सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ११४

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
सोऽपि विप्रो द्विजश्रेष्ठा विस्फोटकपरिप्लुतः ॥
लज्जया परया युक्तो गत्वा किंचिद्वनांतरम् ॥ १ ॥
ततो वैराग्यमापन्नो रौद्रे तपसि संस्थितः ॥
त्यक्त्वा गृहादिकं सर्वं स्नेहं दारसुतोद्भवम्॥ २ ॥
नियमैः संयमैश्चैव शोषयन्नात्मनस्तनुम् ॥
किंचिज्जलाश्रयं गत्वा स्थापयित्वा महेश्वरम् ॥ ३ ॥
ततः कालेन महता तुष्टस्तस्य महेश्वरः ॥
प्रोवाच दर्शनं गत्वा प्रार्थयस्व यथेप्सितम् ॥ ४ ॥
॥ त्रिजात उवाच ॥ ॥
मातृदोषादहं देव वैलक्ष्यं परमं गतः ॥
मध्ये ब्राह्मणमुख्यानामानर्त्ताधिपतेस्तथा ॥ ५ ॥
अहं शक्नोमि नो वक्तुं कस्यचिद्दर्शितुं विभो ॥
त्रिजातोऽस्मीति विज्ञाय भूरिविद्यान्वितोऽपि च ॥ ६ ॥
तस्मात्सर्वोत्तमस्तेषामहं चैव द्विजन्मनाम् ॥
यथा भवामि देवेश तथा नीतिर्विधीयताम् ॥७॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
चमत्कारपुरे विप्रा ये वसंति द्विजोत्तम ॥
तेषां सर्वोत्तमो नूनं मत्प्रसादाद्भविष्यसि ॥ ८ ॥
तस्मात्कालं प्रतीक्षस्व कञ्चित्त्वं ब्राह्मणोत्तम ॥
समये समनुप्राप्ते त्वां च नेष्यामि तत्र वै ॥ ९ ॥
एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥
ब्राह्मणोऽपि तपस्तेपे तथा संपूजयन्हरम् ॥ 6.114.१० ॥
कस्यचित्त्वथ कालस्य मत्कारपुरे द्विजाः ॥
मौद्गल्यान्वयसंभूतो देवरातोऽभवद्द्विजः ॥ ११ ॥.
तस्य पुत्रः क्रथोनाम यौवनोद्धतविग्रहः ॥
सदा गर्वसमायुक्तः पौरुषे च व्यवस्थितः॥१२॥
स कदाचिद्ययौ विप्रो नागतीर्थं प्रति द्विजाः ॥
श्रावणस्यासिते पक्षे पंचम्यां पर्यटन्वने ॥१३॥
अथापश्यत्स नागेन्द्रतनयं भूरिवर्च्चसम् ॥
रुद्रमालमिति ख्यातं जनन्या सह संगतम् ॥१४॥
अथाऽसौ तं समालोक्य सुलघुं सर्प पुत्रकम् ॥
जलसर्पमिति ज्ञात्वा लगुडेन व्यपोथयत् ॥१५॥
हन्यमानेन तेनाथ प्रमुक्तः सुमहान्स्वनः ॥
हा मातस्तात तातेति विपन्नोऽस्मि निरागसः॥१६॥
सोऽपि श्रुत्वाऽथ तं शब्दं ब्राह्मणो मानुषोद्भवम् ॥
सर्पस्य भयसंत्रस्तः सत्वरं स्वगृहं ययौ ॥१७॥
अथ सा जननी तस्य निष्क्रांता सलिलाश्रयात्॥
यावत्पश्यति तीरस्थं तावत्पुत्रं निपातितम्॥१८॥
ततो मूर्च्छामनुप्राप्ता दृष्ट्वा पुत्रं तथाविधम्॥
यष्टिप्रहारनिर्भिन्नं सर्वांगरुधिरोक्षितम्॥१९॥
अथ लब्ध्वा पुनः संज्ञां प्रलापानकरोद्बहून्॥
करुणं शोकसंतप्ता वाष्पपर्याकुलेक्षणा ॥6.114.२०॥।
हाहा पुत्र परित्यक्त्वा मां च क्वासि विनिर्गतः ॥
अनावृत्तिकरं स्थानं किं स्नेहो नास्ति ते मयि॥२१॥।
केन त्वं निहतः पुत्र पापेन च दुरात्मना ॥
निष्पापोऽपि च पुत्र त्वं कस्य क्रुद्धोऽद्यवै यमः॥२२॥
सपुरस्य सराष्ट्रस्य सकुटुंबस्य दुर्मतेः ॥
येन त्वं निहतोऽद्यापि पंचम्यां पूजितो न च ॥२३॥
रजसा क्रीडयित्वाऽद्य समागत्य चिरादथ॥
कामेनोत्संगमागत्य ग्लानिं नैष्यति चांबरम् ॥२४॥
गद्गदानि मनोज्ञानि जनहास्यकराणि च ॥
त्वया विनाऽद्य वाक्यानि को वदिष्यति मे पुरः ॥२५॥
पितुरुत्संगमाश्रित्य कूर्चाकर्षणपूर्वकम् ॥
कः करिष्यति पुत्राऽद्य सतोषं भवता विना ॥ २६ ॥
निषिद्धोऽसि मया वत्स त्वमायातोऽनुपृष्ठतः ॥
मर्त्यलोकमिमं तात बहुदोषसमाकुलम् ॥ २७ ॥
एवं विलप्य नागी सा संक्रुद्धा शोककर्षिता ॥
तं मृतं सुतमादाय जगामानंतसंनिधौ ॥ २८ ॥
ततस्तदग्रतः क्षिप्त्वा तं मृतं निजबालकम् ॥
प्रलापानकरोद्दीना वियुक्ता कुररी यथा ॥ २९ ॥
नागराजोऽपि तं दृष्ट्वा स्वपुत्रं विनिपातितम् ॥
जगाम सोऽपि मूर्च्छां च पुत्रशोकेन पीडितः ॥ 6.114.३० ॥
ततः सिक्तो जलैः शीतैः संज्ञां लब्ध्वा स कृच्छ्रतः ॥
प्रलापान्कृपणांश्चक्रे प्राकृतः पुरुषो यथा ॥३१॥।
एतस्मिन्नंतरे नागाः सर्वे तत्र समागताः॥
रुरुदुर्दुःखिताः संतो बाष्पपर्याकुलेक्षणाः॥३२॥
वासुकिः पद्मजः शंखस्तक्षकश्च महाविषः॥
शंखचूडः सचूडश्च पुंडरीकश्च दारुणः ॥ ३३ ॥
अञ्जनो वामनश्चैव कुमुदश्च तथा परः ॥
कम्बलाश्वतरौ नागौ नागः कर्कोटकस्तथा ॥ ३४ ॥
पुष्पदंतः सुदंतश्च मूषको मूषकादनः ॥
एलापत्रः सुपत्रश्च दीर्घास्यः पुष्पवाहनः ॥ ३५ ॥
एते चान्ये तथा नागास्तत्राऽऽयाताः सहस्रशः ॥
पुत्रशोकाभिसतप्तं ज्ञात्वा तं पन्नगाधिपम्॥ ३६ ॥
ततः संबोध्य ते सर्वे तमीशं पवनाशनम्॥
पूर्ववृत्तैः कथोद्भेदैर्दृष्टांतैर्विविधैरपि ॥ ३७ ॥
एवं संबोधितस्तैस्तु चिरात्पन्नगसत्तमः ॥
अग्निदाह्यं ततश्चक्रे तस्य पुत्रस्य दुःखितः ॥ ३८ ॥
जलदानस्य काले च सर्पान्सर्वानुवाच सः ॥
सर्वान्नागान्प्रदानार्थं तोयस्य समुपस्थितान्॥ ३९ ॥
नाहं तोयं प्रदास्यामि स्वपुत्रस्य कथंचन ॥
भवद्भिः प्रेरितोऽप्येवं तथान्यैरपि बांधवैः ॥ 6.114.४० ॥
यावत्तस्य न दुष्टस्य मम पुत्रांतकारिणः ॥
सदारपुत्रभृत्यस्य विहितो न परिक्षयः ॥ ४१ ॥
एवमुक्त्वा ततः शेषः शोधयामास तं द्विजम् ॥
येन संसूदितः पुत्रो दंडकाष्ठेन पाप्मना ॥ ४२ ॥
ततः प्रोवाच तान्नागान्पार्श्वस्थान्पन्नगाधिपः ॥
हाटकेश्वरजे क्षेत्रे यांतु मे सुहृदुत्तमाः ॥ ४३ ॥
पुत्रघ्नं तं निहत्याऽऽशु सकुटुम्बपरिग्रहम्॥
चमत्कारपुरं सर्वं भक्षणीयं ततः परम् ॥ ४४ ॥
तत्रैव वसतिः कार्या समस्तैः पन्नगोत्तमैः ॥
यथा भूयो वसेन्नैव तथा कार्यं च तत्पुरम् ॥ ४५ ॥
एवमुक्तास्ततस्तेन नागाः प्राधान्यतः श्रुताः ॥
गत्वाथ सत्वरं तत्र प्रथमं तं द्विजोत्तमम् ॥ ४६ ॥
देवरातसुतं सुप्तं भक्षयित्वा ततः परम् ॥
तत्कुटुंबं समग्रं च क्रोधेन महतान्विताः ॥ ४७ ॥
ततोऽन्यानपि संक्रुद्धा बालान्वृद्धान्कुमारकान् ॥
भक्षयामासुः सर्वे ते तिर्यग्योनिगता अपि ॥ ४८ ॥
एतस्मिन्नंतरे जातः पुरे तत्र सुदारुणः ॥
आक्रंदो ब्राह्मणेंद्राणां सर्पभक्षणसंभवः ॥ ४९ ॥
तत्र भूमौ तथाऽन्यच्च यत्किंचिदपि दृश्यते ॥
तत्सर्वं पन्नगैर्व्याप्तं रौद्रैः कृष्णवपुर्धरैः ॥ 6.114.५० ॥
एतस्मिन्नंतरे प्राप्ताः केचिन्मृत्युवशं गताः ॥
विषसं घूर्णिताः केचित्पतिता धरणीतले ॥ ५१ ॥
अन्ये गृहादिकं सर्वं परित्यज्य सुतादि च ॥
वित्रस्ताः परिधावंति वनमुद्दिश्य दूरतः ॥ ५२ ॥
अन्ये मंत्रविदो विप्राः प्रयतंते समंततः ॥
मंदं धावंति संत्रस्ता गृहीत्वौषधयः परे ॥ ५३ ॥
एवं तत्पुरमुद्दिश्य सर्वे ते पन्नगोत्तमाः ॥
प्रचरंति यथा कश्चिन्न तत्र ब्राह्मणो वसेत् ॥ ५४ ॥
अथ शून्यं पुरं कृत्वा सर्वे ते पन्नगोत्तमाः ॥
व्यचरन्स्वेच्छया तत्र तीर्थेष्वायतनेषु च ॥ ५५ ॥
न कश्चित्पन्नगः क्षेत्रात्त्यक्त्वा निर्याति बाह्यतः ॥
प्रविशेन्न परः कश्चित्तत्र क्षेत्रे च मानवः ॥ ५६ ॥
व्यवस्थैवं समुद्भूता सर्पाणां मानुषैः सह ।
वधभक्षणजा न्योन्यं बाह्याभ्यंतरसंभवा ॥ ५७ ॥
एतस्मिन्नंतरे शेषो मुक्त्वा दुःखं सुतोद्भवम् ॥
प्रहृष्टः प्रददौ तोयं तस्य जातिभिरन्वितः ॥ ५८ ॥
अथ ते ब्राह्मणाः केचित्सर्पेभ्यो भयविह्वलाः ॥
सशोका दिङ्मुखान्याशु ते सर्वे संगता मिथः ॥५९॥
ततो वनं समाजग्मुस्त्रिजातो यत्र संस्थितः ॥
हरलब्धवरो हृष्टः सुमहत्तपसि स्थितः ॥ 6.114.६० ॥
स दृष्ट्वा ताञ्जनान्सर्वांस्तथा दुःखपरिप्लुतान् ॥
पुत्रदारादिकं स्मृत्वा रुदतः करुणं बहु ॥ ६१ ॥
सोऽपि दुःखसमायुक्तो दृष्ट्वा तान्स्वपुरोद्भवान् ॥
ब्राह्मणेंद्रांस्ततः प्राह बाष्पव्याकुललोचनः ॥ ६२ ॥
शृण्वंतु ब्राह्मणाः सर्वे वचनं मम सांप्रतम् ॥
मया विनिर्गतेनैव तत्पुरात्तोषितो हरः ॥ ६३ ॥
तेन मह्यं वरो दत्तो वांछितो द्विजसत्तमाः ॥
गृहीतो न मयाद्यापि प्रार्थयिष्यामि सांप्रतम् ॥६४॥
यथा स्यात्संक्षयस्तेषां नागानां सुदुरात्मनाम् ॥
यैः कृतं नः पुरं कृत्स्नमुद्रसं पापकर्मभिः ॥ ६५ ॥
एवमुक्त्वाऽथ विप्रः स त्रिजातः परमेश्वरम् ॥
प्रार्थयामास मे देव तं वरं यच्छ सांप्रतम् ॥६६॥
ततः प्रोवाच देवेशः प्रार्थयस्व द्रुतं द्विज॥
येनाभीष्टं प्रयच्छामि यद्यपि स्यात्सुदुर्लभम् ॥ ६७ ॥ ॥
॥ त्रिजात उवाच ॥ ॥
नागैरस्मत्पुरं कृत्स्नं कृतं जनविवर्जितम् ॥
तत्तस्मात्ते क्षयं यांतु सर्वे वृषभवाहन ॥ ६८ ॥
येन तत्पूर्यते विप्रैर्भूयोऽपि सुरसत्तम ॥
ममापि जायते कीर्तिः स्वस्थानोद्धरणोद्भवा ॥ ६९ ॥
॥ श्रीभगवानुवाच ॥ ॥
नायुक्तं विहितं विप्र पन्नगैस्तैर्महात्मभिः ॥
निर्दोषश्चापि पुत्रोऽत्र येषां विप्रेण सूदितः ॥ 6.114.७० ॥
विशेषेण द्विजश्रेष्ठ संप्राप्ते पंचमीदिने ॥
तत्राऽपि श्रावणे मासि पूज्यंते यत्र पन्नगाः ॥ ७१ ॥
तस्मात्तेऽहं प्रवक्ष्यामि सिद्धमंत्रमनुत्तमम् ॥
यस्योच्चारणमात्रेण सर्प्पाणां नश्यते विषम् ॥ ७२ ॥
तं मंत्रं तत्र गत्वा त्वं तद्विप्रैरखिलैर्वृतः ॥
श्रावयस्व महाभाग तारशब्देन सर्वशः ॥७३॥
तं श्रुत्वा ये न यास्यंति पातालं पन्नगाधमाः ॥
युष्मद्वाक्याद्भविष्यंति निर्विषास्ते न संशयः ॥ ७४ ॥ ॥
॥ त्रिजात उवाच ॥ ॥
ब्रूहि तं मे महामंत्रं सर्वतीक्ष्णविनाशनम् ॥
येन गत्वा निजं स्थानं सर्पानुत्सादयाम्यहम् ॥७५॥
॥ श्रीभगवानुवाच ॥ ॥
गरं विषमिति प्रोक्तं न तत्रास्ति च सांप्रतम् ॥
मत्प्रसादात्त्वया ह्येतदुच्चार्यं ब्राह्मणोत्तम ॥ ७६
न गरं न गरं चैतच्छ्रुत्वा ये पन्नगाधमाः॥
तत्र स्थास्यंति ते वध्या भविष्यंति यथासुखम् ॥ ७७ ॥
अद्यप्रभृति तत्स्थानं नगराख्यं धरातले ॥
भविष्यति सुविख्यातं तव कीर्तिविवर्धनम् ॥ ७८ ॥
तथान्योपि च यो विप्रो नागरः शुद्धवंशजः ॥
नगराख्येन मंत्रेण अभिमंत्र्य त्रिधा जलम् ॥ ७९ ॥
प्राणिनं काल संदष्टमपि मृत्युवशंगतम् ॥
प्रकरिष्यति जीवाढ्यं प्रक्षिप्य वदने स्वयम् ॥6.114.८०॥।
अन्यत्रापि स्थितो मर्त्यो मंत्रमेतं त्रिरक्षरम् ॥
यः स्मरिष्यति संसुप्तो न हिंस्यः स्यादहेर्हि सः ॥८१॥।
स्थावरं जंगमं वापि कृत्रिमं वा गरं हि तत् ॥
तदनेन च मंत्रेण संस्पृष्टं त्वमृतायितम् ॥८२॥
अजीर्णप्रभवा रोगा ये चान्ये जठरोद्भवाः॥
मंत्रस्यास्य प्रभावेन सर्वे यांति द्रुतं क्षयम् ॥८३॥
एवमुक्त्वाऽथ तं विप्रं भगवान्वृषभध्वजः ॥
जगामादर्शनं पश्चाद्यथा दीपो वितैलकः ॥८४॥
त्रिजातोऽपि समं विप्रैर्हतशेषैस्तु तैर्द्रुतम् ॥
जगाम संप्रहृष्टात्मा चमत्कारपुरं प्रति ॥ ८५ ॥
एवं ते ब्राह्मणाः सर्वे त्रिजातेन समन्विताः ॥
न गरं न गरं प्रोच्चैरुच्चरंतः समाययुः ॥ ८६ ॥
हाटकेश्वरजं क्षेत्रं यत्तद्व्याप्तं समंततः ॥
रौद्रैराशीविषैः क्रूरैः शेषस्यादेशमाश्रितेः ॥८७॥
अथ ते पन्नगाः श्रुत्वा सिद्धमंत्र शिवोद्भवम् ॥
निर्विषास्तेजसा हीनाः समन्तात्ते प्रदुद्रवुः ॥८८॥
वल्मीकान्केचिदासाद्य चित्ररंध्रांतरोद्भवान् ॥
अन्ये चापि प्रजग्मुश्च पातालं दंदशूककाः ॥ ८९ ॥
ये केचिद्भयसंत्रस्ता वार्द्धक्येन निपीडिताः ॥
वालत्वेन तथा चान्ये शक्नुवंति न सर्पितुम् ॥ 6.114.९० ॥
ते सर्वे ब्राह्मणेन्द्रैस्तैः कृतस्य प्रतिकारकैः ॥
निहताः पन्नगास्तत्र दंडकाष्ठैः सहस्रशः ॥ ९१ ॥
एवमुत्साद्य तान्सर्वान्ब्राह्मणास्ते गतव्यथाः ।
तं त्रिजातं पुरस्कृत्य स्थानकृत्यानि चक्रिरे ॥ ९२ ॥
एवं तन्नगरं जातमस्मात्कालादनंतरम् ॥
देवदेवस्य भर्गस्य प्रसादेन द्विजोत्तमाः ॥ ९३ ॥
एतद्यः पठते नित्यमाख्यानं नगरोद्भवम् ॥
न तस्य सर्पजं क्वापि कथंचिज्जायते भयम् । ९४ ॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नगरसंज्ञोत्पत्तिवर्णनंनाम चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४ ॥