स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १२२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः ॥
यथा स निहतो देव्या महिषाख्यो दनूत्तमः ॥ १ ॥
सांप्रतं कीर्तयिष्यामि कथां पातकनाशिनीम् ॥
केदारसंभवां पुण्यां तां शृणुध्वं समाहिताः ॥ २ ॥
॥ ऋषय ऊचुः ॥ ।
केदारः श्रूयते सूत गंगाद्वारे हिमाचले ॥
स कथं चेह संप्राप्तः सर्वं विस्तरतो वद ॥ ३ ॥
॥ सूत उवाच ॥ ॥
एतत्सत्यं गिरौ तस्मिन्स्वयंभूः संस्थितः प्रभुः ॥
परं तत्र वसेद्देवो यावन्मासाष्टकं द्विजाः ॥ ४ ।
यावद्घर्मश्च वर्षा च तावत्तत्र वसेत्प्रभुः ॥
शीतकाले पुनश्चात्र क्षेत्रे संतिष्ठते सदा ॥ ॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
किं तत्कार्यं वसेद्येन क्षेत्रे मासचतुष्टयम् ॥
हिमाचले यथैवाष्टौ सूतपुत्र वदस्व नः ॥ ६ ॥
॥ सूत उवाच ॥ ॥
पूर्वं स्वायंभुवस्यादौ मनोर्दैत्यो महाबलः ॥
हिरण्याक्षो महातेजास्तपोवीर्यसमन्वितः ॥ ७ ॥
तैर्व्याप्तं जगदेतद्धि निरस्य त्रिदशाधिपम् ॥
यज्ञ भागाश्चदेवानां हृता वीर्यप्रभावतः ॥ ८ ॥
अथ शक्रः सुरैः सार्धं गंगाद्वारं समाश्रितः ॥
तपस्तेपे सुदुःखार्तो राज्यश्रीपरिवर्जितः ॥ ९ ॥
तस्यैवं तप्यमानस्य तपस्तीव्रं महात्मनः ॥
माहिषं रूपमास्थाय निश्चक्राम धरातलात् ॥ ६.१२२.१० ॥
स्वयमेव महादेवस्ततः शक्रमुवाच ह ॥
केदारयामि मे शीघ्रं ब्रूहि सर्वं सुरोत्तम ॥
दैत्यानामथ सर्वेषां रूपेणानेन वासव ॥ ११ ॥
॥ इन्द्र उवाच ॥ ॥
हिरण्याक्षो महादैत्यः सुबाहुर्वक्र कन्धरः ॥
त्रिशृंगो लोहिताक्षश्च पंचैतान्दारय प्रभो ॥
हतैरेतैर्हतं सर्वं दानवानामसंशयम् ॥ १२ ॥
किमन्यैः कृपणैर्ध्वस्तैर्यैः किंचिन्नात्र सिध्यति ॥
तस्य तद्वचनश्रुत्वा भगवांस्तूर्णमभ्यगात् ॥
यत्र दानवमुख्योऽसौ हिरण्याक्षो महाबलः ॥ १३ ॥
अथ तं दूरतो दृष्ट्वा महिषं पर्वतोपमम् ॥
आयातं रौद्ररूपेण दानवाः सर्वतश्च ते ॥ १४ ॥
ततो जघ्नुश्च पाषाणैर्लगुडैश्च तथापरे ॥
क्ष्वेडितास्फोटितांश्चक्रुस्तथान्ये बलगर्विताः ॥ ॥ १५ ॥
अथवमन्य तान्देवः प्रहारं लीलया ददौ ॥
यत्रास्ते दानवेन्द्रोऽसौ चतुर्भिः सचिवैः सह ॥ १६ ॥।
ततः शस्त्रं समुद्यम्य यावद्धावति सम्मुखः ॥
तावच्छृंगप्रहारेण सोनयद्यमसादनम् ॥ १७ ॥
हत्वा तं सचिवान्पश्चात्सुबाहुप्रमुखांश्च तान् ॥
जघान हन्यमानोऽपि समन्ताद्दानवैः परैः ॥ १८ ॥
न तस्य लगते क्वापि शस्त्रं गात्रे कथंचन ॥
यत्नतोऽपि विसृष्टं च लब्धलक्षैः प्रहारिभिः ॥ १९ ॥
एवं पंच प्रधानास्तान्हत्वा दैत्यान्महेश्वरः ॥
भूयो जगाम तं देशं यत्र शक्रो व्यवस्थितः ॥
अब्रवीच्च प्रहष्टात्मा ततः शक्रं तपोन्वितम् ॥ ६.१२२.२० ॥
मया ते निहताः पंच दानवा ये त्वयेरिताः ॥
तस्मात्त्रैलोक्यराज्यं स्वं भूय एव समाचर ॥२॥।
मत्तोऽन्यदपि देवेश वरं प्रार्थय वांछितम् ॥
कैलासशिखरं येन गच्छामि त्वरयाऽन्वितः ॥ २२ ॥
॥ इन्द्र उवाच ॥ ॥
अनेनैव हि रूपेण तिष्ठ त्वं चात्र शंकर ॥
त्रैलोक्यरक्षणार्थाय धर्माय च शिवाय च ॥ २३ ॥
॥ श्रीभगवानुवाच ॥ ॥
एतद्रूपं मया शक्र कृतं तस्य वधाय वै ॥
अवध्यः सर्वभूतानां यतोन्येषां मया हतः ॥ २४ ॥
तस्मादत्रैव ते वाक्यात्स्थास्यामि सुर सत्तम ॥
अनेनैव तु रूपेण मोक्षदः सर्वदेहिनाम् ॥ २५ ॥
एवमुक्त्वा विरूपाक्षश्चक्रे कुंडं ततः परम् ॥
शुद्धस्फटिकसंकाशं सुस्वादुक्षीरवत्प्रियम् ॥ ॥ २६ ॥
ततः प्रोवाच देवेन्द्रं मेघगंभीरया गिरा ॥
शृण्वतां सर्वदेवानां भगवांस्त्रिपुरातकः ॥ २७ ॥
यो मां दृष्ट्वा शुचिर्भूत्वा कुंडमेतत्प्रपश्यति ॥
त्रिः पीत्वा वामसव्येन द्वाभ्यां चैव ततो जलम् ॥ २८ ॥
कराभ्यां स पुमान्नूनं तारयेच्च कुलत्रयम् ॥
अपि पापसमाचारं नरकेऽपि व्यव स्थितम् ॥ २९४
वामेन मातृकं पक्षं दक्षिणेनाथ पैतृकम् ॥
उभाभ्यामथ चात्मानं कराभ्यां मद्वचो यथा ॥ ६.१२२.३० ॥
॥ इन्द्र उवाच ॥ ॥
अहमागत्य नित्यं त्वां स्वर्गाद्वृषभवाहन ॥
अत्रस्थं पूजयिष्यामि पास्यामि च तथोदकम् ॥ ३१ ॥
के दारयामि यत्प्रोक्तं त्वया महिषरूपिणा ॥
केदार इति नाम्ना त्वं ततः ख्यातो भविष्यसि ॥ ३२ ॥
॥ श्रीभगवानुवाच ॥ ॥
यद्येवं कुरुषे शक्र ततो दैत्यभयं न ते ॥
भविष्यति परं तेजो गात्रे संपत्स्यतेऽखिलम् ॥ ३३ ॥
एवमुक्तः सहस्राक्षस्ततः प्रासादमुत्तमम् ॥
तदर्थं निर्मयामास साध्वालोकं मनोहरम् ॥ ३४ ॥ (साध्वालोकं- दर्शनीयतमम्)
ततः प्रणम्य तं देवमनुमन्त्र्य ततः परम् ॥
जगाम निजमावासं मेरुशृंगाग्रसंस्थितम् ॥ ३५ ॥
ततश्चागत्य नित्यं स स्वर्गाद्देवस्य शूलिनः ॥
केदारस्य सुभक्त्याढ्यां पूजां चक्रे समाहितः ॥ ३६ ॥
मन्त्रोदकं च त्रिः पीत्वा ययौ ब्राह्मणसत्तमाः ॥
कस्यचित्त्वथ कालस्य यावत्तत्र समाययौ ॥ ३७ ॥
तावद्धिमेन तत्सर्वं गिरेः शृंगं प्रपूरितम् ॥
तच्च कुण्डं स देवश्च प्रासादेन समन्वितः ॥ ३८ ॥
ततो दुःखपरीतात्मा भक्त्या परमया युतः ॥
तां दिशं प्रणिपत्योच्चैर्जगाम निजमंदिरम् ॥ ३९ ॥
एवमागच्छतस्तस्य गतं मासचतुष्टयम् ॥
अपश्यतो महादेवं दिदृक्षागतचेतसः ॥ ६.१२२.४० ॥
ततः प्राप्ते पुनर्विप्रा घर्मकाले हिमालये ॥
संयातो दृक्पथं देवः स तथारूपसंस्थितः ॥ ४१ ॥
ततः पूजां विधायोच्चैश्चातुर्मास्यसमुद्भवाम् ॥
गीतवाद्यादिकं चक्रे तत्पुरः श्रद्धयान्वितः ॥ ४२ ॥
अथ देवः समालोक्य तां श्रद्धां तस्य गोपतेः ॥
प्रोवाच दर्शनं गत्वा भगवांस्त्रिपुरांतकः ॥ ४३ ॥
परितुष्टोऽस्मि देवेश भक्त्या चानन्ययाऽनया ॥
तस्मात्प्रार्थय दास्यामि यं कामं हृदिसंस्थितम् ॥४४॥
॥ शक्र उवाच ॥ ॥
तव प्रसादात्संजातं ममैश्वर्यमनुत्तमम्॥
यत्किंचित्त्रिषु लोकेषु तत्सर्वं गृहसंस्थितम्॥४५॥
तस्माद्यदि प्रसादं मे करोषि वृषभध्वज ॥
वरं वा यच्छसि प्रीतस्तत्कुरुष्व वचो मम ॥ ४६ ॥
पर्वतोऽयं भवेद्गम्यो मासानष्टौ सुरेश्वर॥
यावन्मीनस्थितो भानुः प्रगच्छति श्रुतं मया ॥ ४७ ॥
ततः परमगम्यश्च हिमपूरेण संवृतः ॥
यदा स्याच्चतुरो मासान्यावत्कुम्भगतो रविः ॥ ४८ ॥
संजायतेऽप्यगम्यश्च ममापि त्रिपुरांतक ॥
किं पुनः स्वल्पसत्त्वानां नरादीनां सुरेश्वर ॥ ४९ ॥
तस्मात्स्वर्गेऽथ पाताले मर्त्ये वा त्रिदशेश्वर ॥
कुरुष्वानेनरूपेण स्थितिं मासचतुष्टयम् ॥
येन न स्यात्प्रतिज्ञाया हानिर्मम सुरेश्वर ॥ ६.१२२.५० ॥
॥ सूत उवाच ॥ ॥
ततो देवश्चिरं ध्यात्वा प्रोवाच बलसूदनम् ॥
परं संतोषमापन्नो मेघनिर्घोषनिःस्वनम् ॥ ॥ ५१ ॥
आनर्तविषये क्षेत्रं हाटकेश्वरसंज्ञितम्॥
अस्मदीयं सहस्राक्ष विद्यते धरणीतले ॥ ५२ ॥
तत्राहं वृश्चिकस्थेऽर्के सदा स्थास्यामि वासव॥
यावत्कुम्भस्य पर्यंतं तव वाक्यादसंशयम्॥ ५३ ॥
तस्मात्तत्र द्रुतं गत्वा कृत्वा प्रासादमुत्तमम् ॥
मम रूपं प्रतिष्ठाप्य कुरुपूजा यथोचिताम् ॥
येन तत्र निजं तेजो धारयामि तवार्थतः ॥ ५४ ॥
॥ सूत उवाच ॥ ॥
एतच्छ्रुत्वा सहस्राक्षो देवदेवस्य शूलिनः ॥
गत्वा तत्र ततश्चक्रे यद्देवेनेरितं वचः ॥ ५५ ॥
प्रासादं निर्मयित्वाथ रूपं संस्थाप्य शूलिनः ॥
कुण्डं चक्रे च तद्रूपं स्वच्छोदकसमावृतम्॥५६॥
ततश्चाराधयामास पुष्पधूपानुलेपनैः ॥
स्नात्वा कुण्डेऽपिबत्तोयं त्रिःकृत्वा च यथापुरा ॥ ५७ ॥
एवं स भगवांस्तत्र शक्रेणाराधितः पुरा ॥
समायातोऽत्र विप्रेंद्राः सुरम्यात्तु हिमाचलात् ॥ ५८ ॥
यस्तमाराधयेत्सम्यक्सदा मासचतुष्टयम् ॥
हिमपातोद्भवे मर्त्यः स शिवाय प्रपद्यते ॥ ५९ ॥
शेषकालेऽपि यः पूजां करोत्येव सुभक्तितः ॥
स पापं क्षालयेत्प्राज्ञ आजन्ममरणांतिकम् ॥ ६.१२२.६० ॥
तत्र गीतं प्रशंसंति नृत्यं चैव पृथग्विधम् ॥
देवस्य पुरतः प्राज्ञाः सर्वशास्त्रविशारदाः ॥ ६१ ॥
अत्र श्लोकः पुरा गीतो नारदेन सुरर्षिणा ॥
तद्वोऽहं कीर्तयिष्यामि श्रूयतां ब्राह्मणोत्तमाः ॥ ६२ ॥
केदारे सलिलं पीत्वा गयापिडं प्रदाय च ॥
ब्रह्मज्ञानमथासाद्य पुनर्जन्म न विद्यते ॥ ६३ ॥
एतद्वः सर्वमाख्यातं केदारस्य च संभवम् ॥
आख्यानं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ ६४ ॥
यश्चैतत्छृणुयात्सम्यक्पठेद्वा तस्य चाग्रतः ॥
श्रावयेद्वापि वा विप्राः सर्वपातकनानम् ॥
केदारस्य स पापौघैर्मुच्यते तत्क्षणान्नरः ॥ ६५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये केदारोत्पत्तिमाहात्म्यवर्णनंनामद्वाविंशत्युत्तरशततमोऽध्यायः ॥ १२२ ॥ ॥ छ ॥