स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १२१

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
देवानां तद्वचः श्रुत्वा ततः सा परमेश्वरी ॥
प्रोवाच वाहनं किंचिद्देवा यच्छतु मे द्रुतम् ॥॥।
ततः सिंहं ददौ गौरी यानार्थं विकृताननम् ॥
तमारुह्य प्रतस्थे सा ततो विंध्यं नगं प्रति ॥ २ ॥
तस्यैकं शृंगमास्थाय रम्यं श्रेष्ठद्रुमान्वितम् ॥
फलपुष्पसमाकीर्णं लतामंडपमंडितम् ॥ ३ ॥
ततस्तपोऽकरोत्साध्वी तीव्रव्रतपरायणा ॥
संयम्येन्द्रियवर्गं स्वं ध्यायमाना महेश्वरम् ॥ ४ ॥
यथायथा तपोवृद्धिस्तस्याः सञ्जायते द्विजाः ॥
तथा रूपं च कांतिश्च शरीरे प्रतिवर्धते॥ ५ ॥
एतस्मिन्नंतरे प्राप्तास्तत्र दैत्येशकिंकराः ॥
ते तां दृष्ट्वा व्रतोपेतामत्यद्भुतवपुर्ध राम् ॥
गत्वा प्रोचुः स्वनाथस्य महिषस्य दुरात्मनः ॥ ६ ॥
॥ चारा ऊचुः ॥ ॥
भ्रममाणैर्धरापृष्ठे दृष्टाऽपूर्वा कुमारिका ॥
विन्ध्याचलेऽद्य चास्माभिर्भुजैर्द्वादशभिर्युता ॥
नानाशस्त्रधरैर्दीप्तैश्चर्मच्छादितगात्रका ॥७॥
न देवी न च गन्धर्वी नासुरी नागकन्यका ॥
तादृग्रूपा पुराऽस्माभिः काचिद्दृष्टा नितम्बिनी। ॥ ८ ॥
न विद्मो यन्निमित्तं सा तपश्चक्रे यशस्विनी ॥
स्वर्गकामाऽर्थकामा वा पतिकामाथ वा विभो॥ ९ ॥
॥ सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा महिषो दानवाधिपः ॥
कामदेव वशं प्राप्तः श्रवणादपि तत्क्षणात् ॥ ६.१२१.१० ॥
ततस्तानग्रतः कृत्वा सैन्येन महता न्वितः ॥
जगाम कौतुकाविष्टो यत्रास्ते सा तु कन्यका ॥ ११ ॥
यथा मृत्युकृते मन्दः शृगालः सिंहवल्लभाम् ॥
वने सुप्तां सुविश्वस्तां सर्वथाप्य कुतोभयाम्॥१२॥
तस्याः संदर्शनादेव ततः कामशरैर्हतः॥
स दानवप्रधानश्च तत्क्षणादेव सद्द्विजाः॥१३॥
अथ प्राह प्रियं वाक्यमेकाकी तत्पुरःस्थितः॥
धृत्वा दूरतरेसैन्यं तस्या रूपेण मोहितः॥१४॥
विरुद्धं यौवनस्यैतद्व्रतं ते चारुहासिनि।
तस्मादेतत्परित्यक्त्वा त्रैलोक्यस्वामिनी भव ॥ १५ ॥
अहं हि महिषो नाम दानवेन्द्रो यदि श्रुतः ॥
मया येन सहस्राक्षो द्वन्द्वयुद्धे विनिर्जितः ॥ १६ ॥
त्रेलोक्यं सकलं मह्यं सांप्रतं च वशे स्थितम् ॥
तस्मात्त्वं भव सुश्रोणि भार्या मम सुवल्लभा ॥।७॥
सहस्रं मम भार्याणामन्यदस्ति सुशोभनम्॥
तत्सर्वं तेऽद्य भृत्यत्वं सांप्रतं प्रक रिष्यति॥।८॥
अहं चापि तवात्यंतं दासभावं समाश्रितः॥
वर्तयिष्यामि सुश्रोणि प्रदत्त्वाऽशेषसंपदः॥।९॥
॥सूत उवाच ॥॥
तस्य तद्वचनं श्रुत्वा ततः सा परमेश्वरी ॥
प्रोवाच भर्त्समाना तं कोपसंरक्तलोचना॥६.१२१.२॥।
धिग्धिक्पापसमाचार कुमारव्रतधारिणीम् ॥
कामोपहतचित्तात्मा किं मामित्थं प्रभा षसे ॥२॥।
अहं तव वधार्थाय निर्मिता विबुधोत्तमैः ॥
तस्मात्त्वां नाशयिष्यामि स्मरेष्टं यद्धृदि स्थितम्॥२२॥
॥ महिष उवाच ॥ ॥
यद्येवं तद्वरारोहे युक्ता स्याच्च कुमारिका ॥
प्रार्थनीया भवेदत्र सर्वेषां प्राणिनां यतः ॥२३॥
स्वर्गार्थं क्रियते धर्मस्तपश्च वरवर्णिनि ॥
येन भोगाः प्रभुञ्जंति ये दिव्या ये च मानुषाः ॥ २४ ॥
तस्माद्देहि ममात्मानं गांधर्वेण सुशोभने ॥
विवाहेन यतोऽन्येषां स प्रधानः प्रकीर्तितः ॥२५॥
एवं प्रवदतस्तस्य सा देवी क्रोधमूर्छिता ॥
तद्वक्त्रांतं समुद्दिश्य शरं चिक्षेप स क्षणात् ॥२६॥
विवेश वदनं तस्य वल्मीकं पन्नगो यथा ॥
अथ तैर्मार्गगणैर्विद्धः स वक्त्रांतान्नदंस्ततः ॥२७॥
सुस्राव रुधिरं भूरि गैरिकं पर्वतो यथा ॥
ततः कोपपरीतात्मा निवृत्त्याथ शनैः शनैः ॥२८॥
स्वसैन्यं त्वरितो भेजे कामेन च वशी कृतः॥
प्रोवाच सैनिकान्सर्वान्दुष्टा स्त्रीयं प्रगृह्यताम् ॥
यथा न त्यजति प्राणान्प्रहारैर्जर्जरीकृता॥२९॥
एषा मम न सन्देहः प्रिया भार्या भविष्यति॥
यदि नो शस्त्रपातेन पंचत्वमुपयास्यति ॥ ६.१२१.३० ॥
एवमुक्तास्तदा तेन दानवा युद्धदुर्मदाः ॥
दुद्रुवुः सम्मुखास्तस्या मुञ्चन्तो निशिताञ्छरान्।३॥।
एतस्मिन्नंतरे देवी सा दृष्ट्वा तानुपस्थितान् ॥
युद्धाय कृतसंकल्पांस्तर्जतश्च मुहुर्मुहुः। ३२ ॥
ततस्तु लीलया देवी मुक्ता तीक्ष्णान्महाशरान् ॥
तान्सर्वांस्ताडयामास सर्वमर्मसु तत्क्षणात् ॥ ३३ ॥
अथ तीक्ष्णैः शरैर्दैत्या निहता दानवास्तथा ॥
एके पंचत्वमापन्ना गताश्चान्य इतस्ततः॥३४॥
ततः सैन्यं समालोक्य तद्भग्नं च तया रणे ॥
कोपाविष्टस्ततो दैत्यः स्वयं तां समुपाद्रवत् ॥ ३५ ॥
यच्छञ्छृंगप्रहारांश्च तस्याः शतसहस्रशः ॥
गर्जितं विदधच्चोग्रं शारदाभ्रसमं मुहुः ॥ ३६ ॥
एतस्मिन्नंतरे देवी साट्टहासकृतस्वना ॥
त्रैलोक्यविवरं सर्वं यच्छब्देन प्रपूरितम् । ३७ ॥
एवं तस्या हसंत्याश्च वक्त्रान्तादथ निर्ययुः॥
पुलिंदाः शबरा म्लेछास्तथान्येऽरण्यवासिनः॥३८॥
शकाश्च यवनाश्चैव शतशश्तु वपुर्धरा?॥
वर्म स्थगितगात्राश्च यमदूता इवापरे॥३९॥
ते प्रोचुर्देवि नो ब्रूहि येन सृष्टा वयं क्षितौ॥
कार्येण क्रियते कृत्स्नं येन शीघ्रं वरानने॥६.१२१.४॥।
॥ देव्युवाच ॥ ॥
एतानस्य सुदुष्टस्य सैनिकान्बलगर्वितान् ॥
सूदयध्वं द्रुतं वाक्यादस्मदीयाद्यथेच्छया ॥ ४१ ॥
अथ ते तद्वचः श्रुत्वा वल्गंतोऽसिधनुर्द्धराः ॥
दैतेयबलमुद्दिश्य दुद्रुवुर्वेगमाश्रिताः ॥ ४२ ॥
ततस्तेषां महद्युद्धं मिथो जज्ञे सुदारुणम् ।
नात्मीयं न परं तत्र केनचिज्ज्ञा यते क्वचित् ॥ ४३ ॥
अथ ते दानवाः सर्वे योधैर्देवीसमुद्भवैः ॥
भग्ना व्यापादिताश्चान्ये प्रहारैर्जर्जरीकृताः ॥ ४४ ॥
ततो भग्नं बलं दृष्ट्वा महिषः क्रोधमूर्छितः ॥
तामुवाच क्रुधा देवीं वचनैः परुषाक्षरैः ॥ ४५ ॥
आः पापे स्त्रीति मत्वाद्य न हतासि मया युधि ॥
तस्मात्पश्य प्रहारं मे तत्त्वं बुध्यसि नान्यथा ॥ ४६ ॥
एवमुक्त्वा विशेषेण प्रहारान्स विचिक्षिपे ॥
विषाणाभ्यां महावेगो भर्त्सयानो मुहुर्मुहुः ॥ ४७ ॥
ततोऽभ्याशगतं दृष्ट्वा सा देवी दानवं च तम् ॥
आरुरोहाथ वेगेन पृष्ठिदेशेन कोपतः ॥ ४८ ॥
ततश्चुक्रोश दैत्योऽसौ व्योममार्गं समाश्रितः ॥
पृष्ठ्यास्तलेन निर्भिन्नो रुधिरौघपरिप्लुतः ॥ ४९ ॥
एतस्मिन्नंतरे सिंहः स तस्या ज्योतिसंभवः ॥
जग्राह पश्चिमे भागे दंष्ट्राग्रैर्निशितैः क्रुधा ॥ ६.१२१.५० ॥
ततो निश्चलतां प्राप्तः पादाक्रांतश्च दानवः॥
अकरोद्भैरवान्नादान्न शक्तश्चलितुं पदम् ॥ ५१ ॥
एतस्मिन्नंतरे प्राप्ताः सर्वे देवाः सवासवाः ॥
व्योमस्थास्तां तदा प्रोचुर्देवीं हर्षसमन्विताः ॥ ५२ ॥
एतस्य शिरसश्छेदं शीघ्रं कुरु सुरेश्वरि ॥
खङ्गेनानेन तीक्ष्णेन यावन्नो याति चान्यतः ॥ ५३ ॥
सा श्रुत्वा वचनं तेषां देवी कोपसमन्विता ॥
खड्गं व्यापारयामास कंठे तस्यातिपीवरे ॥ ५४ ॥
स तेन खड्गघातेन कंठः पीनोऽपि निष्ठुरः॥
द्विधा जज्ञेऽथ दैत्यस्य दधत्तुष्टिं दिवौकसाम् ॥ ५५ ॥
द्वादशार्कप्रतीकाशो वक्त्रांतश्चर्मखड्गधृक् ॥
भर्त्सयंस्तां महादेवीं खड्गोद्यतकरां तदा ॥
खड्गं व्यापारयन्गात्रे तस्या बालार्कसन्निभम् ॥ ५६ ॥
ततः केशेषु चाधाय यावत्तस्यापि चिक्षिपे ।
प्रहारं गात्रनाशाय तावदूचे स दानवः ॥ ५७ ॥
॥ दानव उवाच ॥ ॥
जय देवि जयाचिंत्ये जय सर्वसुरेश्वरि ॥
जय सर्वगते देवि जय सर्वजनप्रिये ॥ ५८ ॥
जय कामप्रदे नित्यं जय त्रैलोक्यसुन्दरि ॥
जय त्रैलोक्य रक्षार्थमुद्यते ह्यकुतोभये ॥ ५९ ॥
जय देवि कृतानंदे जय दैत्यविनाशिनि ॥
जय क्लेशच्छिदे कांते जयाभक्तविमोहदे ॥ ६.१२१.६० ॥
त्वं सृष्टिस्त्वं वरा देवी त्वं लक्ष्मीस्त्वं सरस्वती ।
त्वं स्वाहा त्वं स्वधा तुष्टिः पुष्टिर्मेधा धृतिः क्षमा ॥६॥।
तस्मात्कुरु प्रसादं मे प्राणान्रक्ष दयां कुरु॥
प्रणतस्य सुदीनस्य हीनस्य च विशेषतः॥६२॥
अहं दुर्वाससा शप्तो हिरण्याक्षसुतो बली॥
महिषत्वं समानीतस्त्वया देवी विमोक्षितः॥६३॥
तस्माद्दर्पः प्रमुक्तोऽद्य मया दानवसंभवः॥
किंकरत्वं प्रयास्यामि सांप्रतं ते सुरेश्वरि॥६४॥
जय सर्वगते देवि सर्वदुष्टविनाशिनि॥६५॥
इति तस्य वचः श्रुत्वा कृपणं सा सुरेश्वरी ॥
कृपाविष्टाऽब्रवीद्वाक्यं ततो व्योमस्थितान्सुरान्॥६६॥
किं करोमि दया जाता ममैनं प्रति हे सुराः ॥
तस्मान्नाहं हनिष्यामि दानवं दीनजल्पकम् ॥ ६७ ॥
विमुखं खड्गशस्त्रं च तवास्मीति प्रवादिनम् ॥
अपि मे पितृहंतारं न हन्यां रिपुमाहवे ॥ ६८ ॥
॥ देवा ऊचुः ॥ ।
न चेदसि च देवेशि त्वमेनं दानवाधमम् ॥
नाशयिष्यति तत्कृत्स्नं त्रैलोक्यं सचराचरम् ॥ ६९ ॥
एष व्यर्थःश्रमः सर्वस्तथास्माकं भविष्यति ॥
तव संभूतिसंभूतस्तव क्लेशस्तथाऽखिलः ॥ ६.१२१.७० ॥
॥ देव्युवाच ॥ ॥
नाहमेनं हनिष्यामि त्यजिष्यामि तथाऽमराः ॥
एनं कचग्रहं कृत्वा धारयिष्यामि सर्वदा ॥ ७१ ॥
॥ देवा ऊचुः ॥ ॥
साधुसाधु महाभागे युक्तमुक्तं त्वया वचः ॥
एतद्धि युज्यते कर्तुं कालेऽस्मिंस्त्रिदशेश्वरि ॥ ७२ ॥
सांप्रतं मर्त्यलोके त्वं रूपमेतत्समाश्रिता ॥
शस्त्रोद्यतकरा रौद्रा महिषोपरि संस्थिता ॥ ७३ ॥
अवाप्स्यसि परां पूजां दुर्लभा ममरैरपि ॥
यस्त्वामेतेन रूपेण संस्थितां पूजयिष्यति ॥ ७४ ॥
त्वमस्य संगतो भावि विख्याता विंध्यवासिनी ॥
किं ते वा बहुनोक्तेन शृणु संक्षेपतो वचः ॥ ७५ ॥
अस्मदीयं परं तथ्यं सर्वलोकहितावहम् ॥
पार्थिवानां त्वदायत्तं बलं देवि भविष्यति ॥ ७६ ॥
युद्धकाले समुत्पन्ने भक्तानां नात्र संशयः ॥
प्रस्थानं वा प्रवेशं च यः करिष्यति मानवः ॥ ७७ ॥
त्वां स्मृत्वा प्रणिपत्याथ पूजयित्वा विशेषतः ॥
तस्य संपत्स्यते सिद्धिः सर्वकृत्येषु सर्वदा ॥
इह कापुरुषस्यापि किं पुनः सुभटस्य च ॥ ७८ ॥
आश्विनस्य सिते पक्षे नवम्यां चाष्टमीदिने ॥
पूजयिष्यति यो मर्त्त्यस्त्वां सद्भक्तिसमन्वितः ॥ ७९ ॥
तस्य संवत्सरं यावत्समग्रं सुरसुन्दरि ॥
न भविष्यति वै रोगो न भयं न पराभवः ॥
नापमृत्युर्न चौरादि समुद्भूत उपद्रवः ॥ ६.१२१.८० ॥
। सूत उवाच ॥ ॥
एवमुक्त्वाथ ते देवास्तां देवीं हर्षसंयुताः ॥
अनुज्ञातास्तया जग्मुः स्वां पुरीममरावतीम् ॥ ॥ ९१ ॥
तत्र गत्वा चिरात्प्राप्य स्वं राज्यं पाकशासनः ॥
पालयामास संहृष्टस्त्रैलोक्यं हतकटकम् ॥ ८२ ॥
लोकाश्च सुखसंपन्नाः सर्वे जाता स्ततः परम्॥
यज्ञभागभुजो देवा भूयो जाता जगत्त्रये ॥ ८३ ॥
ततः परं च सा देवी त्रैलोक्ये ख्यातिमागता ॥
सर्वक्षेत्रेषु तीर्थेषु स्थानेषु च विशेषतः ॥ ८४ ॥
एतस्मिन्नंतरे जातः सुरथोनाम भूपतिः ॥
आनर्तस्तेन सद्भक्त्या क्षेत्रेऽत्रैव विनिर्मिता ॥ ८५ ॥
यस्तां पश्यति सद्भक्त्या चैत्राष्टम्यां सितेऽहनि ॥
स पुमान्वत्सरं यावत्कृतार्थः स्यान्न संशयः ॥ ८६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये महिषासुरपराजय कात्यायनीमाहात्म्यवर्णनंनाम एकविंशत्युत्तरशततमोऽध्यायः ॥ १२१ ॥ ॥ ॥