स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १२०

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
एवं शक्रादयो देवा जितास्ते तु रणाजिरे ॥
महिषेण ततो राज्यं त्रैलोक्येऽपि चकार सः ॥ १ ॥
यत्किञ्चित्त्रिषु लोकेषु सारभूतं प्रपश्यति ॥
गजवाजिरथाश्वादि सर्वं गृह्णाति सोऽसुरः ॥ २ ॥
एवं प्रवर्तमानस्य तस्य देवाः सवासवाः ॥
वधार्थं मिलिताश्चक्रुः कथा दुःखसम न्विताः ॥ ३ ॥
एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः ॥
दृष्ट्वा तं माहिषं सर्वं व्यवहारं महोत्कटम् ॥ ४ ॥
ततश्च कथयामास सर्वं तेषां सविस्त रम् ॥
तस्य संचेष्टितं भूरि लोकत्रयप्रपीडनम् ॥ ५ ॥
अथ तेषां महाकोपो भूय एवाभ्यवर्धत ॥
नारदस्य वचः श्रुत्वा तादृग्लोककथोद्भवम् ॥ ॥ ६ ॥
तेषां कोपोद्भवो घर्मो वक्त्रद्वारेण निर्ययौ ॥
येन दिङ्मंडलं सर्वं तत्क्षणात्कलुषीकृतम् ॥ ७ ॥
एतस्मिन्नंतरे तत्र कार्तिकेयः समभ्ययात् ॥
पप्रच्छ च किमेतद्धि देवानां कोपकारणम् ॥
येन कालुष्यतां प्राप्तं दिक्चक्रं सकलं मुने ॥ च ॥
॥ नारद उवाच ॥ ॥
एतेषां सांप्रतं स्कन्द मया वार्ता निवेदिता ॥
त्रैलोक्यं दानवैः सर्वैर्यथा नीतं मदोत्कटैः ॥ ९ ॥
स्त्रीरत्नमश्वरत्नं वा न किंचित्कस्यचिद्गृहे ॥
ते दृष्ट्वा मोक्षयंति स्म दुर्निवार्या मदोत्कटाः ॥ ६.१२०.१० ॥
तच्छ्रुत्वा कार्तिकेयस्य विशेषात्संप्रजायत ॥
वक्त्रद्वारेण देवानां यथा कोपः समागतः ॥ ११ ॥
एतस्मिन्नंतरे जाता तत्कोपांते कुमारिका ॥
सर्वलक्षणसंपन्ना दिव्यतेजोऽन्विता शुभा ॥ १२ ॥
कार्तिकेयस्य कोपेन कोपे मिश्रे दिवौकसाम् ॥
यस्माज्जातात्र सा कन्या तस्मात्कात्यायनी स्मृता ॥ १३ ॥
ततस्तस्या ददौ वज्रमायुधं त्रिदशाधिपः ॥
शक्तिं स्कन्दः सुतीक्ष्णाग्रां चापं देवो जनार्दनः ॥ १४ ॥
त्रिशूलं च महादेवः पाशं च वरुणः स्वयम् ॥
आदित्यश्च सितान्बाणांश्चंद्रमाश्चर्म चोत्तमम् ॥ १५ ॥
निस्त्रिंशं निर्ऋतिस्तुष्ट उल्मुकं च हुताशनः ॥
वायुश्च च्छुरिकां तीक्ष्णां धनदः परिघं तथा ॥ १६ ॥
दण्डं प्रेताधिपो रौद्रं वधाय सुरविद्विषाम् ॥
द्वादशैवं समालोक्य साऽऽयुधानि द्विजोत्तमाः ॥ १७ ॥
कात्यायनी ततश्चक्रे भुजद्वादशकं तदा ॥
जग्राह च द्रुतं तानि सुरास्त्राणि दिवौकसाम् ॥ १८ ॥
ततः प्रोवाच तान्सर्वान्संप्रहृष्टतनूरुहा ॥
यदर्थं विबुधश्रेष्ठाः सृष्टा तद्ब्रूत मा चिरम्॥ १९ ॥
सर्वं कार्यं करिष्यामि युष्माकं नात्र संशयः ॥
॥ देवा ऊचुः ॥ ॥
महिषो दानवो रौद्रः समुत्पन्नोऽत्र सांप्रतम् ॥ ६.१२०.२० ॥
अवध्यः सर्वभूतानां मानुषाणां विशेषतः ॥
मुक्त्वैकां योषितं तेन त्वमस्माभिर्विनिर्मिता ॥ २१ ॥
तस्मात्त्वं सांप्रतं गच्छ विंध्याख्यं पर्वतोत्तमम् ॥
तपस्तत्र कुरुष्वोग्र तेजो येनाभिवर्धते ॥ २२ ॥
ततस्तु तेजःसंयुक्तां त्वां ज्ञात्वा वयमेव हि ॥
अग्रे धृत्वा करिष्यामो युद्धं तेन दुरात्मना ॥ २३ ॥
ततस्त्वच्छस्त्रनिर्दग्धः पंचत्वं स प्रयास्यति ॥
वयं च त्रिदशैश्वर्यं लभिष्यामो हतद्विषः ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कात्यायन्युत्पत्तिवर्णनंनाम विंशत्युत्तरशततमोऽध्यायः॥ ॥१२०॥। ॥ छ ॥