स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ११२

विकिस्रोतः तः
Jump to navigation Jump to search

सूत उवाच ॥ ॥
ततः कतिपयाहस्य गते तस्मिन्महीपतौ ॥
स्वगृहं प्रति दुःखार्ते परिवारसमन्विते ॥ १ ॥
पद्भ्यामेव समायाता ह्यष्टषष्टिर्द्विजोत्तमाः ॥
परिश्रांताः कृशांगाश्च धूलिधूसरिताननाः ॥ २ ॥
यावत्पश्यति दाराः स्वा दिव्याभरण भूषिताः ॥
दिव्यवस्त्रैः सुसंवीता राजपत्न्य इवापराः ॥ ३ ॥
ततश्च विस्मयाविष्टाः पप्रच्छुस्ते क्षुधान्विताः ॥
किमिदं किमिदं पापा विरुद्धं विहितं वपुः ॥ ४ ॥
कथं प्राप्तानि वस्त्राणि भूषणानि वराणि च ॥
नूनमस्मद्गतेर्भ्रंशः खे जातो नाऽन्यथा भवेत् ॥ ५ ॥
विकारमेनं संत्यक्त्वा युष्मदीयं सुगर्हिताः॥
अथ ताः सर्ववृत्तांतमूचुस्तापसयोषितः॥६॥
यथा राज्ञी समायाता दमयन्ती नृपप्रिया॥
भूषणानि च दत्तानि तया चैव यथा द्विजाः ॥ ७॥
यथा शापश्च सञ्जातो ब्राह्मणानां महात्मनाम्॥
अथ ते मुनयः क्रुद्धास्तच्छ्रुत्वा गर्हितं वचः ॥
राजप्रतिग्रहो निंद्यस्तापसानां विशेषतः॥८॥
ततो भूपस्य राष्ट्रस्य नाशार्थं जगृहुर्जलम्॥
क्रोधेन महताविष्टा वेपमाना निरर्गलम्॥९॥
अनेन पाप्मनाऽस्माकं कुभूपेन प्रणाशिता॥
खे गतिर्लोभयित्वा तु पत्न्योऽस्माकमकृत्रिमाः ॥
सरलास्तद्गणाः सर्वे येनेदृग्व्यसनं स्थितम् ॥॥6.112.१०॥
॥ सूत उवाच ॥ ॥
एवं ते मुनयो यावच्छापं तस्य महीपतेः॥
प्रयच्छंति च तास्तावदूचुर्भार्या रुषान्विताः ॥ ११ ॥
न देयो भूपतेस्तस्य शापो ब्राह्मणसत्तमाः ॥
अस्मदीयं वचस्तावच्छ्रोतव्यमविशंकितैः ॥।१२॥
वयं सर्वा नरेन्द्रस्य भार्यया समलंकृताः ॥
सुवस्त्रैर्भूषणैर्दिव्यैः श्रद्धापूतेन चेतसा ॥ १३ ॥
वयं दरिद्रदोषेण सदा युष्मद्गृहे स्थिताः ॥
कर्शिता न च संप्राप्तं सुखं मर्त्यसमु द्भवम् ॥१४॥
एतेषां परलोकोऽत्र विद्यते ये तपोरताः ॥
न च मर्त्यफलं किंचिदपि स्वल्पतरं भवेत् ॥१५॥
अन्येषां विषयस्थानामिह लोकः प्रकीर्तितः ॥
भोगप्रसक्तचित्तानां नीचानां सुदुरात्मनाम् ॥ १६ ॥
गृहस्थाश्रमिणां चैव स्वधर्मरतचेतसाम् ॥
इह लोकः परश्चैव जायते नाऽत्र संशयः ॥१७॥
ता वयं नात्र सन्देहो गृहस्थाश्रममुत्तमम् ॥
संसेव्य साधयिष्यामो लोकद्वयमनुत्तमम् ॥१८॥
तस्माद्गृहाणि रम्याणि प्रवदंति समाहिताः ॥
भूपालाद्भूमिमादाय वृत्तिं चैवाभिवांछिताम् ॥ १९ ॥
ततश्चैवाथ वीक्षध्वं पुत्रपौत्रसमुद्भवम् ॥
सौख्यं चापि कुमारीणां बांधवानां विशेषतः ॥ 6.112.२० ॥
न करिष्यथ चेद्वाक्यमेतदस्मदुदीरितम् ॥
सर्वाः प्राणपरित्यागं करिष्यामो न संशयः ॥ २१ ॥
यूयं स्त्रीवधपापेन युक्ताः सन्तस्ततः परम् ।
नरकं रौरवं दुर्गं गमिष्यथ सुनिश्चितम् ॥२२॥
एवं ते मुनयः श्रुत्वा तासां वाक्यानि तानि वै ॥
भूपृष्ठे तत्यजुस्तोयं शापार्थं यत्करैर्धृतम् ॥२३॥
ततस्तत्तोयनिर्दग्धं तद्विभागं क्षितेस्तदा ॥
ऊषरत्वमनुप्राप्तमद्यापि द्विजसत्तमाः ॥ २४ ॥
आस्तामन्नादिकं तत्र यदुत्पं न प्ररोहति ॥
न जन्म चाप्नुयाद्भूयः पक्षी वा कीट एव वा ॥ २५ ॥
तृणं वाथ मृगस्तत्र किं पुनर्भक्तिमान्नरः ॥
यस्तत्र कुरुते श्राद्धं श्रद्धया फाल्गुने नरः ॥ २६ ॥
पौर्णमास्यां रवैर्वारे स पितॄनुद्धरेन्निजान् ॥
अपि स्वकर्मणा प्राप्तान्नरके दारुणाकृतौ ॥ २७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दमयन्त्युपाख्यान ऊषरोत्पत्तिमाहात्म्यकथनंनाम द्वादशोत्तरशततमोऽध्यायः ॥ ११२ ॥