स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०९७
॥ सूत उवाच ॥ ॥
ततः प्रभृति नो मन्दो रोहिणीशकटं द्विजाः ॥
भिनत्ति वचनात्तस्य राज्ञो दशरथस्य च ॥ १ ॥
तद्वृत्तांतं समाकर्ण्य तस्य शक्रः प्रहर्षितः ॥
भूपालं तं समभ्येत्य ततश्चोवाच सादरम् ॥ २ ॥
अत्यद्भुततरं कर्म त्वयैतत्पृथिवीपते ॥
संसाधितं यदन्येन मनसापि न चिन्त्यते ॥ ३ ॥
अत एव हि संतुष्टिः सञ्जाताद्य तवोपरि ॥
वरं मत्तो गृहाणाद्य तदभीष्टं हृदि स्थितम् ॥ ४ ॥
॥ राजोवाच ॥ ॥
त्वया सह सुरश्रेष्ठ मैत्री संप्रार्थयाम्यहम् ॥
शाश्वती सर्वकृत्येषु परमां लोकसंस्थिताम् ॥५॥
॥ इन्द्र उवाच ॥
एवं भवतु राजेंद्र त्वया सह सदा मम ॥
संपत्स्यते सदा मैत्री वसोरिव च शाश्वती ॥ ६ ॥
त्वया सदैव मे पार्श्वे सभायां देवसंनिधौ ॥
आगन्तव्यं विशेषेण येन मैत्री प्रवर्धते॥७॥
एवमुक्त्वा सहस्राक्षो जगाम त्रिदिवालयम् ॥
राजापि चागतो हर्म्ये स्वकीये हर्षसंयुतः ॥८॥
रक्षयित्वा जगत्सर्वं शनैश्चर कृताद्भयात् ॥
अप्राप्यां प्राप्य संकीर्तिं स्तूयमानस्तु बन्दिभिः ॥ ९ ॥
ततः प्रभृति नित्यं स सन्ध्याकाल उपस्थिते ॥
सायाह्नं संविधायाथ याति शक्रस्य मंदिरे ॥६.९७.१०॥॥
तत्र स्थित्वा चिरं श्रुत्वा गंधर्वाणां मनोहरम् ॥
गीतं दृष्ट्वा च नृत्यं च तानादिविहितं शुभम् ॥११॥॥
विचित्रार्थाः कथाः श्रुत्वा देवर्षीणां मुखाच्च्युताः ॥
स्वयं च कीर्तयित्वाथ प्रयाति निजमंदिरम्॥१२॥
विमानवरमारुह्य हंसबर्हिणनादितम्॥
मनोहरपताकाभिः समंताच्च विभूषितम्॥१३॥
यदायदा स निर्याति शक्रस्थानान्निजालयम्॥
तदातदाऽऽसने तस्य क्रियतेऽभ्युक्षणं सदा॥१४॥
शक्रादेशात्तदा वेत्ति न स भूपः कथंचन ॥
अन्यस्मिन्दिवसे तस्य नारदो मुनिसत्तमः ॥
कथयामास तत्सर्वमभ्युक्षणसमुद्भवम् ॥ १५ ॥
वृत्तांतं तस्य राजर्षेस्तस्यैव गृहमागतः ॥
तीर्थयात्रा प्रसंगेन विद्वेषपरिवृद्धये ॥ १६ ॥
तच्छ्रुत्वा नारदेनोक्तं श्रद्धेयमपि भूपतिः ॥
न चक्रे हृदयेऽधर्ममात्मानं परिचिंतयन् ॥ १७ ॥
तथापि कौतुकाविष्टो गत्वा शक्रनिवेशनम् ॥
अन्यस्मिन्दिवसे स्थित्वा चिरं तत्र समुत्थितः ॥ १८ ॥
अलक्ष्यं वीक्षयामास स्वासनं दूरमास्थितः ॥
किंचित्सद्मांतरं प्राप्य कौतूहलसमन्वितः ॥ १९ ॥
ततः शक्रसमादेशादुत्थाय सुरकिंकरः ॥
प्रोक्षयामास तोयेन पार्थिवस्य तदासनम् ॥ ६.९७.२० ॥
तद्दृष्ट्वा कोपसंपन्नः स राजाऽभ्येत्य वासवम् ॥
प्रोवाच किमिदं शक्र प्रोक्ष्यते यन्ममासनम् ॥ २१ ॥
किं मया निहता विप्राः किं वा विप्रसमुद्भवम् ॥
शासनं लोपितं किंचित्किं वा विप्रा विनिंदिताः ॥ २२ ॥
किं वा नष्टोऽस्मि संग्रामे दृष्ट्वा शत्रून्समागतान् ॥
दैन्यं वा जल्पितं तेषां भयत्रस्तेन चेतसा ॥ २३ ॥
मम राज्येऽथवा शक्र दुर्बलो बलवत्तरैः ॥
पीड़्यते वाथ चौराद्यैर्मुष्यते वंचकैस्तथा ॥ २४ ॥
किं वा राज्ये मदीये च जायते योनिविप्लवः ॥
संकरो वाथ वर्णानां परित्यक्तविधिक्रमः ॥ २५ ॥
किं वा दुर्जनवाक्येन दूषितो दोषवर्जितः ॥
दंड्यते मम राज्ये च केनचित्त्रिदशेश्वर ॥ २६ ॥
किं वा चौरोऽथ पापो वा गृहीतो दोषवान्स्वयम् ॥
मुच्यते द्रव्यलोभेन तथान्यो वा जुगुप्सितः ॥ २७ ॥
किंस्विन्मया परित्यक्तः कोऽप्यत्र शरणागतः ॥
भयत्रस्तः सुभीतेन प्राणानां त्रिदशाधिप ॥ २८ ॥
कस्य वा पृष्ठमांसानि भक्षितानि मया क्वचित् ॥
कच्चिच्च त्रिदशाधीष ब्राह्मणस्य विशेषतः ॥ २९ ॥
किं वा दानं मया दत्त्वा ब्राह्मणाय महात्मने ॥ पश्चात्तापः
कृतः पश्चाद्दत्तं चोपेक्षितं च वा ॥ ६.९७.३० ॥
किं वा राज्ये मदीये च दीनानां प्रपतंति च ॥
अश्रुपाता दिवारात्रं दुःखितानां समंततः ॥ ३१ ॥
दैवं वा पैतृकं वापि किं वा कर्म गृहे मम ॥
लोपं गच्छति देवेन्द्र क्रियते वा विधिच्युतम् ॥ ३२ ॥
यत्त्वया क्रियते नित्यं तोयैरभ्युक्षणं मम ॥
आसनस्य द्रुतं ब्रूया यत्पापं विहितं मया ॥ ॥ ३३ ॥
॥ इन्द्र उवाच ॥ ॥
न विद्यते महाराज शरीरे तव पातकम् ॥
न राष्ट्रे च कुले गेहे भृत्यवर्गे विशेषतः ॥ ३४ ॥
परं शृणु प्रवक्ष्यामि यत्ते पापं भविष्यति ॥
तेन संप्रोक्ष्यते चैव आसनं सर्वदैव तु ॥ ३५ ॥
अपुत्रस्य गतिर्नास्ति न च स्वर्गं प्रपद्यते ॥
पैतृकेण नरो ग्रस्तो य ऋणेन सदा नृप ॥ ३६ ॥
द्वेष्यतां याति देवानां पितॄणां च विशेषतः ॥
यदा पश्यति पुत्रस्य वदनं पुरुषो नृप ॥ ३७ ॥
आनृण्यं समवाप्नोति पितॄणां स तदा ध्रुवम् ॥
स त्वं नैव गतो राजन्नानृण्यं यन्मयोदितम् ॥ ३८ ॥
पितॄणां तेन ते नित्यमासनेऽभ्युक्षणं कृतम् ॥
तस्माद्यतस्व पुत्रार्थं यदीच्छसि परां गतिम् ॥ ३९ ॥
आत्मानं नरकात्त्रातुं पुंसंज्ञाच्च तथा नृप ॥
एवमुक्तः स शक्रेण राजा दशरथस्तदा ॥ ६.९७.४० ॥
दुःखेन महता युक्तो लज्जयाऽधोमुखः स्थितः ॥
आमंत्र्याथ सहस्राक्षं गत्वाऽयोध्यां निजां पुरीम् ॥
अमात्यानां निजं राज्यमर्पयामास सत्वरः ॥ ४१ ॥
ततः प्रोवाच तान्सर्वांस्तपः कार्यं मयाऽधुना ॥
यावत्पुत्रस्य संप्राप्तिस्तावदेव न संशयः ॥४२॥
एतद्राज्यं प्रयत्नेन रक्षणीयं यथाविधि ॥
युष्माभिर्मम वाक्येन यावदागमनं मम ॥४३॥
॥ मंत्रिण ऊचुः ॥ ॥
युक्तमेतन्महाराज पुत्रार्थं यत्समुद्यमः ॥
क्रियते पुत्रहीनस्य किं राज्येन धनेन वा ॥ ॥ ४४ ॥
वयं रक्षां करिष्यामस्तव राज्ये समंततः ॥
निर्वृतिं त्वं समास्थाय कुरु पुत्रकृते तपः ॥ ४५ ॥
कार्तिकेयपुरं गत्वा यत्र पित्रा पुरा तव ॥
तपस्तप्तं यथा लब्धा सिद्धिश्च मनसेप्सिता ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्र माहात्म्ये दशरथकृततपःसमुद्योगवर्णनंनाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥