स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०८२
॥ सूत उवाच ॥ ॥
तद्दृष्ट्वा पुंडरीकाक्षो गरुडस्य विचेष्टितम् ॥
विस्मितश्चिंतयामास किमिदं सांप्रतं स्थितम् ॥ १ ॥
अपि वज्रप्रहारेण यस्य रोमापि न च्युतम् ॥
तौ पक्षौ सहसा चास्य कथं निपतितौ भुवि ॥ २ ॥
नूनमेतेन या स्त्रीणां कृता निंदा महात्मना॥
दूषितं ब्रह्मचर्यं यच्छांडिलीं समवेक्ष्य च॥३॥
अनया पातितौ पक्षौ तपःशक्तिप्रभावतः॥
नान्यस्य विद्यते शक्तिरीदृशी भुवनत्रये ॥ ४ ॥
ततः प्रसादयामास शांडिलीं गरुडध्वजः ॥
तदर्थं विनयोपेतः स्मितं कृत्वा द्विजोत्तमाः ॥ ५ ॥
॥ श्रीभगवानुवाच ॥ ॥
सामान्यवचनं प्रोक्तं सर्वस्त्रीणामनेन हि ॥
तत्किमर्थं महाभागे त्वया चैवेदृशः कृतः ॥ ६ ॥
॥ शांडिल्युवाच ॥ ॥
मम वक्त्रं समालोक्य स्मितं चक्रे जनार्दन ॥
स्त्रीनिंदा विहितानेन स्वमत्यापि जगद्गुरो ॥ ७ ॥
एतस्मात्कारणादस्य निग्रहोऽयं मया कृतः ॥
मनसा न च वाक्येन न च केशव कर्मणा ॥ ८ ॥
॥ श्रीभगवानुवाच ॥ ॥
तथापि कुरु चास्य त्वं प्रसादं गतकल्मषे॥
मम वाक्यानुरोधेन यदिमां मन्यसे शुभे ॥ ९ ॥
॥ शांडिल्युवाच ॥ ॥
मनसापि मया ध्यातं शुभं वा यदिवाऽशुभम् ॥
नान्यथा जायते देव विशेषात्कोपयुक्तया ॥ ६.८२.१० ॥
तस्मादेष ममादेशादाराध यतु शंकरम् ॥
पक्षलाभाय नान्यस्य शक्तिर्दातुं व्यवस्थिता ॥ ११ ॥
अथवा पुंडरीकाक्ष रूपमीदृग्व्यवस्थितः ॥
एष संस्थास्यते लोके सत्यमेतद्ब्रवीम्यहम् ॥ १२ ॥
॥ सूत उवाच ॥ ॥
तस्यास्तद्वचनं श्रुत्वा तं प्रोवाच जनार्दनः ॥
गरुडं दैन्यसंयुक्तं भासपिंडोपमं स्थितम् ॥ १३ ॥
एष एव वरश्चास्या द्विपदेश्या द्विजोत्तम ॥
पक्षलाभाय यत्प्रोक्तं तव शंभुप्रसादनम् ॥ १४ ॥
तस्मादाराधय क्षिप्रं त्वं देवं शशिशेखरम् ॥
अव्यग्रं चित्तमास्थाय दिवारात्रमतंद्रितः ॥ १५ ॥
येन ते तत्प्रभावेन भूयः स्यात्तादृशं वपुः ॥
तस्य देवस्य माहात्म्यादचिरादपि काश्यप ॥ १६ ॥
तच्छ्रुत्वा गरुडस्तूर्णं धृतपाशुपतव्रतः ॥
संस्थाप्य देवमीशानं ततस्तं तोषमानयत् ॥ १७ ॥
चांद्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥
प्राजापत्यानि चक्रेऽथ पाराकाणि तदग्रतः ॥ १८ ॥
स्नात्वा त्रिषवणं पश्चाद्भस्मस्नान परायणः ॥
जपन्रुद्रशिरो रुद्रान्नीलरुद्रांस्तथापरान् ॥ १९ ॥
चक्रे पूजां स्वयं तस्य स्नापयित्वा यथाविधि ॥
बलिपूजोपहारांश्च विधानेन प्रयच्छति ॥ ६.८२.२० ॥
एवं तस्य व्रतस्थस्य जपपूजापरस्य च ॥
ततो वर्षसहस्रांते गतस्तुष्टिं महेश्वरः ॥
अब्रवीद्वरदोऽस्मीति वृणुष्वेष्टं द्विजोत्तम ॥ ॥ २१ ॥
॥ गरुड उवाच ॥ ॥
पश्यावस्थां ममेशान शांडिल्या या विनिर्मिता ॥
पक्षपातः कृतोऽस्माकं तमहं प्रार्थयामि वै ॥ २२ ॥
त्वयात्रैव सदा लिंगे स्थेयं हर ममाधुना ॥
मम वाक्यादसंदिग्धं यदि चेष्टं प्रयच्छसि ॥ २३ ॥
॥ भगवानुवाच ॥ ॥
अद्यप्रभृति मे चात्र लिंगे वासो भविष्यति ॥
त्वं च तद्रूपसंपन्नो विशेषाद्बलवेगभाक् ॥ २४ ॥
भविष्यसि न संदेहो मत्प्रसादाद्विहंगम ॥
एवमुक्त्वाथ तं देवः स्वयं पस्पर्श पाणिना ॥ २५ ॥
ततोऽस्य पक्षौ संजातौ तत्क्षणादेव सुन्दरौ ॥
तथा रोमाणि दिव्यानि जातरूपोपमानि च ॥ २६ ॥
ततः प्रणम्य तं देवं प्रहष्टः स विहंगमः ॥
गतः स्वभवनं पश्चादनुज्ञाप्य महेश्वरम् ॥ २७ ॥
देवोपि वचनात्तस्य तस्मिँल्लिंगे सदा हरः ॥
निवासमकरोत्सम्यक्प्राप्ते संध्यात्रये सदा ॥२ ॥
तस्य चायतने पुण्ये योगात्प्राणान्परित्यजेत् ॥
प्रायोपवेशनं कृत्वा न स भूयोऽपि जायते २९ ॥
अपि पाप समाचारः कौलो वा निर्घृणोऽपि वा ॥
ब्रह्मघ्नो वा सुरापो वा चौरो वा भ्रूणहाऽपि वा ॥ ६.८२.३० ॥
त्रिकालं पूजयन्यस्तु श्रद्धापूतेन चेतसा ॥।
संवत्सरं वसेत्सोऽपि शिवलोके महीयते ॥ ३१ ॥
अथवा सोमवारेण यस्तं पश्यति मानवः ॥
कृत्वा क्षणं सुभक्त्या यो यावत्संवत्सरं द्विजाः ॥। ॥ ३२ ॥
सोऽपि याति न संदेहः पुरुषः शिवमन्दिरे ॥
विमानवरमारूढः सेव्यमानोऽप्सरोगणैः॥३३॥
तस्मात्सर्वप्रयत्नेन कलिकाले विशेषतः॥
द्रष्टव्यो वै सुपर्णाख्यो देवः श्रद्धासमन्वितैः ॥३४॥
संत्याज्याश्च तथा प्राणास्तदग्रेप्रायसंश्रितैः ॥
वांछद्भिः शिवसांनिध्यं सत्यमेतन्मयोदितम् ॥। ॥ ३५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णेश्वराख्यमाहात्म्यवर्णनंनाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥ ॥ छ ॥