सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०७०

विकिस्रोतः तः


॥ सूत उवाच ॥ ॥
तथान्यापि च तत्रास्ति शक्तिः पापप्रणाशिनी ॥
कार्तिकेयेन निर्मुक्ता हत्वा वै तारकं रणे ॥ १ ॥
तथास्ति सुमहत्कुण्डं स्वच्छोदकसमावृतम् ॥
तेनैव निर्मितं तत्र यः स्नात्वा तां प्रपूजयेत् ॥
स पापान्मुच्यते सद्य आजन्ममरणांति कात् ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्मिन्काले विनिर्मुक्ता सा शक्तिस्तेन नो वद ॥
किमर्थं स्वामिना तत्र किंप्रभावा वद स्वयम् ॥ ॥ ३ ॥
॥ सूत उवाच ॥ ॥
पुरासीत्तारकोनाम दानवोऽतिबलान्वितः ॥
हिरण्याक्षस्य दायादस्त्रैलोक्यस्य भयावहः ॥ ४ ॥
स ज्ञात्वा जनकं ध्वस्तं विष्णुना प्रभविष्णुना ॥
तपस्तेपे ततस्तीव्रं गोकर्णं प्राप्य पर्वतम् ॥ ५ ॥
यावद्वर्षसहस्रांतं शीर्णपर्णा शनः स्थितः॥
ध्यायमानो महादेवं कायेन मनसा गिरा॥६॥
वरुपूजोपहारैश्च नैवेद्यैर्विविधैस्ततः॥
ततो वर्षसहस्रांते स दैत्यो दुःखसंयुतः ॥ ७ ॥
ज्ञात्वा रुद्रमसंतुष्टं ततो रौद्रं तपोऽकरोत् ॥
विनिष्कृत्त्यात्ममांसानि जुहोतिस्म हुताशने ॥ ८ ॥
ततस्तुष्टो महादेवो वृषारूढ उमापतिः ॥
सर्वैरेव गणैः सार्धं तस्य संदर्शनं ययौ ॥ ९ ॥
तत्र प्रोवाच संहृष्टस्तारनादेन नादयन् ॥
दिशः सर्वा महादेवो हर्ष गद्गदया गिरा ॥ ६.७०.१० ॥
भोभोस्तारक तुष्टोऽस्मि साहसं मेदृशं कुरु ॥
प्रार्थयस्व मनोऽभीष्टं येन ते प्रददाम्यहम् ॥ ११ ॥
॥ तारक उवाच ॥
अजेयः सर्वदेवानां त्वत्प्रसादादहं विभो ॥
यथा भवामि संग्रामे त्वां विहाय तथा कुरु ॥ १२ ॥
॥ भगवानुवाच ॥ ॥
मत्प्रसादादसंदिग्धं सर्वमेतद्भविष्यति ॥
त्वया यत्प्रार्थितं दैत्य त्वमेको बलवानिह ॥ १३ ॥
एवमुक्त्वा महादेवः स्वमेव भवनं गतः ॥
तारकश्चापि संहृष्टस्तथैवनिज मन्दिरम् ॥ १४ ॥
ततो दानवसैन्येन महता परिवारितः ॥
गतः शक्रपुरीं योद्धुं विख्याताममरावतीम् ॥ १५ ॥
अथाभवन्महायुद्धं देवानां दानवैः सह ॥
यावद्वर्षसहस्रांते मृत्युं कृत्वा निवर्तनम् ॥ १६ ॥
तत्राभवत्क्षयो नित्यं देवानां रणमूर्धनि ॥
विजयो दानवानां च प्रसादाच्छूलपा णिनः ॥ १७ ॥
ततश्चक्रुरुपायांस्ते विजयाय दिवौकसः ॥
वर्माणि सुविचित्राणि यन्त्राणि परिखास्तथा ॥ १८ ॥
अन्यान्यपि शरीरस्य रक्षणार्थं प्रयत्नतः ॥
तथैव योधमुख्यानां विशेषाद्द्विजसत्तमाः ॥ १९ ॥
ससृजुस्ते सुराधीशा दानवेभ्यो दिवानिशम् ॥ ६.७०.२० ॥
मुद्गरा भिंडिपालाश्च शतघ्न्योऽथ वरेषवः ॥
प्रासाः कुन्ताश्च भल्लाश्च तस्मिन्काले विनिर्मिताः ॥
विशेषाहवसंबन्धव्यूहानां प्रक्रियाश्च याः ॥ २१ ॥
तथान्यानि विचित्राणि कूटयुद्धान्यनेकशः ॥
भीषिकाः कुहकाश्चैव शक्रजालानि कृत्स्नशः ॥ २२ ॥
न च ते विजयं प्रापुस्तथापि द्विजसत्तमाः ॥
दानवेभ्यो महायुद्धे प्रहारैर्जर्जरीकृताः॥२३॥
अथ प्राह सहस्राक्षो भयत्रस्तो बृहस्पतिम् ॥
दिनेदिने वयं दैत्यैर्विजयामो द्विजोत्तम ॥ २४ ॥
यथायथा रणार्थाय सदुपायान्करोम्यहम् ॥
तथातथा पराभूतिर्जायते मे महाहवे ॥ २५ ॥
तदुपायं सुराचार्य स्वबुद्ध्या त्वं प्रचिन्तय ॥
येन मे स्याज्जयो युद्धे तव कीर्तिरनिन्दिता ०। २६ ॥
॥ सूत उवाच ॥ ॥
ततो बृहस्पतिः प्राह चिरं ध्यात्वा शचीपतिम् ॥
प्रहृष्टवदनो ज्ञात्वा जयोपायं महाहवे ॥ ॥ २७ ॥
मया शक्र परिज्ञातः स उपायो महाहवे ॥
जीयन्ते शत्रवो येन लीलयैवापि भूरिशः ॥ २८ ॥
यदाभीष्टं वरं तेन प्रार्थितस्त्रिपुरांतकः ॥
तदैवं वचनं प्राह प्रणिपत्य मुहुर्मुहुः ॥ २९ ॥
अजेयः सर्वदेवानां त्वत्प्रसादादहं विभो ॥
यथा भवामि संग्रामे त्वां विहाय तथा कुरु ।। ६.७०.३०
न तं स्वयं महादेवः स्वशिष्यं सूदयिष्यति ॥
विषवृक्षमपि स्थाप्य कश्छिनत्ति पुनः स्वयम् ॥ ३१ ॥
यो वै पिता स पुत्रः स्याच्छ्रुतिवाक्यमिदं स्मृतम् ॥
तस्माज्जनयतु क्षिप्रं हरस्तन्नाशकृत्सुतम् ॥ ३२ ॥
येन सेनाधिपत्ये तं विनियोज्य महाहवम् ॥
कुर्मो दैत्यैः समं शस्त्रैः प्राप्नुयाम ततो जयम् ॥३३॥
एष एव उपायोऽत्र मया ते परिकीर्तितः ॥
विजयाय सहस्राक्ष नान्योऽस्ति भुवनत्रये ॥ ३४ ॥
ततो देवगणैः सर्वैः समेतः पाकशासनः ॥।
तमर्थं प्रोक्तवाञ्छंभुं विनयावनतः स्थितः ॥ ३५ ॥
सुतस्य जननार्थाय कुरु यत्नं वृषध्वज॥
येन सेनाधिपत्ये तं योजयामि दिवौकसाम् ॥३६॥
प्राप्नोम्यहं च संग्रामे विजयं त्वत्प्रसादतः ॥
निहत्य दानवान्सर्वांस्तारकेण समन्वितान् ॥ ३७ ॥
नान्यथा विजयो मे स्यात्संग्रामे दानवैः सह॥।
इति मां प्राह देवेज्यो ज्ञात्वा सम्यङ्महामतिः ॥ ३८ ॥
अथोवाच विहस्योच्चैः शंकरस्त्रिदशेश्वरम् ॥
करिष्यामि वचः क्षिप्रं तव शक्र न संशयः॥ । ॥ ३९ ॥
पुत्रमुत्पादयिष्यामि सर्वदैत्यविनाशकम् ॥
यं त्वं सेनापतिं कृत्वा जयं प्राप्स्यसि सर्वदा ॥ ६.७०.४० ॥
एवमुक्त्वा महादेवो गत्वा कैलास पर्वतम् ॥
गौर्या समं ततश्चक्रे कामधर्मं यथोचितम् ॥ ४१ ॥
हावैर्भावैः समोपेतं हास्यैरन्यैस्तदात्मिकैः ॥
यावद्वर्षसहस्रांतं दिव्यं चैव निमेषवत् ॥ ॥ ४२ ॥
अथ देवगणाः सर्वे भयसंत्रस्तमानसाः ॥
चक्रुर्मंत्रं तदर्थं हि तारकेण प्रपीडिताः ॥ ४३ ॥
सहस्रं वत्सराणां तु रतासक्तस्य शूलिनः ॥
अतिक्रांतं न देवानां तेन कृत्यं विनिर्मितम् ॥ ४४ ॥
तस्माद्गच्छामहे तत्र यत्र देवो महेश्वरः ॥
संतिष्ठते समं गौर्या कैलासे विजने स्थितः ॥४५॥।
ततस्तत्रैव संजग्मुः सर्वे देवाः सवासवाः ॥
उद्वहन्तः परामार्तिं तारकारिसमुद्भवाम् ॥ ४६ ॥
अथ कैलासमासाद्य यावद्यांति भवांतिकम्॥
निषिद्धा नंदिना तावन्न गंतव्यमतः परम् ॥ ४७ ॥
रहस्ये भगवान्सार्धं पार्वत्या समवस्थितः ॥
अस्माकमपि नो गम्यं तस्मात्तावन्न गम्यताम् ॥ ४८ ॥
ततस्तैर्विबुधैः सर्वैः प्रेषितस्तत्र चानिलः॥
किं करोति महादेवः शीघ्रं विज्ञायतामिति ॥ ४९ ॥
अथ वायुर्गतस्तत्र यत्रास्ते भगवाञ्छिवः ॥
गौर्या सह रतासक्त आनन्दं परमं गतः ॥ ६.७०.५० ॥
अथ प्रचलिते शुक्रे स्थानादप्राप्तयोनिके ॥
देवेन वीक्षितो वायुर्नातिदूरे व्यवस्थितः ॥ ५१ ॥
ततो व्रीडा समोपेतस्तत्क्षणादेव चोत्थितः ॥
भावासक्तां प्रियां त्यक्त्वा मा मोत्तिष्ठेतिवादिनीम् ॥ ५२ ॥
अब्रवीदथ तं वायुं विनयावनतं स्थितम् ॥
किमर्थं त्वमिहायातः कच्चित्क्षेमं दिवौकसाम् ॥ ५३ ॥
॥ वायुरुवाच ॥ ॥
एते शक्रादयो देवा नंदिना विनिवारिताः ॥
तारकेण हतोत्साहास्तिष्ठंति गिरिरोधसि ॥ ५४ ॥
तस्मादेतान्समाभाष्य समाश्वास्य च सादरम् ॥
प्रेषयस्व द्रुतं तत्र यत्र ते दानवाः स्थिताः ॥ ५५ ॥
अथ तानाह्वयामाम तत्क्षणात्त्रिपुरांतकः ॥
संप्राह चविषण्णास्यः कृतांजलिपुटान्स्थितान् ॥ ५६ ॥
॥ श्रीभगवानुवाच ॥ ॥
युष्मत्कृते समारंभः पुत्रार्थं यो मया कृतः ॥
स्वस्थानाच्चलिते शुक्रे कृतो मोघोद्य वायुना ॥ ५७ ॥
एतद्वीर्यं मया धैर्यात्स्तंभितं लिंगमध्यगम् ॥
अमोघं तिष्ठते सर्वं क्व दधामि निवेद्यताम्॥ ५८ ॥
येन संजायते पुत्रो दानवांतकरः परः ॥
सेनानाथश्च युष्माकं दुर्द्धरः समरे परैः ॥ ५९ ॥
एतत्कल्पाग्निसंकाशं धर्तुं शक्नोति नापरः ॥
विना वैश्वानरं तस्माद्दधात्वेष सनातनम्॥ ६.७०.६० ॥
येन तत्र प्रमुञ्चामि सुताय विजयाय च ॥
एतद्वीर्यं महातीव्रं द्वादशार्कसमप्रभम् ॥ ॥ ६१ ॥
अथ प्राहुः सुराः सर्वे वह्निं संश्लाघ्य सादराः ॥
त्वं धारयाग्ने वक्त्रांते वीर्यमेतद्भवोद्भवम् ॥ ६२ ॥
ततः प्रसारयामास स्ववक्त्रं पावको द्रुतम्॥
कुर्वञ्छक्रसमादेशमविकल्पेन चेतसा ॥६३॥
शंकरोऽप्यक्षिपत्तत्र कामबाणप्रपीडितः ॥
गौरीं भगवतीं ध्यायन्नानन्दं परमं गतः॥६४॥
पावकोऽपि भृशं तेन कल्पाग्निसदृशेन च ॥
दह्यमानोऽक्षिपद्भूमौ शरस्तंबे सुविस्तरे॥६५॥
एतस्मिन्नंतरे प्राप्ता भ्रममाणा इतस्ततः॥
भार्यास्तत्र मुनीनां ताः षण्णां षट्कृत्तिकाः शुभाः॥६६॥
तासां निदेशयामास स्वयमेव शतक्रतुः ॥
एतद्बीजं त्रिनेत्रस्य परिपाल्यं प्रयत्नतः ॥ ६७ ॥
अत्र संपत्स्यते पुत्रो द्वादशार्कसमप्रभः ॥
भवतीनामपि प्रायः पुत्रत्वं संप्रयास्यति ॥ ६८ ॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खंडे हाटकेश्वरक्षेत्रमाहात्म्ये कार्तिकेयोत्पत्तिवृत्तांतवर्णनंनाम सप्ततितमोऽध्यायः ॥ ६.७०.७० ॥ ॥ छ ॥