स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०७८

विकिस्रोतः तः
Jump to navigation Jump to search


॥ ऋषय ऊचुः ॥ ॥
ब्रह्मणा कतमे स्थाने तत्र सूत कृतं तपः ॥
वालखिल्यैश्च तैः सर्वैर्मुनिभिः शंसितव्रतैः ॥ १ ॥
॥ सूत उवाच ॥ ॥
तस्या वायव्यदिग्भागे हरवेद्या द्विजोत्तमाः ॥
सम्यक्छ्रद्धाप्रयत्नेन ब्रह्मणा विहितं तपः ॥ २ ॥
पश्चिमे वालखिल्यैश्च जपस्नानपरायणैः ॥
तत्राश्चर्यमभूद्यद्वै पूर्वं ब्राह्मण सत्तमाः ॥
आश्रमे चतुरास्यस्य तद्वो वक्ष्यामि सांप्रतम् ॥ ३ ॥
तत्र दुश्चारिणी काचिद्रात्रौ ब्राह्मणवंशजा ॥
देवदत्तं समासाद्य वल्लभं रमते सदा ॥ ॥ ४ ॥
अज्ञाता पतिना मात्रा तथान्यैरपि बांधवैः ॥
कृष्णपक्षं समासाद्य विजने हृष्टमानसा ॥ ५ ॥
कस्यचित्त्वथ कालस्य दृष्टा सा केनचि द्द्विजाः ॥
तत्रस्था जारसंयुक्ता स्वभर्तुश्च निवेदिता ॥ ६ ॥
अथासौ कोपसंयुक्तस्तस्या भर्ता सुनिष्ठुरैः ॥
वाक्यैस्तां गर्हयामास प्रहारैश्चाप्य ताडयत् ॥ ७ ॥
अथ सा धार्ष्ट्यमासाद्य स्त्रीस्वभावं समाश्रिता ॥
प्रोवाच बाष्पपूर्णाक्षी दीनांजलिपुटा स्थिता ॥ ८ ॥
किं मां दुर्जनवाक्येन त्वं ताडयसि निष्ठुरैः ॥
प्रहारैर्दोषनिर्मुक्तां त्वत्पादप्रणतां विभो ॥ ९ ॥
अहं त्वां शपथं कृत्वा भक्षयित्वाऽथ वा विषम् ॥
प्रविश्य हव्यवाहं वा करिष्ये प्रत्ययान्वितम्॥ ६.७८.१० ॥
अथ तां ब्राह्मणः प्राह यदि त्वं पापवर्जिता ॥
पुरतो देवविप्राणां कुरु दिव्यग्रहं स्वयम्॥ ११ ॥
सा तथेति प्रतिज्ञाय साहसेन समन्विता ॥
दिव्यग्रहं ततश्चक्रे यथोक्तविधिना सती ॥ १२ ॥
शुद्धिं च प्राप्ता सर्वेषां बन्धूनां च द्विजन्मनाम् ॥
पुरतश्च गुरूणां च देवानामपि पापकृत् ॥ १३ ॥
एतस्मिन्नन्तरे तस्याः साधुवादो महानभूत् ॥
धिक्छब्दश्च तथा पत्युः सर्वैर्दत्तः सुगर्हितः ॥ १४ ॥
अहो पापसमाचारो दुष्टोऽयं ब्राह्मणाधमः ॥
अपापां धर्मपत्नीं यो मिथ्यादोषेणयोजयेत् ॥ १५ ॥
एवं स निन्द्यमानस्तु सर्वलोकैर्द्विजोत्तमाः ॥
कोपं चक्रे ततो वह्निं समुद्दिश्य सदुःखितः ॥ १६ ॥
शापं दातुं मतिं चक्रे ततो वह्नेः सुदुःखितः ॥
अब्रवीत्परुषं वाक्यं निन्दमानः पुनःपुनः ॥ ॥ १७ ॥
मया स्वयं प्रदृष्टेयं जारेण सह संगता ॥
त्वया वह्ने सुपापेयं न कस्माद्भस्मसात्कृता ॥ १८ ॥
तस्मात्त्वां पापकर्माणमसत्यपक्षपातिनम् ॥
असंदिग्धं शपिष्यामि रौद्रशापेन सांप्रतम् ॥ १९ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा संक्रुद्धस्य द्विजन्मनः ॥
सप्तार्चिर्भयसंत्रस्तः कृतांजलिरुवाच तम् ॥ ६.७८.२० ॥
॥ अग्निरुवाच ॥ ॥
नैष दोषो मम ब्रह्मन्यन्न दग्धा तव प्रिया ॥
कृतागसाऽपि मे वाक्यं शृणुष्वात्र स्फुटेरितम् ॥ २१ ॥
अनया परकांतेन कृतः सह समागमः ॥
चिरं कालं द्विज श्रेष्ठ त्वया ज्ञाताद्य वासरे ॥ २२ ॥
परं यस्माद्विशुद्धैषा मया दग्धा न सा द्विज ॥
कारणं तच्च ते वच्मि शृणुष्वैकमनाः स्थितः ॥ २३ ॥
यत्रानया कृतः संगः परकांतेन वै द्विज ॥
तस्मिन्नायतने ब्रह्मा रुद्रशीर्षो व्यवस्थितः ॥ २४ ॥
तत्र कृत्वा रतं चित्रं परकांतसमं तदा ॥
पश्यति स्म ततो रुद्रं ब्रह्ममस्तकसंस्थितम् ॥ २५ ॥
ततः प्रक्षालयत्यंगं कुण्डे तत्राग्रतः स्थिते ॥
कृतपापापि तेनैषा शुद्धिं याति शुचिस्मिता ॥ ॥ २६ ॥
अत्र पूर्वं विपाप्माऽभूद्ब्रह्मा लोकपितामहः ॥
सतीवक्त्रं समालोक्य कामार्तोऽपि स पापकृत् ॥ २७ ॥
तस्मान्नास्त्यत्र मे दोषः स्वल्पोऽपि द्विजसत्तम॥
रुद्रशीर्षप्रभावोऽयं तस्य कुण्डोदकस्य च ॥ २८ ॥
तस्मादेनां समादाय संशुद्धां पापवर्जिताम् ॥
गृहं गच्छ द्विजश्रेष्ठ सत्यमेतन्मयो दितम्॥ २९ ॥
॥ ब्राह्मण उवाच ॥ ॥
या मया सहसा दृष्टा स्वयमेव हुताशन ॥
परकांतेन तां नाद्य शुद्धामपि गृहं नये ॥ ६.७८.३० ॥
इत्युक्त्वा च द्विजश्रेष्ठस्तां त्यक्त्वापि शुचिव्रतः ॥
जगाम स्वगृहं पश्चात्तथा जग्मुर्जना गृहान् ॥ ३१ ॥
सापि तेन परित्यक्ता पतिना हृष्टमानसा ॥
ज्ञात्वा तत्तीर्थमाहात्म्यं वैश्वानरमुखेरितम् ॥ ३२ ॥
तेनैव परकांतेन विशेषेण रतिक्रियाम् ॥
तस्मिन्नायतने चक्रे कुण्डे तोयावगाहनम् ॥ ३३ ॥
अथान्ये परलोकस्य भीत्याऽतीव व्यवस्थिताः ॥
विमुखाः परदारेषु नार्यश्चापि पतिव्रताः ॥ ३४ ॥
दूरतोऽपि समभ्येत्य ते सर्वे तत्र मंदिरे ॥
रुद्रशीर्षाभिधानं च प्रचक्रुः सुरतोत्सवम् ॥ ३५ ॥
निमज्जंति ततः कुण्डे तस्मिन्पातकनाशने ॥
भवंति पापनिर्मुक्ता रुद्रशीर्षावलोकनात् ॥ ३६ ॥
एतस्मिन्नंतरे नष्टो धर्मः पत्नीसमुद्भवः ॥
पुरुषाणां ततः स्त्रीणां निजकांतासमुद्भवः ॥ ३७ ॥
यो यां पश्यति रूपाढ्यां नारीमपि कुलोद्भवाम् ॥
स तत्रानीय संहृष्टो भजते द्विजसत्तमाः ॥ ३८ ॥
तथा नारी सुरूपाढ्यं यं पश्यति नरं क्वचित् ॥
सापि तत्र समानीय कुरुते सुरतोत्सवम् ॥ ३९ ॥
लिप्यते न च पापेन कथंचित्तकृतेन च ॥
नरो वा यदि वा नारी तत्तीर्थस्य प्रभावतः ॥ ६.७८.४० ॥
कस्यचित्त्वथ कालस्य तत्र राजा विदूरथः ॥
आनर्त्तविषये जज्ञे वार्धक्यं च क्रमाद्ययौ ॥ ४१ ॥
तस्य भार्याऽभवत्तन्वी तरुणी वररूपधृक् ॥
पश्चिमे वयसि प्राप्ते प्राणेभ्योऽपि गरीयसी ॥ ॥ ४२ ॥
न तस्याः स जराग्रस्तश्चित्ते वसति पार्थिवः ॥
तस्मिंस्तीर्थे समागत्य वांछितं रमते नरः ॥ ४३ ॥
पार्थिवोऽपि परिज्ञाय तस्यास्तच्च विचेष्टितम् ॥
कोपाविष्टस्ततो गत्वा तस्मिन्क्षेत्रे सुशोभने ॥ ४४ ॥
तत्कुण्डं पूरयामास ततः पांशूत्करैर्द्रुतम् ॥
बभंज तं च प्रासादं ततः प्रोवाच दारुणम् ॥ ४५ ॥
यश्चैतत्पूरितं कुण्डं पांशुना निखनिष्यति ॥
प्रासादं च पुनश्चैनं करिष्यति पुनर्नवम् ॥ ४६ ॥
परदारकृतं पापं तस्य संपत्स्यतेऽखिलम् ॥
यदत्र प्रकरिष्यंति मानवाः काममोहिताः ॥४७॥
॥ सूत उवाच ॥ ॥
एवं स पार्थिवः प्रोच्य तामादाय ततः प्रियाम् ॥
जगाम स्वगृहं पश्चात्प्रहृष्टेनांतरात्मना ॥४८॥
अथ तां विरतां ज्ञात्वा सोऽन्यचित्तां प्रियां नृपः ॥
यत्नेन रक्षयामास विश्वासं नैव गच्छति ॥ ४९ ॥
अन्यस्मिन्दिवसे शस्त्रं सूक्ष्मं वेण्यां निधाय सा॥
जगाम शयनं तस्य वधार्थं वरवर्णिनी॥६.७८.५०॥।
ततस्तेन समं हास्यं कृत्वा क्षत्रियभावजम्॥
सुरतं रुचिरैर्भावैर्हावैर्भूरिभिरेव च ॥५१॥।
ततो निद्रावशं प्राप्तं तं नृपं सा नृपप्रिया ॥
स्ववेण्याः शस्त्रमादाय निजघान सुनिर्दया॥५२॥
एवं तस्य फलं जातं सद्यस्तीर्थस्य भंगजम् ॥
आनर्ताधिपते रौद्रं सर्वलोकविगर्हितम् ॥ ५३ ॥
अद्यापि तत्र देवेशो रुद्रशीर्षः स तिष्ठति ॥
लिंगभेदभयात्तेन न स भग्नो द्विजोत्तमाः ॥५४॥
यस्तस्य पुरतः स्थित्वा जपेद्रुद्रशिरः शुचिः ॥
माघशुक्लचतुर्दश्यां पूजयित्वा स्रगादिभिः ॥५५॥
वांछितं लभते चाशु तस्येशस्य प्रभावतः॥
अष्टोत्तरशतं यावद्यो जपेत्पुरतः स्थितः ॥ ५६ ॥
रुद्रशीर्षं न संदेहः स याति परमां गतिम् ॥
एकवारं नरो यो वा तत्पुरः पठति द्विजः ॥ ५७ ॥
नित्यं दिनकृतात्पापान्मुच्यते द्विजसत्तमाः ॥
एतद्वः सर्वमाख्यातं रुद्रशीर्षसमुद्भवम् ॥ ५८ ॥
माहात्म्यं सर्वपापानां सद्यो नाशनकारकम्॥
मंगलं परमं ह्येतदायुष्यं कीर्तिवर्धनम्॥
रुद्रशीर्षस्य माहात्म्यं तस्माच्छ्रोतव्यमादरात् ॥ ५९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये रुद्रशीर्ष (जागेश्वर )माहात्म्यवर्णनंनामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥ ॥ ध ॥