ ६३ ॥
एवं गंगाकृते प्रोक्तं मया तव सुरेश्वरि ॥
शृणु सन्ध्याकृतेऽन्यच्च येन तां प्रणमाम्यहम्॥ ६४ ॥
इति श्रीस्कान्देमहापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्व रक्षेत्रमाहात्म्ये पंचपिण्डागौर्युत्पत्तिवर्णनंनाम त्रिंशदुत्तरशततमोऽध्यायः ॥ १३० ॥ ॥ छ ॥