स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ११६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ॥ सूतउवाच ॥ ॥
तथान्यापिचतत्रास्ति सुविख्याताम्बरेवती ॥
देवी कामप्रदा पुंसां वालकानां सुखप्रदा ॥ १ ॥
यां दृष्ट्वा पूजयित्वाऽथ चैत्राष्टम्यां विशेषतः ॥
शुक्लायां नाप्नुयान्मर्त्यः कुटुम्बव्यसनं क्वचित् ॥ २ ॥
॥ ॥ ऋषय ऊचुः ॥ ॥
केन वा स्थापिता तत्र सा देवी चाम्बरेवती ॥
किंप्रभावा किंस्वरूपा सूतपुत्र वदस्व नः ॥ ३ ॥
॥ सूत उवाच ॥ ॥
यदा शेषेण संदिष्टा नानानागा विषोल्बणाः ॥
पुरस्यास्य विनाशाय क्रोधसंरक्तलोचनाः ॥
तदा तस्य प्रिया सा च पुत्रशोकेनपीडिता ॥ ४ ॥
स्वयमेवाग्रतो गत्वा भक्षयामास तं द्विजम् ॥
कुटुम्बेन समायुक्तं येन पुत्रो निपातितः ॥ ५ ॥
अथ तस्य द्विजेन्द्रस्य बालवैधव्यसंयुता ॥
अनुजाऽऽसीत्तपोयुक्ता ब्रह्मचर्यकृतक्षणा ॥ ६ ॥
सा दृष्ट्वा भक्षितं सर्वं भट्टिकाख्या कुटुम्बकम् ॥
नाग पत्न्या ततः प्राह जलमादाय पाणिना ॥ ७ ॥
यस्मात्त्वया कुटुम्बं मे नाशं नीतं द्विजिह्वके ॥
दर्शितं च महद्दुःखं मम बन्धुजनोद्भवम् ॥ ८ ॥
तथा त्वमपि संप्राप्य मानुषत्वं सुगर्हितम् ॥
मानुषं पतिमासाद्य पुत्रपौत्रानवाप्य च ॥ ९ ॥
तेषां विनाशजं दुःखं मा नुषे त्वमवाप्स्यसि ॥
नागत्वे वर्तमानायाः शापं तेऽमुं ददाम्यहम् ॥ ६.११६.१० ॥
साऽपि श्रुत्वाऽथ तं शापं रेवती भट्टिकोद्भवम् ॥
क्रोधेन महताविष्टा ह्यदशत्तां द्रुतं ततः ॥ ११ ॥
अथ तस्यास्तनुं प्राप्य नागीदंष्ट्रा विषोल्बणा ॥
जगाम शतधा नाशं बिभिदे न त्वचं क्वचित् ॥ १२ ॥
ततः सा लज्जयाविष्टा स्वरक्तप्लावितानना ॥
विषण्णा निषसादाथ संनिविष्टा धरातले ॥ १३ ॥
एतस्मिन्नंतरे नागास्तथान्ये ये समागताः ॥
रेवतीं ते समालोक्य तथारूपां भयान्विताम् ॥
प्रोचुश्च किमिदं देवि तव वक्त्रे रुजास्पदम् ॥ १४ ॥
अथवा किं प्रभावोऽयं कस्यचिद्रक्तसंपदः ॥ १५ ॥
॥ ॥ रेवत्युवाच ॥ ॥
येयं दुष्टतमा काचिद्दृश्यते दुष्टतापसी ॥
अस्या जातो विकारोऽयं ममास्ये नागसत्तमाः ॥ १६ ॥
तस्मादेनां महा दुष्टां भगिनीं तस्य दुर्मतेः ॥
येन मे निहतः पुत्रो द्विजपुत्रेण सांप्रतम् ॥ १७ ॥
भक्ष्यतां भक्ष्यतां शीघ्रं मम नाशाय संस्थिताम् ॥
सांप्रतं मन्मुखे तेनं रुधिरं पन्नगोत्तमाः ॥ १८ ॥
अथ ते पन्नगाः क्रुद्धा ददंशुस्तां तपस्विनीम् ॥
समं सर्वेषु गात्रेषु यथान्या प्राकृता स्त्रियम् ॥ १९ ॥
ततस्तेषामपि तथा मुखाद्दंष्ट्रा विनिर्गताः ॥
रुधिरं च ततो जज्ञे शेषपत्न्या यथा तथा ॥ ६.११६.२० ॥
अथ तस्याः प्रभावं तं दृष्ट्वा ते नागसत्तमाः ॥
शेषा भय परित्रस्ताः प्रजग्मुश्च दिशो दश ॥ २१ ॥
भट्टिकापि जगामाशु स्वाश्रमं प्रति दुःखिता ॥
भयत्रस्तैः समंताच्च वीक्ष्यमाणा महोरगैः ॥ २२ ॥
ततः सर्वं समालोक्य ताप्यमानं महोरगैः॥
तत्स्थानं स्वजनैर्मुक्तं दुःखेन महतान्वितैः ॥ २३ ।
जगामान्यत्र सा साध्वी सम्यग्व्रतपरायणा ॥
तीर्थ यात्रां प्रकुर्वाणा परिबभ्राम मेदिनीम् ॥ २४ ॥
एवमुद्वासिते स्थाने तस्मिन्सा रेवती तदा ॥
स्मृत्वा तं भट्टिकाशापं दुःखेन महताऽन्विता ॥ २५ ॥
कथं मे मानुषीगर्भे शापाद्वासो भविष्यति ॥
मानुष्येण च कांतेन प्रभविष्यति संगमः ॥ २६ ॥
नैतत्पुत्रोद्भवं दुःखं तथा मां बाधते ह्रदि ॥
यथेदं मानुषे गर्भे संवासो मानुषं प्रति ॥ २७ ॥
तथा दशनसंत्यक्ता कथं भर्तुः स्वमाननम् ॥
दर्शयिष्यामि भूयोऽपि क्षते क्षारोऽत्र मे स्थितः ॥ २८ ॥
तस्मात्परिचरिष्यामि क्षेत्रेऽत्रैव व्यवस्थिता ।
किं करिष्यामि संप्राप्य गृहं पुत्रं विनाकृता ॥ २९ ॥
ततश्चाराधयामास सम्यक्छ्रद्धासमन्विता ॥
अंबिकां सा तदा देवीं स्थापयित्वा सुरेश्वरीम् ॥ ६.११६.३० ॥
गन्धपुष्पोपहारेण नैवेद्यैर्विविधैरपि ॥
गीतनृत्यैस्तथा वाद्यैर्मनोहारिभिरेव च ॥ ३१ ॥
ततः कतिपयाहस्य तस्तास्तुष्टा सुरेश्वरी ॥
प्रोवाच वरदाऽस्मीति प्रार्थयस्व हृदि स्थितम् ॥ ३२ ॥
॥ रेवत्युवाच ॥ ॥
अहं शप्ता पुरा देवि ब्राह्मण्या कारणांतरे ॥
यत्त्वं मानुषमासाद्य स्वयं भूत्वा च मानुषी ॥ ३३ ॥
ततः संप्राप्स्यसि फलं तेषां नाशसमुद्रवम् ॥
महद्दुःखं स्वपुत्रोत्थं मम शापेन पीडिता ॥ ३४ ॥
तथा मम मुखाद्दंष्ट्रा संनीताश्च सुरेश्वरि ॥
तेषां च संभवस्तावत्कथं स्यात्त्वत्प्रभावतः ॥ ३५ ॥
भवंतु तनया नश्च तथा वंशविवर्धनाः ॥
एतन्मे वांछितं देवि नान्यत्संप्रार्थयाम्यहम् ॥ ३६ ॥
॥ देव्युवाच॥ ।
नात्र वासस्त्वया कार्यः कथंचिदपि शोभने ॥
मनुष्यगर्भसंवासो भर्त्ता च भविता नरः । ३७ ।
तस्माच्छृणुष्व मे वाक्यं यत्त्वां वक्ष्यामि सांप्रतम् ॥
दुःखनाशकरं तुभ्यं सत्यं च वरवर्णिनि ॥ ॥ ३८ ॥
उत्पत्स्यति न संदेहो देवकार्यप्रसिद्धये ॥
तव भर्त्ता त्रिलोकेऽस्मिन्कृत्वा मानुषविग्रहम् ॥ ३९ ॥
तक्षकाख्यस्तथा नागो द्विजशाप वशाच्छुभे ॥
सौराष्ट्रविषये राजा रैवताख्यो भविष्यति ॥६.११६.४॥।
तस्य क्षेमकरी भार्या नामवंशसमुद्भवा ॥
भविष्यति न संदेहो विशिष्टा विप्रशापतः ॥ ॥४॥।
तस्या गर्भं समासाद्य त्वं जन्म समवाप्स्यसि ॥
रामरूपस्य शेषस्य पुनर्भार्या भविष्यसि ॥४२॥
तस्मात्त्वं देवि मा शोकं कार्येऽस्मिन्कुरु शोभने ॥
तेन मानुषजे गर्भे संभूतिः संभविष्यति ॥ ४३ ॥
तत्र पश्यसि यन्नाशं स्वकुटुम्बसमुद्भवम् ॥
हिताय तदवस्थायास्तद्भविष्यत्यसंशयम् ॥ ४४ ॥
ततः परं युगं पापं यतो भीरु भविष्यति ॥
तदूर्ध्वं मर्त्यधर्माणो म्लेच्छाः स्थास्यंति सर्वतः ॥ ४५ ॥
ततः स्वर्गनिवासार्थं भगवान्देवकीसुतः ॥
संहर्ता स्वकुलं सर्वं स्वयमेव न संशयः ॥ ४६ ॥
भविष्यंति पुनर्दंष्ट्रास्तव वक्त्रे मनोरमाः ॥
तस्मात्त्वं गच्छ पातालं स्वभर्त्ता यत्र तिष्ठति ॥ ४७ ॥
अन्यच्चापि यदिष्टं ते किंचिच्चित्ते व्यवस्थितम् ॥
तत्कीर्तयस्व कल्याणि महांस्तोषो मम स्थितः ॥ ४८ ।
॥ रेवत्यु वाच ॥ ॥
स्थाने स्थेयं सदाऽत्रैव मम नाम्ना सुरेश्वरि ॥
येन मे जायते कीर्तिस्त्रैलोक्ये सचराचरे ॥४९॥
तथाऽहं नागलोकाच्च चतुर्दश्यष्टमीषु च ॥
सदा त्वां पूजयिष्यामि विशेषान्नवमीदिने ॥६.११६.५०॥।
आश्विनस्य सिते पक्षे सर्वैर्नागैः समन्विता ॥
प्रपूजां ते विधास्यामि श्रद्धया परया युता ॥५१॥
तस्मिन्नहनि येऽन्येऽपि पूजां दास्यंति ते नराः ॥
मा पश्यंतु प्रसादात्ते नरास्ते वल्लभक्षयम् । ५२ ।
॥ देव्युवाच ॥ ॥
एवं भद्रे करिष्यामि वासो मेऽत्र भविष्यति॥
त्वन्नाम्ना पूजकानां च श्रेयो दास्यामि ते सदा ॥
महानवमिजे चाह्नि विशेषेण शुचिस्मिते ॥ ५३ ॥
॥ सूत उवाच ॥ ॥
एवमुक्ता तया साऽथ रेवती शेषवल्लभा ॥
जगाम स्वगृहं पश्चाद्धर्षेण महतान्विता ५४ ॥
ततःप्रभृति सा देवी तस्मिन्क्षेत्रे व्यवस्थिता ॥
तन्नाम्ना कामदा नृणां सर्वव्यसननाशिनी ॥ ५५ ॥
अंबा सा कीर्त्यते दुर्गा रेवती सोरगप्रिया ॥
ततः संकीर्त्यते लोके भूतले चांबरेवती ॥ ५६ ॥
यस्तां श्रद्धासमोपेतः शुचिर्भूत्वा प्रपूजयेत् ॥
नवम्यामाश्विने मासि शुक्लपक्षे समाहितः ॥
न स संवत्सरं यावद्व्यसनं स्वकुलो द्भवम्॥ ५७॥
दृष्ट्वाग्रे छिद्रकं व्यालयुक्तं दोषैर्विमुच्यते ॥
ग्रहभूतपिशाचोत्थैस्तथान्यैरपि चापदैः ॥ ५८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येंऽबारेवतीतीर्थमाहात्म्यवर्णनंनाम षोडशोत्तरशततमोऽध्यायः ॥ ॥ ११६ ॥ ॥ छ ॥