स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०९०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
अग्नितीर्थं त्वया प्रोक्तं ब्रह्मतीर्थं च यत्पुरा ॥
न तयोः कथितोत्पत्तिर्माहात्म्यं च महामते ॥ १ ॥
तस्माद्विस्तरतो ब्रूहि एकैकस्य पृथक्पृथक् ॥
न वयं तृप्तिमापन्नाः शृण्वतस्ते वचोऽमृतम् ॥ २ ॥
॥ सूत उवाच ॥ ॥
अत्र वः कीर्तयिष्यामि कथां पातकनाशिनीम् ॥
अग्नितीर्थसमुद्भूतां सर्वसौख्यावहां शुभाम्॥ ३ ॥
सोमवंशसमुद्भूतः प्रतीपो नाम भूपतिः ॥
पुरासीच्छौर्यसंपन्नो ब्रह्मज्ञानविचक्षणः॥ ४ ॥
तस्य पुत्रद्वयं जज्ञे सर्वलक्षणलक्षितम् ॥
देवापिः प्रथमस्तत्र द्वितीयः शंतनुर्द्विजाः ॥ ५ ॥
अथो शिवपदं प्राप्ते प्रतीपे नृपसत्तमे ॥
तपोऽर्थं राज्यमुत्सृज्य देवापिर्नियर्यौ वनम् ॥ ६ ॥
ततश्च मंत्रिभिः सर्वैः शंतनुस्तस्य चानुजः ॥
पितृपैतामहे राज्ये सत्वरं सन्नियोजितः ॥ ७ ॥
एतस्मिन्नंतरे शक्रो न ववर्ष क्रुद्धाऽन्वितः ॥
यावद्द्वादशवर्षाणि तस्मि न्राज्यं प्रशासति ॥ ८ ॥
अतः कृच्छ्रं गतः सर्वो लोकः क्षुत्परिपीडितः ॥
चामुंडासदृशो जातो यो न मृत्युवशंगतः ॥ ९ ॥
संत्यक्ताः पतिभिर्नार्यः पुत्राश्च पितृभिर्निजैः ॥
मातरश्च तथा पुत्रैर्लोकेष्वन्येषु का कथा ॥ ६.९०.१० ॥
दैवयोगात्क्वचित्किंचित्कस्यचिद्यदि दृश्यते ॥
सस्यं सिद्धमसिद्धं वा ह्रियते वीर्यतः परैः ॥ ११ ॥
शुष्का महीरुहाः सर्वे तथा ये च जलाशयाः॥
नद्यश्च स्वल्पतोयाश्च गंगाद्या अपि संस्थिताः ॥ १२ ॥
एवं वृष्टेः क्षये जाते नष्टे धर्मपथे तथा ॥
लोकेऽस्मिन्नस्थिसंघातैः पूरिते भस्मना वृते ॥ १३ ॥
न कश्चिद्यजनं चक्रे न स्वाध्यायं न च व्रतम् ॥
एवमालोक्यते व्योम वृष्ट्यर्थं क्षुत्समाकुलैः ॥ १४ ॥
एतस्मिन्नेव काले तु विश्वामित्रो महामुनिः ॥
चर्मास्थिशेषसर्वांगो बुभुक्षार्त इतस्ततः ॥ १५ ॥
परिभ्रमंस्ततः प्राप्य कंचिद्ग्रामं निरुद्वसम् ॥
मृतमर्त्योद्भवैव्याप्तमस्थिसंघैः समंततः ॥ १६ ॥
अथ तत्र भ्रमन्प्राप्तश्चंडालस्य निवेशनम्॥
शून्ये गोऽस्थिसमाकीर्णे दुर्गंधेन समावृते ॥ १७ ॥
अथापश्यन्मृतं तत्र सारमेयं चिरोषितम् ॥
संशुष्कं गन्धनिर्मुक्तं गृहप्रांते व्यवस्थितम् ॥ १९ ॥
समादाय ततस्तं च आपद्धर्मपरायणः ॥
प्रक्षाल्य सलिले पश्चात्प्रचकर्त तदा मुनिः ॥ १९ ॥
ततश्च श्रपयामास सुसमिद्धे हुताशने ॥
क्षुत्क्षामो भोजनार्थाय ततः पाकाग्रमेव च ॥ ६.९०.२० ॥
समादाय पितॄंस्तर्प्य यावदग्नौ जुहोति सः ॥
तावद्वह्निः परित्यज्य समस्तमपि भूतलम् ॥ २१ ॥
गतश्चादर्शनं सद्यः सर्वेषां क्षितिवासिनाम् ॥
चित्ते कोपं समाधाय शक्रस्योपरि भूरिशः ॥ २२ ॥
एतस्मिन्नंतरे वह्नौ मर्त्यलोकाद्विनिर्गते ॥
विशेषात्पीडिता लोका येऽवशिष्टा धरातले ॥ २३ ॥
एतस्मिन्नंतरे देवा ब्रह्मविष्णुपुरः सराः ॥
वह्नेरन्वेषणार्थाय वभ्रमुर्धरणीतले ॥ २४ ॥
अथ तैर्भ्रममाणैश्च प्रदृष्टोऽभूद्गजो महान् ॥
निश्वसन्पतितो भूमौ वह्नितापप्रपीडितः ॥ २५ ॥
अथ देवा गजं दृष्ट्वा पप्रच्छुस्त्वरयाऽन्विताः ॥
कच्चित्त्वया स दृष्टोऽत्र कानने पावको गज ॥ २६ ॥
॥ गज उवाच ॥ ॥
वंशस्तंबेऽत्र संकीर्णे संप्रविष्टो हुताशनः ॥
सांप्रतं तेन निर्दग्धः कृच्छ्रादत्राहमागतः ॥ २७ ॥
अथ तैर्वेष्टितस्तस्मिन्वंशस्तंबे हुताशनः ॥
देवैर्दत्त्वा गजेंद्रस्य शापं पश्चाद्विनिर्गतः ॥ ॥ २८ ॥
यस्मात्त्वयाहमादिष्टो देवानां वारणाधम ॥
तस्मात्तव मुखे जिह्वा विपरीता भविष्यति ॥ २९ ॥
एवं शप्त्वा गजं शीघ्रं नष्टो वैश्वानरः पुनः ॥
देवाश्चापि तथा पृष्ठे संलग्नास्तद्दिदृक्षया ॥ ६.९०.३० ॥
अथ दृष्टः शुकस्तैश्च भ्रममाणैर्महावने ॥
भोभोः शुक त्वया वह्निर्यदि दृष्टो निवेद्यताम् ॥ ३१ ॥
शुक उवाच ॥ ॥
योऽयं संदृश्यते दूराच्छमीगर्भे च पिप्पलः ॥
एतस्मिंस्तिष्ठते वह्निरश्वत्थे सुरसत्तमाः ॥ ३२ ॥
अत्रस्थो यः कुलायो म आसीच्छिशुसमन्वितः ॥
संदग्धस्तत्प्रतापेन अहंकृच्छ्राद्विनिर्गतः ॥३३॥
तच्छ्रुत्वा तैः सुरैः सर्वैः शमीगर्भः स तत्क्षणात् ॥
वेष्टितः पावकोऽप्याशु शुकं शप्त्वा विनिर्गतः ॥ ३४ ॥
अहं यस्मात्त्वया पाप देवानां संनिवेदितः ॥
तस्माच्छुक न ते वाणी विस्पष्टा संभविष्यति ॥ ३५ ॥
एवमुक्त्वा जातवेदा देवादर्शनवांछया ॥
हाटकेश्वरजे क्षेत्रे देवस्य परमेष्ठिनः ॥ ३६ ॥
जलाशयं सुगम्भीरं पूर्वोत्तरदिक्संस्थितम् ॥
दृष्ट्वा तत्र प्रविष्टस्तु निभृतं च समाश्रितः ॥ ३७ ॥
एतस्मिन्नंतरे तत्र मत्स्यकच्छपदर्दुराः ॥
वह्निप्रतापनिर्दग्धा दृश्यंते शतशो मृताः ॥ ३८ ॥
अथ चैकोऽर्धनिर्दग्ध आयुःशेषेण दर्दुरः ॥
तस्माज्जलाद्विनिष्क्रांतो दृष्टो देवैश्च दूरतः ॥ ३९ ॥
पृष्टश्च ब्रूहि चेद्भेक त्वया दृष्टो हुताशनः ॥
तदर्थमिह संप्राप्ताः सर्वे देवाः सवासवाः ॥ ६.९०.४० ॥
॥ भेक उवाच ॥ ॥
अस्मिञ्जलाशये वह्निः सांप्रतं पर्यवस्थितः ॥
तस्यैते जलमध्यस्था मृता भूरिजलोद्भवाः ॥ ४१ ॥
अस्माकं निधनं प्राप्तं कुटुम्बं सुरसत्तमाः ॥
अहं कृच्छ्रेण निष्क्रांत एतस्माज्जलसंश्रयात् ॥ ४२ ॥
तच्छ्रुत्वा ते सुराः सर्वे सर्वतस्तं जलाशयम् ॥
वेष्टयित्वा स्थितास्तत्र वह्निर्भेकं शशाप ह ॥ ४३ ॥
यस्माद्भेक त्वया मूढ देवेभ्योऽहं निवेदितः ॥
तस्मात्त्वं भविता नूनं विजिह्वोऽत्र धरातले ॥ ४४ ॥
एवमुक्त्वा ततः स्थानात्ततो वह्निर्विनिर्गतः ॥
तावत्स ब्रह्मणा प्रोक्तः स्वयमेव महात्मना ॥ ४५ ॥
भोभो वह्ने किमर्थं त्वं देवान्दृष्ट्वा प्रगच्छसि ॥
त्वमाद्यश्चैव सर्वेषामेतेषां संस्थितो मुखम् ॥ ४६ ॥
त्वय्याहुतिर्हुता सम्यगादित्यमुपतिष्ठते ॥
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ४७ ॥
तस्माद्धाता विधाता च त्वमेव जगतः स्थितः ॥
संतुष्टे धार्यते विश्वं त्वयि रुष्टे विनंक्ष्यति ॥ ४८ ॥
अग्निष्टोमादिका यज्ञास्त्वयि सर्वे प्रतिष्ठिताः ॥
अथ सर्वाणि भूतानि जीवंति तव संश्रयात् ॥ ४९ ॥
त्वमग्ने सर्वभूतानामन्तश्चरसि सर्वदा ॥
तेनैवान्नं च पानं च जठरस्थं पचत्यलम ॥ ६.९०.५० ॥
तस्मात्कुरु प्रसादं त्वं सर्वेषां च दिवौकसाम् ॥
कोपस्य कारणं ब्रूहि यतस्त्यक्त्वा प्रगच्छसि ॥ ५१ ॥ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा देवस्य परमेष्ठिनः ॥
प्रोवाच प्रणयात्कोपं कृत्वा नत्वा च पद्मजम् ॥ ५२ ॥
॥ अग्निरुवाच ॥ ॥
अहं कोपं समाधाय शक्रस्योपरि पद्मज ॥
प्रणष्टो जगदुत्सृज्य यस्मात्तत्कारणं शृणु ॥ ५३ ॥
अनावृष्ट्या महेन्द्रस्य संजातश्चौषधीक्षयः ॥
ततोऽस्म्यहं श्वमांसेन विश्वामित्रेण योजितः ॥ ५४ ॥
एतस्मात्कारणान्नष्टो न कामान्न च संभ्रमात् ॥
अभक्ष्यभक्षणाद्भीतः सत्यमेतन्मयोदितम् ॥५५॥
तच्छ्रुत्वा स चतुर्वक्त्रः शक्रमाह ततः परम् ॥
युक्तमेव शिखी प्राह किमर्थं न च वर्षसि ॥ ५६ ॥
॥ शक्र उवाच ॥ ॥
ज्येष्ठं भ्रातरमुल्लंघ्य शंतनुः पृथिवीपतिः ॥
पितृपैतामहे राज्ये स निविष्टः पितामह ॥ ५७ ॥
एतस्मात्कारणाद्वृष्टिः संनिरुद्धा मया प्रभो ॥
तद्ब्रूहि किं करोम्यद्य त्वं प्रमाणं पितामह ॥ ५८ ॥
॥ पितामह उवाच ॥ ॥
तस्याक्रमस्य संप्राप्तं पापं तेन महीभुजा ॥
उपभुक्तमवृष्ट्याद्य तस्माद्वृष्टिं कुरु द्रुतम् ॥ ५९ ॥
मद्वाक्याद्याति नो नाशं यावदेतज्जगत्त्रयम् ॥
अकालेनापि देवेन्द्र सस्याभावाद्बुभुक्षया ॥ ६.९०.६० ॥
एतस्मिन्नंतरे शक्र आदिदेश त्वरान्वितः ॥
पुष्करावर्तकान्मेघान्वृष्ट्यर्थं धरणीतले ॥ ६१ ॥
तेऽपि शक्रसमादेशात्समस्तधरणीतलम् ॥
तत्क्षणात्पूरयामासुर्गर्जन्तो विद्युदन्विताः ॥ ६२ ॥
अथाब्रवीत्पुनर्ब्रह्मा देवैः सार्धं हुताशनम् ॥
अग्निहोत्रेषु विप्राणां प्रत्यक्षो भव पावक ॥
सांप्रतं त्वं वरं मत्तः प्रार्थयस्वाभिवांछितम् ॥ ६३ ॥
॥ अग्निरुवाच ॥ ॥
अयं जलाशयः पुण्यो मन्नाम्ना पृथिवीतले ॥
ख्यातिं यातु चतुर्वक्त्र वह्नितीर्थमिति स्मृतम् ॥६४॥
अत्र यः प्रातरुत्थाय स्नात्वा श्रद्धा समन्वितः ॥
अग्निसूक्तं जपित्वा च त्वां प्रपश्यति सादरम् ॥
तस्य तुष्टिस्त्वया कार्या द्रुतं मद्वाक्यतः प्रभो ॥ ६५ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
अत्र यः प्रातरुत्थाय स्नात्वा वै वेदविद्द्विजः ॥
अग्निसूक्तं जपित्वा च वीक्षयिष्यति मां ततः ॥ ६६ ॥
अग्निष्टोमस्य यज्ञस्य सकलं लप्स्यते फलम् ॥
अनेकजन्मजं पापं नाशमेष्यति पावक ॥ ६७ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा स भगवान्विरराम पितामहः ॥
पावकोऽपि च विप्राणामग्निहोत्रेषु संस्थितः ॥ ६८ ॥
एवं तत्र समुद्भूतं वह्नितीर्थं महाद्भुतम् ॥
तत्र स्नातो नरः प्रातः सर्वपापैः प्रमुच्यते ॥ ६९ ॥
॥ अग्निरुवाच ॥ ॥ ममातृप्तस्य लोकेश तावद्द्वादशवत्सरान् ॥
क्षुत्पीडासंवृते मर्त्ये न प्राप्तं कुत्रचिद्धविः ॥ ६.९०.७० ॥
भविष्यंति तथा यज्ञा कालेन महता विभो ॥
संजातैः पशुभिर्भूयः सस्यादैरपरैर्भुवि ॥ ७१ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
अत्र ये ब्राह्मणाः केचिन्निवसंति हुताशन ॥
वसोर्द्धाराप्रदानेन ते त्वां नक्तंदिनं सदा ॥ ७२ ॥
तर्पयिष्यंति सद्भक्त्या ततः पुष्टिमवाप्स्यसि ॥
तेऽपि काम्यैर्मनोऽभीष्टैर्भविष्यंति समन्विताः ॥ ७३ ॥
संक्रांति समये येषां वसोर्धाराप्रदायिनाम् ॥
भविष्यति क्षुतं वह्ने हूयमाने तवानल ॥ ७४ ॥
तेषां पापं च यत्किंचिज्ज्ञानतोऽज्ञानतः कृतम् ॥
तद्यास्यति क्षयं सर्वमाजन्ममरणांतिकम्॥ ७५ ॥
त्वयि तुष्टिं गते पश्चाद्भविष्यति महीपतिः ॥
शिबिर्नाम सुविख्यात उशीनरसमुद्रवः ॥ ७६ ॥
स कृत्वा श्रद्धया युक्तः सत्रं द्वादशवार्षिकम्॥
वसोर्द्धाराप्रदानेन वर्षं त्वां तर्पयिष्यति ॥
कलशस्य च वक्त्रेणाविच्छिन्नेन दिवानिशम् ॥ ७७ ॥
ततस्तुष्टिं परां प्राप्य परां पुष्टिमवाप्स्यसि ॥
पूज्यमानो धरापृष्ठे सर्वैर्वेदविदां वरैः ॥ ७८ ॥
अद्यप्रभृति यत्किंचित्कर्म चात्र भविष्यति ॥
शांतिकं पौष्टिकं वापि वसोर्द्धारासमन्वितम् ॥
संभविष्यति तत्सर्वं तव तृप्तिकरं परम्॥ ७९ ॥
अपि यद्वैश्वदेवीयं कर्म किंचिद्द्विजन्मनाम् ॥
वसोर्द्धाराविहीनं च निष्फलं संभविष्यति ॥ ६.९०.८० ॥
यस्माद्भवति संपूर्णं कर्म यज्ञादिकं हि तत् ॥
शांतिकं वैश्वदेवं च पूर्णाहुतिरिहोच्यते ॥ ८१ ॥
यः सम्यक्छ्रद्धया युक्तो वसोर्द्धारां प्रदास्यति ॥
स कामं मनसा ध्यातं समवाप्स्यति कृत्स्नशः ॥ ८२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वसोर्द्धारामाहात्म्यवर्णनंनाम नवतितमोऽध्यायः ॥ ९० ॥ ॥ छ ॥