स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०९५

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
अथान्यापि च तत्रास्ति देशकामप्रदा नृणाम् ॥
अजापालेन भूपेन स्थापिता पापनाशनी ॥ १ ॥
तां च शुक्लचतुर्दश्यामजापालेश्वरीं नरः ॥
यो वै पूजयते भक्त्या धूपपुष्पानुलेपनैः ॥
स प्राप्नोतीप्सितान्कामान्दुर्लभा सर्वमानवैः ॥ २ ॥
तस्या देव्याः प्रसादेन सत्यमेतन्मयोदितम् ॥
अजापालो महीपालः पुराऽऽसीत्संमतः सताम् ॥ ३ ॥
हितकृत्सर्वलोकस्य यथा माता यथा पिता ॥
तेन राज्यं समासाद्य पितृपैतामहं शुभम् ॥ ४ ॥
चिंतितं मनसा पश्चात्स्वयमेव महात्मना ॥
मया तत्कर्म कर्तव्यं यदन्यैरिह भूमिपैः ॥
न कृतं न करिष्यंति ये भविष्यन्त्यतः परम् ॥ ५ ॥
एष एव परो धर्मो भूपतीनामुदाहृतः ॥
यत्प्रजापालनं शश्वत्तासां च सुखसंस्थितिः ॥ ६ ॥
यथायथा करं भूपास्ता मां गृह्णंति लोलुपाः ॥
तथातथा मनःक्षोभो हृदये संप्रजायते ॥ ७ ॥
न करेण विना भूपा हस्त्यश्वादिबलं च यत् ॥
शक्नुवंति परित्रातुं पादातं च विशेषतः ॥ ८ ॥
विना तेन स गम्यः स्यान्नीचानामपि सत्वरम् ॥
एतस्मात्कारणाद्भूपाः करं गृह्णंति लोकतः ॥ ९ ॥
तस्मान्मया विनाप्याशु नागैश्चैव नरैस्तथा ॥
तपः शक्त्या प्रकर्तव्यं राज्यं निहतकण्टकम् ॥ ६.९५.१० ॥
करानगृह्णता तेन लोकान्रंजयता सदा ॥
अन्येषां भूमिपालानां विशेषेण महात्मनाम् ॥ ११ ॥
एवं चित्ते समाधाय वसिष्ठं मुनिपुंगवम् ॥
पुरोधसं समाहूय ततः प्रोवाच सादरम् ॥ १२ ॥
अत्र भूमितले विप्र सर्वेषां तीर्थमुत्तमम् ॥
अल्पकालेन सन्तुष्टिं यत्र याति महेश्वरः ॥
वासुदेवोऽथवा ब्रह्मा ह्येतच्छीघ्रं वदस्व मे ॥ १३ ॥
येनाहं सर्वलोकस्य हितार्थं तप आददे ॥
न स्वार्थं ब्राह्मणश्रेष्ठ सत्येनात्मानमालभे ॥ १४ ॥
॥ वसिष्ठ उवाच ॥
तिस्रः कोट्योर्धकोटी च तीर्थानामिह भूतले ॥
संति पार्थिवशार्दूल प्रभावसहितानि च ॥ १५ ॥
अष्टषष्टिस्तथा राजन्क्षेत्राणामस्ति भूतले ॥
येषां सांनिध्यमभ्येति सर्वदैव महेश्वरः ॥ १६ ॥
तथा सर्वे सुरास्तुष्टा ब्रह्मविष्णु शिवादयः ॥
परं सिद्धिप्रदं शीघ्रं मानुषाणां महीपते ॥ १७ ॥
हाटकेश्वरदेवस्य क्षेत्रं पातकनाशनम् ॥
देवानामपि सर्वेषां तुष्टिं गच्छति चंडिका ॥ १८ ॥
शीघ्रमाराधिता सम्यक्छ्रद्धायुक्तैर्नरैर्भुवि ॥
तस्मात्तत्क्षेत्रमासाद्य तां देवीं श्रद्धयान्वितः ॥
आराधय महाभाग द्रुतं सिद्धिमवाप्स्यसि ॥। ॥ १९ ॥
एवमुक्तः स तेनाथ गत्वा तत्क्षेत्रमुत्तमम् ॥
प्रतिष्ठाप्य च देवीं तां पूजयामास भक्तितः ॥ ६.९५.२० ॥
ब्रह्मचर्यपरो भूत्वा शुचिर्व्रतपरायणः ॥
नियतो नियताहारस्त्रिकालं स्नानमाचरन् ॥ २१ ॥
एवमाराध्यतस्तत्र गन्धपुष्पानुलेपनैः ॥
पूजापरस्य सा देवी तस्य तुष्टिं ततो गता ॥ २२ ॥ ॥
॥देव्युवाच ॥ ॥
परितुष्टास्मि ते वत्स व्रतेनानेन नित्यथः ॥
बलिपूजाविधानेन विहितेनामुना स्वयम् ॥ २३ ॥
तद्ब्रूहि येन ते सर्वं प्रकरोमि हृदि स्थितम् ॥
सद्य एव महीपाल त्रिदशैरपि दुर्लभम् ॥ २४ ॥
॥राजोवाच ॥ ॥
लोकानां हितकामेन मयैतद्व्रतमाहृतम् ॥
येन तेषां भवेत्सौख्यं मत्प्रसादादनुत्तमम् ॥२५॥
तस्माद्देहि महाभागे ज्ञानयुक्तानि भूरिशः ॥
ममास्त्राणि विचित्राणि स्वैरगाणि समन्ततः ॥२६॥
यानि जानंति भूपृष्ठे मम पार्श्वे स्थितान्यपि ॥
अपराधं सदा लोके परदारादि यत्कृतम् २७ ॥
अनुरूपं ततस्तस्य पातकस्य विनिग्रहम् ॥
प्रकुर्वंति मिथो येन न तेषां संकरो भवेत् ॥२८॥
मंत्रग्रामं तथा देवि मम देहि पृथग्विधम् ॥
निग्रहं व्याधिसत्त्वानां येन शीघ्रं करोम्यहम् ॥२९॥
येन स्युर्मनुजाः सर्वे मम राज्ये सुखान्विताः॥
नीरोगाः पुष्टिसंपन्ना भयशोकविवर्जिताः ॥ ६.९५.३० ॥
नाहं देवि करिष्यामि हस्त्यश्वरथसंग्रहम्॥
यतस्तेषां भवेत्पुष्टिर्वित्तैर्वित्तं करैर्भवेत् ॥
गृहीतैः सर्वलोकानां तस्मात्तन्न ममेप्सितम् ॥ ३१ ॥
॥ श्रीदेव्युवाच ॥ ॥
अत्यद्भुततरं कर्म त्वयैतत्पृथिवीपते ॥
प्रारब्धं यन्न केनापि कृतं न च करिष्यति ॥ ३२ ॥
तथाप्येवं करिष्यामि तव दास्यामि कृत्स्नशः ॥
ज्ञानयुक्तानि शस्त्राणि मंत्रग्रामं च तादृशम् ॥ ३३ ॥
गृह्यन्ते येन ते सर्वे व्याधयोऽपि सुदारुणाः ॥
परं सदैव ते रक्ष्या मन्मन्त्रैरपि संयुताः ॥ ३४ ॥
यदि दृष्टिपथात्तुभ्यं क्वचिद्यास्यंति दूरतः ॥
मानवान्पीडयिष्यंति चिरात्प्राप्याधिकं ततः ॥ ३५ ॥
यदा त्वं पृथिवीपाल स्वर्गं यास्यसि भूतलात् ॥
तदात्र सलिले स्थाप्या मदग्रे(*) यद्व्यवस्थितम् ॥ ३६ ॥
सर्वे मंत्रास्तथाऽस्त्राणि ममवाक्यादसंशयम् ॥
येन स्यात्पूर्ववत्सर्वो व्यवहारो नृपोद्भवः ॥ ३७ ॥
॥सूत उवाच ॥ ॥।
बाढमित्येव तेनोक्ते तत्क्षणाद्द्विजसत्तमाः ॥
प्रादुर्भूतानि दिव्यानि तस्यास्त्राणि बहूनि च ॥ ३८ ॥
ज्ञानसंपत्प्रयुक्तानि यादृशानि महात्मना ॥
तेन संयाचितान्येव व्याधिमंत्रास्तथैव च ॥ ३९ ॥
व्याधयो यैश्च गृह्यंते मुच्यंते स्वेच्छया सदा ॥
सुखेन परिपाल्यंते दृष्टिगोचरसंस्थिताः ॥ ६.९५.४० ॥
ततस्तं सकलं प्राप्य प्रसादं चंडिकोद्भवम् ॥
तच्च हस्त्यादिकं सर्वं ब्राह्मणेभ्यो ददौ नृप ॥ ४१ ॥
एकां मुक्त्वा निजां भार्यामेकं दशरथं सुतम् ॥
तांश्चापि सकलान्व्याधीन्मंत्रैः संयम्य यत्नतः ॥ ४२ ॥
अजारूपान्स्वयं पश्चाद्यष्टिमादाय रक्षति ॥
एवं तस्य नरेन्द्रस्य वर्तमानस्य भूतले ॥ ४३ ॥
गुप्तोऽपि नापराधः स्यात्कस्यचित्प्रकटः कुतः ॥
प्रमादाद्यदि भूलोके कश्चित्पापं समाचरेत् ॥ ४४ ॥
तद्रूपो निग्रहस्तस्य तत्क्षणादेव जायते ॥
वधं वा यदि वा बंधं क्लेशं चाऽरातिसंभवम् ॥ ४५ ॥
अदृष्टान्यपि शस्त्राणि तानि कुर्वंति तत्क्षणात् ॥
अन्येषां च महीपानां राज्ये गुप्तान्यनेकशः ॥
कुर्वन्ति मनुजास्तेषां चक्रे वैवस्वतो ग्रहम् ॥ ४६ ॥
न तत्र भयसंत्रस्तस्ततः पापसमाचरेत् ॥
प्रत्यक्षं वा विशेषेण ज्ञात्वा शस्त्रभयं च तत् ॥ ४७ ॥
ततस्ते पापनिर्मुक्ता लोकाः संशुद्धगात्रकाः ॥
रोगेषु निगृहीतेषु प्राप्ताः सुखमनुत्तमम् ॥ ४८ ॥
एवं स्थितेषु लोकेषु गतपापामयेषु च ॥
प्रयाताः शून्यतां सर्वे नरका ये यमालये ॥ ४९ ॥
न कश्चिन्नरकं याति न च मृत्युपथं नरः ॥
यथा कृतयुगं तादृक्त्रेतायामपि संस्थितम्॥ ६.९५.५० ॥
व्यवहारे ततो नष्टे यमलोकसमुद्भवे ॥
स्वर्गेण तुल्यतां प्राप्ते प्राणिभिर्मृत्युवर्जितैः ॥ ५१ ॥
ततो वैवस्वतो गत्वा ब्रह्मणः सदनं प्रति ॥
प्रोवाच दुःखसंपन्नः प्रणिपत्य पितामहम् ॥ ५२ ॥
अहं पुरा त्वया देव धर्माधर्मदिदृक्षया ॥
मानुषाणां समादिष्टो निग्रहानुग्रहं प्रति ॥ ०३३ ॥
अजापालेन भूपेन तत्सर्वं विफलीकृतम् ॥
तपःशक्त्या सुरश्रेष्ठ देवीमाराध्य चंडिकाम् ॥ ५४ ॥
नाधयो व्याधयस्तत्र न पापानि महीतले ॥
कस्यचिद्देव जायंते यथा कृतयुगे तथा ॥ ५५ ॥
तस्मात्कुरु सुरश्रेष्ठ पुनरेव यथा पुरा ॥
मदीयभवने कृत्स्नो व्यवहारः प्रजायते ॥ ५६ ॥
तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥
समीप उपविष्टस्य शिवस्याऽऽस्यं व्यलोकयत् ॥ ९७ ॥
अथाब्रवीत्प्रहस्योच्चैस्त्रिनेत्रश्चतुराननम् ॥
अत्यद्भुततमां श्रुत्वा तां वार्तां यमसंभवाम् ॥ ५८ ॥
॥ महेश्वर उवाच ॥ ॥
धर्ममार्गप्रवृत्तस्य सदाचारस्य भूपतेः ॥
कथं निवारणं तत्र क्रियते कश्च निग्रहः ॥ ५९ ॥
तस्मात्तेन महीपेन यस्मान्मार्गः प्रदर्शितः ॥
अपूर्वो धर्मसंभूतः कृतः सम्यङ्महात्मना ॥ ६.९५.६० ॥
तन्मयापि यथा चास्य प्रसादः सुरसत्तम ॥
अपूर्वः करणीयश्च यथा धर्मो न दुष्यति ॥ ६१ ॥
एवमुक्त्वा चतुर्वक्त्रं यमं प्राह ततः शिवः ॥
वदायुषोऽस्य यच्छेषमजापालस्य भूपतेः ॥
येन तत्समये प्राप्ते तं नयामि निजालयम् ॥ ६२ ॥ ॥
॥ यम उवाच ॥ ॥
पञ्चवर्षसहस्राणि तस्यातीतानि चायुषः ॥
तिष्ठंति पञ्चपञ्चाशत्प्रतीक्ष्येऽहं ततः कथम् ॥ ६३ ॥
यावत्कालं सुरश्रेष्ठ शून्ये जाते स्व आश्रये ॥
तस्मात्कुरु द्रुतं कंचिदुपायं तद्विनाशने ॥ ६४ ॥
एवमुक्ते यमेनाथ तं विसृज्य गृहं प्रति ॥
व्याघ्ररूपं समास्थाय स्वयं तत्संनिधौ ययौ ॥ ६५ ॥
यत्र संस्थो महीपः स प्रजापालनतत्परः ॥
मेघगम्भीरनिर्घोषं गर्जमानो मुहुर्मुहुः ॥ ६६ ॥
अजास्तास्तं च संवीक्ष्य व्याघ्रं रौद्रवपुर्द्धरम् ॥
अजापालं समुद्दिश्य संत्रस्ताः शरणं गताः ॥ ६७ ॥
तस्य यत्नपरस्यापि रक्षमाणस्य भूपतेः॥
अजास्ता व्याघ्ररूपेण शंकरेण प्रभक्षिताः ॥ ६८ ॥
अजानां कदनं दृष्ट्वा ततः स पृथिवीपतिः ॥
स्वहस्ताद्यष्टिमुत्सृज्य जग्राह निशितायुधम् ॥ ॥ ६९ ॥
यत्तस्य तुष्टया दत्तं चंडं चंडार्चिषा समम् ॥
तच्छस्त्रं च तथान्यानि देवीदत्तानि शंकरः ॥
शनैःशनैः प्रजग्राह स्ववक्त्रेण महेश्वरः ॥ ॥ ६.९५.७० ॥
अस्त्राभावात्ततस्तूर्णं ध्रियमाणेऽपि कांतया ॥
द्वंद्वयुद्धेन तं व्याघ्रं योधयामास भूपतिः ॥ ७१ ॥
ततस्तस्यांगसंस्पर्शान्मुक्त्वा व्याघ्रतनुं च ताम् ॥
दधार भस्मसंदिग्धां तनुं चन्द्रविभूषिताम् ॥ ७२ ॥
रुंडमालावरां दिव्यां सखट्वांगां सपन्नगाम् ॥
तां दृष्ट्वा स महीपालः सभार्यः प्रणतस्ततः ॥ ७३ ॥
प्रोवाचाथ स्तुतिं कृत्वा विनयावनतः स्थितः ॥
आनंदाश्रुपरिक्लिन्नो हर्षगद्गदया गिरा ॥ ७४ ॥
॥ राजोवाच ॥ ॥
अज्ञानाद्यन्मया देव प्रहारास्तव निर्मिताः ॥
तिरस्कारस्तथा दत्तस्तत्सर्वं क्षम्यतां विभो ॥ ७५ ॥
॥ श्रीभगवानुवाच ॥ ॥
क्षांत एष मया पुत्र तव सर्वः पराभवः ॥
परितुष्टेन ते कर्म दृष्ट्वा चैवातिमानुषम् ॥ ७६ ॥
यथा कृतं त्वया राज्यं प्रजाः संरक्षिता नृप ॥
तथान्यो भूपतिः कश्चिन्न कर्ता न करिष्यति ॥ ७७ ॥
तस्माद्गच्छ मया सार्धं पाताले पार्थिवोत्तम ॥
अनेनैव शरीरेण धर्मपत्न्यानया सह ॥ ७८ ॥।
नातः परं त्वया स्थेयं मर्त्यलोके कथंचन ॥
विरुद्धं सर्वदेवानां यतः कर्म त्वदुद्भवम् ॥ ७९ ॥
॥ राजोवाच ॥ ॥
एवं देव करिष्यामि गत्वाऽयोध्यां महापुरीम् ॥
पुत्रं राज्ये प्रतिष्ठाप्य मंत्रिणां संनिवेद्य च ॥ ६.९५.८० ॥
तथाहं देव देव्या च प्रोक्तः संतुष्टया पुरा ॥
मन्त्रग्रामो यया दत्तः शस्त्राणि विविधानि च ॥ ८१ ॥
यदा त्वं त्यजसि प्राज्ञ मर्त्यलोकं सुदुस्त्यजम् ॥
तदात्र मामके कुण्डे प्रक्षेप्तव्यानि कृत्स्नशः ॥ ८२ ॥
तानि चार्पय मे भूयो येनानृण्यं व्रजाम्यहम् ॥
तस्या देव्याः सुराधीश त्वत्प्रसादेन सांप्रतम् ॥ ८३ ॥
एवमुक्तस्ततस्तेन भगवांस्त्रिपुरांतकः ॥
आज्ञाप्य तानि सर्वाणि ददौ तत्र द्रुतं गतः ॥ ८४ ॥
अब्रवीच्च सुतस्तत्र स्वयं राजा भविष्यति ॥
वीर्यौदार्यसमोपेतो वंशस्योद्धरणक्षमः ॥ ८५ ॥
त्वं चागच्छ मया सार्धमद्यैव मम मंदिरे ॥
प्रविश्यात्र जले पुण्ये देवीकुण्डसमुद्भवे ॥ ८६ ॥
अद्य माघचतुर्दश्यां शुक्लायामपरोऽपि यः ॥
देवीमिमां च संपूज्य जलेऽस्मिन्भक्तिसंयुतः ॥ ८७ ॥
करिष्यति प्रवेशेन प्राणत्यागं नृपोत्तम ॥
स च यास्यति यत्रास्ते पाताले हाटकेश्वरः ॥ ८८ ॥
स्नानं वा पार्थिवश्रेष्ठ यः करिष्यति मानवः ॥
अष्टोत्तरशतं तस्य व्याधीनां न भविष्यति ॥ ॥ ८९ ॥
एवमुक्त्वा तमादाय नृपं भार्यासमन्वितम् ॥
अजाभिस्ताभिरस्त्रैश्च तैश्चापि परमेश्वरः ॥
प्रविवेश जले तस्मिन्देवीकुण्डसमुद्भवे ॥ ६.९५.९० ॥
ततश्च मंदिरं नीतः स्वकीयं द्विजसत्तमाः ॥
तेनैव नरदेहेन स कलत्रसमन्वितः ॥ ९१
अद्यापि तिष्ठते तत्र जरामरणवर्जितः ॥
पूजयानश्च तं देवं पाताले हाटकेश्वरम् ॥ ९२ ॥
एवं तत्र समुद्भूता सा देवी परमेश्वरी ॥
स्थापिता तेन भूपेन श्रद्धापूतेन चेतसा ॥ ९३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनाम पञ्चनवतितमोऽध्यायः ॥ ॥ ९५ ॥