स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १२८

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
सत्यसन्धोपि हृष्टात्मा सतां दृष्ट्वा सुखान्विताम्॥
अभीष्टपतिना युक्तां कृतकृत्यो बभूव ह ॥ १ ॥
ततस्तस्यैव लिंगस्य दक्षिणां मूर्तिमाश्रितः ॥
दृढं पद्मासनं कृत्वा सम्यग्ध्यानपरायणः ॥ २ ॥
आत्मानमात्मनैवाथ ब्रह्मद्वारेण संस्थितः ॥
ततो निःसारयामास पुलकेन समन्वितः ॥ ३ ॥
अथ ते ब्राह्मणास्तस्य चमत्कारपुरोद्भवाः ॥
देवता दर्शनार्थाय प्राप्ता दृष्ट्वा कलेवरम् ॥ ४ ॥
अप्रियं तेजसा हीनं मृतमस्पृश्यतां गतम् ॥
लिंगस्य नातिदूरस्थं दाह्यार्थं यत्नमास्थिताः ॥ ५ ॥
यावद्गुर्वीं चितां कृत्वा तमन्वेष्टुं समुद्यताः ॥
तावन्नष्टं शवं तच्च ज्ञायते नैव कुत्रचित् ॥ ६ ॥
ततश्च विस्मयाविष्टास्तं प्रशंसासमन्वितैः ॥
वचनैर्बहुशो भूयो विकथ्य च मुहुर्मुहुः ॥ ७ ॥
ततस्तस्योत्थलिंगस्य सर्वं पूजादिकं च यत् ॥
सर्वे निरूपयामासुः सप्तविंशतिमध्यतः ॥ ८ ॥
लिंगानां तद्भवेन्नित्यं सत्यसंधस्य भूपतेः ॥
कामदं भक्तजंतूनां सर्वपातकनाशनम् ॥ ९ ॥
॥ ऋषय ऊचुः ॥ ॥
चमत्कारनरेंद्रस्य वंशे क्षीणे महामते ॥
आनर्त्ताधिपतिः कोऽन्यस्तत्र राजा बभूव ह ॥ ६.१२८.१० ॥
सूत उवाच ॥ ॥
बृहद्बले हते भूपे संग्रामे द्विजसत्तमाः ।
पुत्रबंधुसमायुक्ताः सर्व लोकाः समाययुः ॥ ११ ॥
यत्रस्थः स महीपालः सत्यसंधस्तपोन्वितः ॥
शोकोद्विग्नास्ततः प्राहुस्तं भूपं रहसि स्थितम् ॥ १२ ॥
क्षीणोऽयं तावको वंशो न कश्चिद्विद्यते यतः ॥
दायादोऽपि कथं पृथ्वी संप्रतीयं भविष्यति ॥ १३ ॥
अराजके नृपश्रेष्ठ मात्स्यो न्यायः प्रवर्तते ॥
राष्ट्रे चैव पुरे चैव ग्रामे चैव विशेषतः ॥ १४ ॥
परदाररता ये च ये च तस्करवृत्तयः ।
सर्वे राजभयाद्राजन्मर्यादां पालयंति वै ॥ १५ ॥
तस्मात्त्वं तप उत्सृज्य राज्यं पूर्वक्रमागतम् ॥
कुरु राज्यं तथा दारान्पुत्रार्थं प्राप्य मा चिरम् ॥ १६ ॥
॥ राजोवाच ॥ ॥
संन्यस्तोऽहं द्विजश्रेष्ठा न राज्यं कर्तुमुत्सहे ॥
न सुतानां न दाराणां संग्रहं च कथंचन ॥ १७ ॥
तत्पुत्रार्थं प्रवक्ष्यामि युष्माकं स्वामिनः कृते ॥
उपायं येन राजा स्यादानर्त्तो लोकपालकः ॥ १८ ।
जामदग्न्येन रामेण यदा क्षत्रं निपातितम् ॥
गर्भस्थमपि कार्त्स्न्येन कोपोपहतचेतसा ॥ १९ ॥
ततः क्षत्रियभार्याः प्रागृतुस्नानात्समाययुः ॥
ब्राह्मणान्पुत्रजन्मार्थं न कामार्थं कथंचन ॥ ६.१२८.२० ॥
ततः पुत्राः समुत्पन्नास्तेजोवीर्यसमन्विताः ॥
क्षेत्रजा भूमिपालानां संजाताश्च महीक्षितः ॥२१॥
तस्माद्बृहद्बलस्यैता भार्यास्तिष्ठंति या जनाः ॥
ब्राह्मणांस्ता उपागम्य ऋतुस्नाता यथोचितान् ॥ २२ ॥
लभिष्यंति च पुत्रांस्तास्तेभ्यः क्षत्रियपुंगवान् ॥
ये भूमिं पालयिष्यंति पालयिष्यंति च प्रजाः ॥ २३ ॥
तथाऽत्रास्ति शुभं कुण्डं वासिष्ठं पुत्रजन्मदम् ॥
यत्र स्नाता ऋतौ नारी सद्यो गर्भवती भवेत् ॥
अमोघरेताः कांता च स्नानादत्र प्रजायते ॥ २४ ॥
ये पूर्वं क्षत्रिया जाता ब्राह्मणैः क्षत्रिणीषु च ॥
ते सर्वे तत्प्रभावेन संजाता नात्र संशयः ॥ २५ ॥
ययायया द्विजो यश्च क्षत्रिण्याऽभूद्वृतः पुरा ॥
तया सह समागत्य स्नातं मन्त्रपुरस्कृतम् ॥ २६ ॥
सकृन्मैधुनसंसर्गात्ततस्तीर्थप्रभावतः ॥
सर्वासां यत्सुता जाता दुहिता न कथंचन ॥ २७ ॥
ये केचित्पुत्रदा मंत्राश्चातुश्चरणासंभवाः ।
ते सर्वेऽत्र वसिष्ठेन प्रयुक्ताः क्षत्त्रमिच्छता ॥ २८ ।
दंपत्योः स्नानमात्रेण जातेऽत्र स्यात्सुपुत्रकः॥
तस्मात्सुपुत्रदंनाम कुण्डमेतन्निगद्यते ॥ २९ ॥
तस्माद्भार्याः समस्तास्ता बृहद्बलसमुद्भवाः ॥
अत्र स्नानं प्रकुर्वंतु यथोक्तविधिना जनाः ॥ ६.१२८.३० ॥
नैव किंचिदसत्यं स्यान्न च निंदाकरं तथा ॥
श्रूयते च यतः श्लोकः पूर्वाचार्यैरुदाहृतः ॥ ३१ ॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्त्रमश्मनो लोहमुच्छ्रितम्॥
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ३२ ॥
तच्छ्रुत्वा जनाः सर्वे सचिवानां वचोखिलम् ॥
तदाचख्युर्द्रुतं गत्वा सत्यसंधस्य भूपतेः ॥ ३३ ॥
ततस्ताः सर्वशो दारा ब्राह्मणानतिसुन्दरान् ॥
ऋतुस्नाताः समाजग्मुर्नृपपत्न्यः सुहर्षिताः ॥ ३४ ॥
यत्र तत्पुत्रदं तीर्थं वसिष्ठेन विनिर्मितम् ॥
तत्र स्नात्वा सकृत्संगं समासाद्य द्विजोद्भवम् ॥ ३५ ॥
सर्वास्ताः पुत्रवत्यश्च संजाता द्विजसत्तमाः ॥
आसीत्तस्य नरेंद्रस्य शतं पंचभिरन्वितम् ॥ ३६ ॥
तासां समभवद्विप्राः शतं पंचाधिकं तथा ॥ ३७ ॥
प्रत्येकं वरपुत्राणां वंशवृद्धिकरं परम् ॥
आनंदजननं सम्यक्सर्वेषां राष्ट्रवासिनाम् ॥ ३८ ॥
तत्र श्रेष्ठोऽभवत्पुत्रो य आनर्तपतिर्भुवि ॥
अटोनाम सुविख्यातः सर्वशत्रुनिबर्हणः ॥ ३९ ॥
अटेश्वरइति ख्यातो येन देवोऽत्र निर्मितः ॥
सुभक्त्या येन दृष्टेन वंशोच्छित्तिर्न जायते ॥ ६.१२८.४० ॥
॥ ऋषय ऊचुः ॥ ॥
कस्मात्तस्य कृतं नाम एतच्चाऽट इति स्मृतम् ॥
अन्वयेन परित्यक्तं तस्मात्कीर्तय सूतज ॥४१॥
सचिवैर्ब्राह्मणैर्वापि तस्यैतन्नाम निर्मितम् ॥
मात्रा वा तत्समाचक्ष्व परं कौतूहलं हि नः ॥ ४२ ॥
॥ सूत उवाच ॥ ॥
न मात्रा तत्कृतं नाम न विप्रैः सचिवैर्नृप ॥
तत्कृतं देवदूतेन व्योमस्थेन द्विजोत्तमाः ॥ ४३ ॥
यथा तथा प्रवक्ष्यामि श्रोतव्यं सुसमाहितैः ॥
यया स भूपतिर्जातो दशार्णाधिपतेः सुता ॥ ४९ ॥
सा रूपयौवनोपेता रूपाढ्यं प्राप्य सद्द्विजम् ॥
प्रस्थिता स्नातुकामाथ पुत्रतीर्थे मृगेक्षणा ॥ ४५ ॥
सहिता तेन विप्रेण कंदर्पप्रतिमेन च ॥
अथ ताभ्यां महान्रामो मिथः संदर्शनात्स्थितः ॥ ४६ ॥
तादृङ्मात्रं सुकृच्छ्रेण प्राप्तं तीर्थं सुतप्रदम् ॥
ततः स्नात्वा जले तस्मिन्निष्क्रांतौ तौ सुकामुकौ ॥४७॥
व्रजमानौ च मार्गेऽपि कामधर्ममुपागतौ ॥
अत्यौत्सुक्यात्सुसंहृष्टौ लज्जां त्यक्त्वा सुदूरतः ॥ ४८ ॥
निंदमानस्य लोकस्य विच्छेदवचनैस्तदा ॥
वीर्योत्सर्गेऽथ संजाते यावदुत्तिष्ठते द्विजः ॥ ४९ ॥
तावदाकाशगा वाणी सहसा देवनिर्मिता ॥
अटताराजमार्गेण विप्रेणानेन वै यतः ॥ ६.१२८.५० ॥
उत्पादितस्तु पुत्रोऽयमौत्सुक्याद्ब्राह्मणेन तु ॥
अटाख्यो भूपतिस्तस्माल्लोके ख्यातो भविष्यति ॥ ५१ ॥
दीर्घायुर्बहुपुत्रश्च शत्रुंपक्षक्षयावहः ॥
एतस्मात्कारणाद्विप्रा अटाख्यः स बभूव ह ॥ ५२ ॥
स्ववंशोद्धरचंद्रोऽत्र वांछितार्थप्रदोऽर्थिनाम् ॥
तेनैतत्क्षेत्रमासाद्य स्थापितं लिंगमुत्तमम् ॥
स्वनाम्ना ब्राह्मणश्रेष्ठाः सर्वदेष्टप्रदं नृणाम् ॥ ५३ ॥
यस्तन्माघचतुर्दश्यां पूजयेच्छ्रद्धयान्वितः ॥
न तस्य जायते किंचिद्दुःखं संतानसंभवम् ॥ ५४ ॥
अपि वर्षशतानारी स्नात्वा कुण्डे सुतप्रदे ॥
अटेश्वरं ततः पश्येच्छिवभक्तिपरायणा ॥ ५५ ॥
सद्यः पुत्रमवाप्नोति वंशवृद्धिकरं परम् ॥ तत्प्रसादान्न संदेहः कार्तिकेय वचो यथा ॥ ५६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽटेश्वरोत्पत्तिमाहात्म्यवर्णनंनामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥ १२८ ॥