स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०९२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
अग्नितीर्थस्य माहात्म्यमेतद्वः परिकीर्तितम् ॥
ब्रह्मकुंडसमुत्पत्तिरधुना श्रूयतां द्विजाः ॥ १ ॥
यदा संस्थापितो ब्रह्मा मार्कंडेन महात्मना ॥
तदा विनिर्मितं तत्र कुण्डं शुचिजलान्वितम् ॥ २ ॥
प्रोक्तं च कार्तिके मासि कृत्तिकास्थे निशाकरे ॥
सम्यग्भीष्मव्रतं कृत्वा स्नात्वात्र सलिले शुभे ॥ ३ ॥
पूजयिष्यति यो देवं पद्मयोनिं ततः परम् ॥
स शूद्रोऽपि तनुं त्यक्त्वा ब्रह्मयोनौ प्रयास्यति ॥ ४ ॥
ब्राह्मणोऽपि यदि स्नानं तत्र कुण्डे करिष्यति ॥
कृत्वा भीष्मव्रतं सम्यग्ब्रह्मलोकं प्रयास्यति ॥ ५ ॥
एवं प्रवदतस्तस्य मार्कंडेयस्य सन्मुनेः ॥
श्रुतं तत्सकलं वाक्यं पशुपालेन केनचित् ॥ ६ ॥
ततः श्रद्धाप्रयुक्तेन तेन तद्भीष्मपंचकम् ॥
यथावद्विहितं सम्यक्कार्तिके मासि संस्थिते ॥ ७ ॥
ततश्च कृत्तिकायोगे पूर्णिमायां यथाविधि ॥
संपूज्य पद्मजं पश्चात्पूजितः पुरुषोत्तमः ॥ ८ ॥
ततः कालविपाकेन स पंचत्वमुपागतः ॥
ब्राह्मणस्य गृहे जातः पुरेऽत्रैव द्विजोत्तमाः ॥
जातिस्मरः प्रभायुक्तः पितृमातृप्रतुष्टिदः ॥ ९ ॥
एवं प्रगच्छतस्तस्य वृद्धिं तत्र पुरोत्तमे ॥
पितृमातृसमुद्भूतो यादृक्स्नेहो व्यवस्थितः ॥ ६.९२.१० ॥
अन्यदेहोद्भवे वापि तस्य शूद्रेपरिस्थितः ॥
स तस्य धनसंपन्नः सदैव कुरुते द्विजः ॥ ११ ॥
उपकारप्रदानं च यत्किंचित्तस्य संमतम् ॥
अन्यस्मिन्दिवसे शूद्रः स पिता पूर्वजन्मनः ॥
तस्य पञ्चत्वमापन्नः संप्राप्ते चायुषः क्षये ॥ १२ ॥
अथ तस्य महाशोकं स कृत्वा तदनंतरम् ॥
चकार प्रेतकार्याणि निःशेषाणि प्रभक्तितः ॥ १३ ॥
अथ तस्य समालोक्य तादृशं तद्विचेष्टितम् ॥
पृष्टः स कौतुकाविष्टैः पितृमातृसुतादिभिः ॥ १४ ॥
कस्मात्त्वमस्य नीचस्य पशुपालस्य सर्वदा ॥
अतिस्नेहसमायुक्तो निःस्पृहस्यापि शंस नः ॥ १५ ॥
तस्यापि प्रेतकार्याणि मृतस्यापि करोषि किम् ॥
एतन्नः सर्वमाचक्ष्व न चेद्गुह्यं व्यवस्थितम् ॥ १६ ॥
तेषां तद्वचनं श्रुत्वा किंचिल्लज्जासमन्वितः ॥
तानब्रवीच्छृणुध्वं च कथयिष्याम्यसंशयम् ॥ १७ ॥
अहमस्यान्यदेहत्वे पुत्र आसं सुसंमतः ॥
पशुपालनकर्मज्ञः प्राणेभ्यो वल्लभः सदा ॥ १८ ॥
कस्यचित्त्वथ कालस्य मार्कंडस्य महामुनेः ॥
श्रुतं प्रवदतो वाक्यं ब्रह्मकुण्डसमुद्भवम् ॥ १९ ॥
कार्तिक्यां कृत्तिकायोगे भीष्मपञ्चककृन्नरः ॥
सम्यक्छ्रद्धासमुत्पन्नो योऽत्र स्नानं करिष्यति ॥ ६.९२.२० ॥
दृष्ट्वा पितामहं देवं पूजयित्वा जनार्दनम् ॥
स भविष्यति शूद्रोऽपि ब्राह्मणश्चान्यजन्मनि ॥ २१ ॥
तन्मया विहितं सम्यक्स्नात्वा तत्र शुभावहे ॥
सुकुण्डे कार्तिके मासि तेन जातोऽस्मि सद्द्विजः ॥ २२ ॥
चन्द्रोदयस्य विप्रर्षेरन्वये भुवि विश्रुते ॥॥
संस्मरन्पूर्विकां जाति तेन स्नेहो मम स्थितः ॥
तस्योपरि महान्नित्यं शूद्रस्यापि निरर्गलः ॥ २३ ॥
अतोऽहं कृत्तिकायोगे कार्तिक्यां भक्तिसंयुतः ॥
ज्ञात्वा करोमि भीष्मस्य पंचकं व्रतमुत्तमम् ॥ २४ ॥
॥ सूत उवाच ॥ ॥
एवं तस्य वचः श्रुत्वा ते चान्ये च द्विजोत्तमाः ॥।
भीष्मस्य पञ्चकं चक्रुः सम्यक्छ्रद्धासमन्विताः। २५ ॥
ततःप्रभृति तत्कुण्डं विख्यातं धरणीतले ॥
स्थितमुत्तरदिग्भागे ब्रह्मकुण्डमिति स्मृतम् ॥ २६ ॥
यः स्नानं सर्वदा तत्र ब्राह्मणः प्रकरोति वै ॥
स संभवति विप्रेंद्रो जायमानः पुनः पुनः ॥ २७ ॥
इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्यवर्णनंनाम द्विनवतितमोध्यायः ॥९२॥ ॥