सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १०१

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
एवं तां रजनीं तत्र स उषित्वा रघूत्तमः ॥
उपास्यमानः सर्वैस्तैः सद्भक्त्या वानरोत्तमैः ॥ १ ॥
ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥
कृत्वा प्राभातिकं कर्म समाहूयाथ पुष्पकम् ॥ २ ॥
सुग्रीवेण सुषेणेन तारेण कुमुदेन च ॥
अंगदेनाथ कुण्डेन वायुपुत्रेण धीमता ॥ ३ ॥
गवाक्षेण नलेनेव तथा जांबवतापि च ॥
दशभिर्वानरैः सार्धं समारूढः स पुष्पके ॥ ४ ॥
ततः संप्रस्थितः काले लंकामुद्दिश्य राघवः ॥
मनोजवेन तेनैव विमानेन सुवर्चसा ॥ ५ ॥
संप्राप्तस्तत्क्षणादेव लंकाख्यां च महापुरीम् ॥
वीक्षयंस्तान्प्रदेशांश्च यत्र युद्धं पुराऽभवत् ॥ ६ ॥
ततो विभीषणो दृष्ट्वा प्रोद्द्योतं पुष्पकोद्भवम् ॥
रामं विज्ञाय संप्राप्तं प्रहृष्टः सम्मुखो ययौ ॥
मंत्रिभिः सकलैः सार्धं तथा भृत्यैः सुतैरपि ॥ ७ ॥
अथ दृष्ट्वा सुदूरात्तं रामदेवं विभीषणः ॥
पपात दण्डवद्भूमौ जयशब्दमुदीरयन् ॥ ८ ॥
तथागतं परिष्वज्य सादरं स विभीषणम् ॥
तेनैव सहितः पश्चाल्लंकां तां प्रविवेश ह ॥ ९ ॥
विभीषणगृहं प्राप्य तत्र सिंहासने शुभे ॥
निविष्टो वानरैस्तैश्च समन्तात्परिवारितः ॥ ६.१०१.१० ॥
ततो निवेदयामास तस्मै सर्वं विभीषणः ॥
राज्यं पुत्रकलत्रादि यच्चान्यदपि किंचन ॥ ११ ॥
ततः प्रोवाच विनयात्कृतांजलिपुटः स्थितः ॥
आदेशो दीयतां देव ब्रूहि कृत्यं करोमि किम् ॥ १२ ॥
अकस्मादेव संप्राप्तः किमर्थं वद मे प्रभो ॥
किं नायातः स सौमित्रिस्त्वया सार्ध च जानकी ॥।३॥
॥ सूत उवाच ॥ ॥
निवेद्य राघवस्तस्मै सर्वं गद्गदया गिरा ॥
वाष्पपूरप्रतिच्छन्नवक्त्रो भूयो विनिःश्वसन् ॥ १४ ॥
ततः प्रोवाच सत्यार्थं विभीषणकृते हितम् ॥
तं चापि शोकसंतप्तं संबोध्य रघुनंदनः ॥ १५ ॥
अहं राज्यं परित्यज्य सांप्रतं राक्षसोत्तम ॥
यास्यामि त्रिदिवं तूर्णं लक्ष्मणो यत्र संस्थितः ॥ ॥ १६ ॥
न तेन रहितो मर्त्ये मुहूर्तमपि चोत्सहे ॥
स्थातुं राक्षसशार्दूल बांधवेन महात्मना ॥ १७ ॥
अहं शिक्षापणार्थाय तव प्राप्तो विभीषण ॥
तस्मादव्यग्रचित्तेन संशृणुष्व कुरुष्व च ॥ १८ ॥
एषा राज्योद्भवा लक्ष्मीर्मदं संजनयेन्नृणाम् ॥
मद्यवत्स्वल्पबुद्धीनां तस्मात्कार्यो न स त्वया ॥ १९ ॥
शक्राद्या अमराः सर्वे त्वया पूज्याः सदैव हि ॥
मान्याश्च येन ते राज्यं जायते शाश्वतं सदा । ६.१०१.२० ॥
मम सत्यं भवेद्वाक्य मेतस्मादहमागतः ॥
प्राप्तराज्यप्रतिष्ठोऽपि तव भ्राता महाबलः ॥ २१ ॥
विनाशं सहसा प्राप्तस्तस्मान्मान्याः सुराः सदा ॥
यदि कश्चित्समायाति मानुषोऽत्र कथंचन ॥
मत्काय एव द्रष्टव्यः सर्वैरेव निशाचरैः ॥ २२ ॥
तथा निशाचराः सर्वे त्वया वार्या विभीषण ॥
मम सेतुं समुल्लंघ्य न गंतव्यं धरातले ॥ २३ ॥
॥ विभीषण उवाच ॥ ॥
एवं विभो करिष्यामि तवादेशमसंशयम् ॥
परं त्वया परित्यक्ते मर्त्ये मे जीवितं व्रजेत् ॥ २४ ॥
तस्मान्मामपि तत्रैव त्वं विभो नेतुमर्हसि ॥
आत्मना सह यत्रास्ते प्राग्गतो लक्ष्मणस्तव ॥ २५ ॥
॥ श्रीराम उवाच ॥ ॥
मया तेऽक्षयमादिष्टं राज्यं राक्षससत्तम ॥
तस्मान्नार्हसि मां कर्तुं मिथ्याचारं कथंचन ॥ २६ ॥
अहमस्मिन्स्वके सेतौ शंकरत्रितयं शुभम् ॥
स्थापयिष्यामि कीर्त्यर्थं तत्पूज्यं भवता सदा ॥
भक्तिमान्प्रतिसंधाय यावच्चंद्रार्कतारकम् ॥ २७ ॥
एवमुक्त्वा रघुश्रेष्ठो राक्षसेन्द्रं विभीषणम् ॥
दशरात्रं तत्र तस्थौ लंकायां वानरैः सह ॥ २८ ॥
कुर्वन्युद्धकथाश्चित्रा याः कृताः पूर्वमेव हि ॥
पश्यन्युद्धस्य सर्वाणि स्थानानि विविधानि च ॥ २९ ॥
शंसमानः प्रवीरांस्तान्राक्षसान्बलवत्तरान् ॥
कुम्भकर्णेन्द्रजित्पूर्वान्संख्ये चाभिमुखागतान् ॥ ६.१०१.३० ॥
ततश्चैकादशे प्राप्ते दिवसे रघुनंदनः ॥
पुष्पकं तत्समारुह्य प्रस्थितः स्वपुरीं प्रति ॥ ३१ ॥
वानरैस्तैः समोपेतो विभीषणपुरःसरः ॥
ततः संस्थापयामास सेतुप्रांते महेश्वरम् ॥ ३२
मध्ये चैव तथादौ च श्रद्धापूतेन चेतसा ॥
रामेश्वरत्रयं राम एवं तत्र विधाय सः ॥ ३३ ॥
सेतुबंधं तथासाद्य प्रस्थितः स्वगृहं प्रति ॥
तावद्विभीषणेनोक्तः प्रणिपत्य मुहुर्मुहुः ॥ ३४ ॥
॥ विभीषण उवाच ॥ ॥
अनेन सेतुमार्गेण रामेश्वरदिदृक्षया ॥
मानवा आगमिष्यंति कौतुकाच्छ्रद्धयाविताः ॥ ३५ ॥
राक्षसानां महाराज जातिः क्रूरतमा मता ॥
दृष्ट्वा मानुषमायांतं मांसस्येच्छा प्रजायते ॥ ३६ ॥
यदा कश्चिज्जनं कश्चिद्राक्षसो भक्षयिष्यति ।
आज्ञाभंगो ध्रुवं भावी मम भक्तिरतस्य च ॥ ३७ ॥
भविष्यंति कलौ काले दरिद्रा नृपमानवाः ॥
तेऽत्र स्वर्णस्य लोभेन देवतादर्शनाय च ॥ ३८ ॥
नित्यं चैवागमिष्यन्ति त्यक्त्वा रक्षःकृतं भयम् ।
तेषां यदि वधं कश्चिद्राक्षसात्प्रापयिष्यति ॥ ३९ ॥
भविष्यति च मे दोषः प्रभुद्रोहोद्भवः प्रभो ॥
तस्मात्कंचिदुपायं त्वं चिन्तयस्व यथा मम ।
आज्ञाभंगकृतं पापं जायते न गुरो क्वचित् ॥ ६.१०१.४० ॥
तस्य तद्वचनं श्रुत्वा ततः स रघुसत्तमः ॥
बाढमित्येव चोक्त्वाथ चापं सज्जीचकार सः ॥। ॥ ४१ ॥
ततस्तं कीर्तिरूपं च मध्यदेशे रघूत्तमः॥
अच्छिनन्निशितैर्बाणैर्दशयोजनविस्तृतम्॥ ४२ ॥
तेन संस्थापितो यत्र शिखरे शंकरः स्वयम्॥।
शिखरं तत्सलिंगं च पतितं वारिधेर्जले ॥ ४३ ॥
एवं मार्गमगम्यं तं कृत्वा सेतुसमुद्भवम् ॥
वानरै राक्षसैः सार्धं ततः संप्रस्थितो गृहम् ॥ ४४ ॥।
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सेतुमध्ये श्रीरामकृतरामेश्वरप्रतिष्ठावर्णनंनामैको त्तरशततमोऽध्यायः ॥ १०१ ॥