स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०८८

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
यास्त्वया देवताः प्रोक्ताश्चतस्रः सूतनंदन ॥
चमत्कारी महित्था च महालक्ष्मीस्तथाऽपरा ॥ १ ॥
अंबावृद्धा चतुर्थी च तासां तिस्रः प्रकीर्तिताः॥
विस्तरेण चतुर्थी च अंबावृद्धा न कीर्तिता ॥ २ ॥
एतस्याः सर्वमाचक्ष्व प्रभावं सूतसंभव ॥
केनैषा निर्मिता यात्रा सर्वं विस्तरतो वद ॥ ३ ॥
॥ सूत उवाच ॥ ॥
एषा तपोमयी शक्तिरम्बावृद्धा सुरेश्वरी ॥
यथात्र संस्थिता पूर्वं तत्सर्वं श्रूयतां मम ॥ ४ ॥
चमत्कारमहीपेन पुरमेतद्यदा कृतम्॥
तदा तद्रक्षणार्थाय निर्मिता भावितात्मना ॥
चतस्रो देवता ह्येताः संमतेन द्विजन्मनाम् ॥ ५ ॥
अथ तस्य महीपस्य अंबानामाभवत्सुता ॥
तथान्या वृद्धसंज्ञा च रूपौदार्यगुणान्विते ॥ ६ ॥
उभे ते काशिराजेन परिणीते द्विजोत्तमाः ॥
गृह्योक्तेन विधानेन देवविप्राग्निसंनिधौ ॥ ७ ॥
कस्यचित्त्वथ कालस्य काशिराजस्य भूपतेः ॥
तैः कालयवनैः सार्धमभवत्संगरो महान् ॥ ८ ॥
अथ तैर्निहतः संख्ये सभृत्यबलवाहनः ॥
हरलब्धवरै रौद्रैः काशिराजः प्रतापवान् ॥ ९ ॥
अथांबा चैव वृद्धा च वैधव्यं प्राप्य दुःखदम् ॥
हाटकेश्वरजं क्षेत्रं गत्वा ते वांछितप्रदम् ॥ ६.८८.१० ॥
देव्या आराधने यत्नं कृतवत्यौ ततः परम् ॥
नाशार्थं पतिशत्रूणां धृतवत्यौ शुभव्रतम् ॥ ११ ॥
यावद्वर्षशतं साग्रं न च तुष्टा सुरेश्वरी ॥
ततो वैराग्यमासाद्य वांछंत्यौ स्वतनुक्षयम् ॥ १२ ॥
मंत्रैराथर्वणैर्विप्राः क्षुरिकासूक्तसंभवैः ॥
छित्त्वाच्छित्त्वा स्वमांसानि मंत्रपूतानि भक्तितः ॥ १३ ॥
कृतवत्यौ ततो होमं सुसमिद्धे हुताशने ॥
अग्निकुण्डात्ततस्तस्माश्चतुर्हस्ता शुभानना ॥ १४ ॥
श्वेतवस्त्रा विनिष्क्रांता नारी बालार्कसव्रिभा ॥
तथान्या च सुनेत्रास्या तप्तहाटकसन्निभा । १५ ॥
तस्मात्कुण्डाद्विनिष्क्रांता धृतखड्गा भयावहा ॥
साऽपरापि तथारूपा शक्तिः परमदारुणा ॥ १६ ॥
प्रोचतुस्ते वरं हृत्स्थं प्रार्थ्यतामिति दुर्लभम् ॥ ॥ १७ ॥
॥ ते ऊचतुः ॥ ॥
अस्माकं दयितो भर्त्ता काशिराजः प्रतापवान् ॥
निहतः संगरे क्रुद्धैर्यवनैः कालपूर्वकैः ॥ १८ ॥
युष्मदीय प्रसादेन यथा तेषां परिक्षयः ॥
सञ्जायते महादेव्यौ तथा कार्यमसंशयम् ॥ १९ ॥
स्थातव्यं च तथात्रैव उभाभ्यामपि सादरम् ॥
स्वपुरस्य प्ररक्षार्थमेतत्कृत्यं मतं हि नौ ॥ ६.८८.२० ॥
तयोस्तद्वचनं श्रुत्वा उभे ते देवते ततः॥
संप्रोच्य बाढमित्येवं तस्मिन्कुण्डे व्यवस्थिते ॥ २१ ॥
एतस्मिन्नंतरे तस्मात्कुण्डाच्छतसहस्रशः ॥
निष्क्रांताः संख्यया हीना मातरो नैकरूपिकाः ॥ २२ ॥
एका गजमुखी तत्र तथान्या तुरगानना ॥
सारमेय मुखाश्चान्याः पक्षिच्छागमुखाः पराः ॥ २३ ॥
तिर्यञ्च वपुषश्चान्या वक्त्रैर्मानुषसंभवैः ॥
त्रिशीर्षाः पञ्चशीर्षाश्च दशशीर्षास्तथा पराः ॥ २४ ॥
गुह्य स्थानस्थितैर्वक्त्रैरेकाश्चान्या हृदिस्थितैः ॥
पार्श्वसंस्थैः स्थिताश्चान्या अन्याः पृष्ठिगतैर्मुखैः ॥ २५ ॥
एकहस्ता द्विहस्ताश्च पञ्चहस्तास्तथापराः ॥
अन्या विंशतिहस्ताश्च विहस्ताश्च तथापराः ॥ २६ ॥
बहुपादा विपादाश्च एकपादास्तथापराः ॥
तथान्याश्चार्धपादाश्च अधोवक्त्रा विभीषणाः ॥ ॥ २७ ॥
एकनेत्रा द्विनेत्राश्च त्रिनेत्राश्च तथापराः ॥
काश्चिद्गजसमारूढा हयारूढास्तथापराः ॥ २८ ॥
वृषवानरसिंहाजव्याघ्रसर्पास्थिताः पराः ॥
गोधाश्वरासभारूढास्तथा च विहगाश्रिताः ॥ २९ ॥
कूर्मकुक्कुटसर्पादिसमारूढाः सहस्रशः ॥
प्रकुर्वंत्यो रुदन्त्यश्च गायन्त्यश्च तथा पराः ॥
नृत्यंत्यश्च हसंत्यश्च क्रीडासक्ताः परस्परम् ॥ ६.८८.३० ॥
ऊर्ध्वकेशा विकेशाश्च गात्रकेशाश्च भूरिशः ॥
लंबकेशा विकेशाश्च वाजिकेशास्तथैव च ॥३॥।
ह्रस्वदन्त्यो विदंत्यश्च दीर्घदन्त्यो विभीषणाः ॥
गजदंत्यस्तथैवान्या लोहदंत्योभयावहाः ॥ ३२ ॥
लंबकर्ण्यो विकर्ण्यश्च शूर्पकर्ण्यस्तथा पराः ॥
शंकुकर्ण्यः कुकर्ण्यश्च बहुकर्ण्यः सुकर्णिकाः ॥ ३३ ॥
एकवस्त्रा विवस्त्राश्च बहुवस्त्रास्तथा पराः ॥
चर्मप्रावरणाश्चैव कथाप्रावरणान्विताः ॥ ३४ ॥
खङ्गहस्ताः शराहस्ताः कुंतहस्ताश्च भीषणाः ॥
पाशहस्तास्तथैवान्याः प्रासचापकराः पराः ॥
शूलमुद्गरहस्ताश्च भुशुंडिकरभूषिताः ॥ ३५ ॥
अथ ताभ्यां तथाऽऽकर्ण्य ताः सर्वा हर्षसंयुताः ॥
प्रस्थितास्तत्र ता यत्र ते कालयवनाः स्थिताः ॥३६॥
ततस्ते तत्समालोक्य बलं देवीसमुद्रवम् ॥
रौद्र रूपधरं तीव्रं विकृतं विकृतैर्मुखैः ॥३७॥
विषण्णवदनाः सर्वे भयभीता समंततः ॥
धावतो भक्षितास्ताभिर्देवताभिः सुनिर्दयम् ॥ ३८ ॥
बालवृद्धसमोपेतं तेषां राष्ट्रं दुरात्मनाम् ॥
स्त्रीभिश्च सहितं ताभिर्देवताभिः प्रभक्षितम् ॥३९॥
एवं निर्वास्य तद्राष्ट्रं सर्वास्ता हर्षसंयुताः ॥
भूय एव निजं स्थानं संप्राप्ता द्विजसत्तमाः ॥ ६.८८.४० ॥
ततः प्रोचुः प्रणम्योच्चैस्ताभ्यां विनयपूर्वकम् ॥
हतास्ते यवनाः कृष्णाः सपुत्रपशुबांधवाः ॥४॥।
उद्वासितस्तथा सर्वो देशस्तेषां स वै महान् ॥
सांप्रतं दीयतां कश्चिदाहारस्तृप्तिहेतवे ॥
निवासाय ततः स्थानं किंचिच्चावेद्यतां हि नः ॥ ४२ ॥
॥ देव्यावूचतुः॥ ॥
मर्त्यलोकेऽत्र या नार्यो गर्भवत्यः स्वपंति च ॥
संध्याकालप्रकाशे च तासां गर्भोऽस्तु वो द्रुतम् ॥ ४३ ॥
रुदंत्यो या विनिर्यांति चत्वरेषु त्रिकेषु च ॥
तासां गर्भस्तु युष्माकं संप्रदत्तः प्रभुज्यताम् ॥ ४४ ॥
उच्छिष्टा याः प्रसर्पंति रमन्ते च स्वपंति च ॥
तासां गर्भः समस्तानां युष्माकं भोज नाय वै ॥ ४५ ॥
सूतिकाभवने यस्मिन्नुच्छिष्टं चोपजायते ॥
स बालकस्तु युष्माकं भोजनाय प्रकल्पितः ॥ ४६ ॥
न षष्ठीजागरो यस्य बालकस्य भविष्यति ॥
स भविष्यति भोज्याय युष्माकं नात्र संशयः ॥ ४७ ॥
नाशं यास्यति वा यत्र पावकः सूतिकागृहे ॥
स भविष्यति भोज्याय युष्माकं बालरूपधृक् ॥ ४८ ॥
मांगल्यैः संपरित्यक्तं यद्भवेत्सूतिकागृहम् ॥
तस्मिन्यस्तिष्ठते बालः स युष्माकं प्रकल्पितः ॥४९॥
संध्यायां बालका ये वा स्वपंत्याकाशदेशगाः॥
ते सर्वे भोजनार्थाय युष्माकं संनिवेदिताः ॥ ६.८८.५० ॥
यस्य जन्मदिने प्राप्ते वर्षांते क्रियते न च ॥
मांगल्यं तस्य यद्गात्रं तद्युष्माकं प्रकल्पितम् ॥ ५१ ॥
तैलाभ्यंगं नरः कृत्वा यश्च स्नानं करोति न ॥
स दत्तो भोजनार्थाय युष्माकं नात्र संशयः ॥ ५२ ॥
उच्छिष्टो यः पुमांस्तिष्ठेद्यो वा चत्वरमध्यगः॥
भक्षणीयः स सर्वाभिर्निर्विकल्पेन चेतसा ॥५३ ॥
रजस्वलां व्रजेद्यो वा पुरुषः काममोहितः॥
नग्नः शेते तथा स्नाति भक्षणीयः स सत्वरम् ॥ ५४ ॥
दक्षिणाभिमुखो रात्रौ यश्च स्नाति विमूढधीः ॥
शेते च शयने सोऽपि भक्षणीयश्च सत्वरम् ॥५५॥
उदङ्मुखश्च यो रात्रौ दिवा वा दक्षिणामुखः ॥
मूत्रोत्सर्गं पुरीष वा प्रकुर्याद्भक्ष्य एव सः ॥ ५६ ॥
यः कुर्याद्रजनीवक्त्रे दधिसक्तुप्रभक्षणम् ॥
अंत्यजाभिगमं चाथ भक्षणीयो द्रुतं हि सः ॥ ५७ ॥
॥ सूत उवाच ॥ ॥
एवं ताभ्यां तदा प्रोक्ता देवतास्ताः समंततः ॥
परिवार्य तदा तस्थुः संप्रहृष्टेन चेतसा ॥ ५८ ॥
एतस्मिन्नंतरे राजा चमत्कारः प्रतापवान् ॥
प्रासादं निर्ममे ताभ्यां कैलासशिखरोपमम् ॥ ५९ ॥
ततः प्रभृति ते ख्याते क्षेत्रे तत्र महोदये ॥
अंबावृद्धाभिधाने च पुररक्षापरे सदा ॥ ६.८८.६० ॥
यः पुमान्प्रातरुत्थाय ताभ्यां पश्यति चाननम् ॥
तस्य संवत्सरंयावन्न च च्छिद्रं प्रजायते ॥ ६१ ॥
वृद्ध्यादौ वाथ चांते वा ताभ्यां पूजां करोति यः ॥
न तस्य जायते च्छिद्रं कथंचिदपि भूतले ॥ ६२ ॥
यात्राकाले पुमान्यश्च ताभ्यां पूजां समाचरेत् ॥
स वांछितफलं प्राप्य शीघ्रं स्वगृहमाप्नुयात् ॥ ६३ ॥
सदाष्टम्यां चतुर्दश्यां यस्ताभ्यां बलिमाहरेत् ॥
स कामानाप्नुयादिष्टानिह प्रेत्य च सद्गतिम् ॥ ६४ ॥
यो महानवमीसंज्ञे दिवसे श्रद्धयान्वितः ॥
ताभ्यां समाचरेत्पूजां स सदा स्यादकण्टकी ॥ ॥ ६५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येंऽबावृद्धामाहात्म्यवर्णनंनामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥