स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १०६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
भूपृष्ठे पांसुभिस्तस्मिन्प्रेतैस्तैः परिपूरिते ॥
यानि तीर्थानि लुप्तानि लिङ्गानि च वदस्व नः ॥ १ ॥
॥ सूत उवाच ॥ ॥
असंख्यातानि तीर्थानि तथा लिंगानि च द्विजाः ॥
लोपं गतानि वक्ष्यामि प्राधान्येन प्रबोधत ॥ २ ॥
तत्र लोपं गतं तीर्थं चक्रतीर्थमिति स्मृतम् ॥
यत्र चक्रं पुरा न्यस्तं विष्णुना प्रभविष्णुना ॥ ॥ ३ ॥
मातृतीर्थं तथैवान्यत्सर्वकामप्रदं नृणाम् ॥
यत्र ता मातरो दिव्याः कार्तिकेयप्रतिष्ठिताः ॥ ४ ॥
मुचुकुन्दस्य राजर्षेस्तथान्यल्लिंग मुत्तमम् ॥
तत्र लोपं गतं विप्राः सगरस्य तु भूपतेः ॥ ५ ॥
इक्ष्वाकोर्वसुषेणस्य ककुत्स्थस्य महात्मनः ॥
ऐलस्य चन्द्रदेवस्य काशिराजस्य सन्मतेः ॥ ६ ॥
अग्निवेशस्य रैभ्यस्य च्यवनस्य भृगोस्तथा ॥
आश्रमो याज्ञवल्क्यस्य तत्र लोपं समाययौ ॥ ७ ॥
हारीतस्य महर्षेश्च हर्यश्वस्य महात्मनः ॥
कुत्सस्य च वसिष्ठस्य नारदस्य त्रितस्य च ॥ ८ ॥
तथैव ऋषिपत्नीनां तत्र लिंगानि भूरिशः॥
कात्यायन्याश्च शांडिल्या मैत्रेय्याश्च तथा पुरा ॥ ९ ॥
अन्यासां मुनिपत्नीनां यासां संख्या न विद्यते ॥
तत्राश्चर्यमभूदन्यत्पूर्यमाणे महीतले ॥ ६.१०६.१० ॥
पांसुभी राक्षसैर्यैस्तैः प्रेतैर्ब्राह्मणसत्तमाः ॥
तद्वोऽहं संप्रवक्ष्यामि श्रोतव्यं सुसमाहितैः ॥ १० ॥
दृष्ट्वा पांसुमयीं वृष्टिं मुक्तां प्रेतैः समंततः ॥
मातृवर्गेण तेनाथ प्रमुक्तः प्रचुरोऽनिलः ॥ ११ ॥
तेन पांसुकृता वृष्टिः समंतान्मथिता बहिः ।
तस्या भूमेः पतत्येव न किंचित्तत्र पूर्यते ॥ १३ ॥
ततस्ते व्यंतराः खिन्ना निराशास्तस्य पूरणे ॥
भूतास्तस्य पुरो गत्वा चुक्रुशुः कुशभूपतेः ॥ १४ ॥
अस्माभिर्विहिता तत्र पांसुवृष्टिर्महीपते ॥
नीयते शतधाऽन्यत्र मातृमुक्तेन वायुना ॥ १९ ॥
स त्वं तासां विघातार्थमुपायं भूप चिंतय ॥
येन तां पांसुभिर्भूमिं पूरयामः समंततः ॥ १६ ॥
तेषां तद्वचनं श्रुत्वा ततः कुशमहीपतिः ॥
रुद्रमाराधयामास तत्क्षेत्रं प्राप्य सद्द्विजाः ॥ १७ ॥
ततस्तस्य गतस्तुष्टिं वर्षांते भगवान्हरः ॥
प्रोवाच प्रार्थयाभीष्टं यत्ते मनसि वांछितम् ॥ १९८ ॥
॥ कुश उवाच ॥ ॥
यथा संपूर्यते चाशु पांसुभिर्भूमिमंडलम्॥
एतत्प्रेतप्रमुक्तैश्च प्रसादात्ते तथा कुरु ॥ १९ ॥
मया प्रेतगणादेव निर्दिष्टास्तस्य पूरणे ॥
मातृसंरक्ष्यमाणं तच्छक्यं चैतन्न पूरितुम् ॥ ६.१०६.२० ॥
तत्र राक्षसजैर्मंत्रैः संति लिंगानि च प्रभो ॥
प्रतिष्ठितानि तत्स्पर्शाद्दर्शनात्स्याज्जनक्षयः ॥ २१ ॥
अचलत्वात्तथा देव लिंगानां शास्त्रसद्भयात् ॥
अन्यदुत्पाटनाद्यं च नैव कुर्मः कथंचन ॥ २२ ॥
तस्माल्लिंगकृतो नाशो ब्राह्मणानां तपस्विनाम् ॥
यथा न स्यात्सुरश्रेष्ठ तथा नीतिर्विधीयताम् ॥ २३ ॥
ततश्च भगवान्रुद्रस्ताः समाहूय मातरः ॥
प्रोवाच त्यज्यतां स्थानं भवत्यो यत्र संस्थिताः ॥ २४ ॥
तत्र पांसुभिरव्यग्राः करिष्यंति दिवानिशम् ॥
प्रेताः कुशसमादेशाद्वृष्टिं लोकहिताय च ॥ २५ ॥
॥ मातर ऊचुः ॥ ॥
त्यक्ष्यामश्च तवादेशात्तत्स्थानं वृषभध्वज ॥
परं दर्शय चास्माकं किंचिदन्यत्तथाविधम् ॥ २६ ॥
क्षेत्रेऽत्रैव निवत्स्यामो येन स्कन्दकृते वयम् ॥
तेन संस्थापिताश्चात्र प्रोक्ताः स्थेयं सदा ततः ॥ २७ ॥
ततः प्रोवाच भगवांस्तस्मात्स्थानान्महत्तरम् ॥
स्थानं दास्यामि सर्वासां पृथक्त्वेन शुभावहम् ॥ २८ ॥
अष्टषष्टिस्तु क्षेत्राणां मदीयानां समंततः ॥
संस्थितास्ति महाभागा येषु मत्संस्थितिः सदा ॥ २९ ॥
अष्टषष्टिविभागेन भूत्वा सर्वाः पृथक्पृथक् ॥
तेषु तिष्ठथ मद्वाक्यात्पूजामग्र्यामवाप्स्यथ ॥ ६.१०६.३० ॥
तस्य देवस्य तच्छ्रुत्वा वाक्यं ता मातरस्तदा ॥
प्रहृष्टास्तत्परित्यज्य स्थानं स्कन्दविनिर्मितम् ॥ ३१ ॥
अष्टषष्टिविभागेन भूत्वा रूपैः पृथग्विधैः ॥
अष्टषष्टिषु क्षेत्रेषु तस्य ताः संस्थिताः सदा ॥ ३२ ॥
ततस्ताभिर्विनिर्मुक्तं तत्सर्वं भूमिमण्डलम् ॥
पांसुभिः पूरितं प्रेतैर्दिवारात्रमतंद्रितैः ॥ ३३ ।।
एवं तस्य वरं दत्त्वा भगवान्वृषवाहनः ॥
जगामादर्शनं पश्चात्सार्धं सवर्गैणैर्द्विजाः ॥३४॥
कुतोऽपि ब्राह्मणैः सर्वेस्तापसैश्च प्रशंसितः ॥
लब्धाशी प्रययौ तस्मादयोध्यानगरीं प्रति ॥ ३५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये लुप्ततीर्थमाहात्म्यकथनंनाम षडुत्तरशततमोऽध्यायः ॥ १०६ ॥


अवाङ्कपाठ्यांशः