स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०६६

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
तथा तत्रास्ति विख्यातं रामह्रद इति स्मृतम् ॥
यत्र ते पितरस्तेन रुधिरेण प्रतर्पिताः ॥ १ ॥
तत्र भाद्रपदे मासि योऽमावास्यामवाप्य च ॥
पितॄन्संतर्पयेद्भक्त्या सोऽश्वमेधफलं लभेत् ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
अत्याश्चर्यमिदं सूत यद्ब्रवीषि महामते ॥
यत्तेन पितरस्तत्र रुधिरेण प्रतर्पिताः ॥ ३ ॥
पितृणां तर्पणार्थाय मेध्याः संकीर्तिता बुधैः ॥
पदार्था रुधिरं प्रोक्तं राक्षसानां प्रतर्पणे ॥ ४ ॥

श्रुतिस्मृतिविरुद्धं च कर्म सद्भिर्विगर्हितम् ॥
जामदग्न्येन तच्चीर्णं कस्मात्सूत वदस्व नः ॥ ५ ॥
॥ सूत उवाच॥ ॥
तेन कोपवशात्कर्म प्रतिज्ञां परिरक्षता ॥
तत्कृतं तर्पिता येन पितरो रुधिरेण ते ॥ ६ ॥
पिता तस्य पुरा विप्रा जमदग्निर्निपातितः ॥
क्षत्रियेण स्वधर्मस्थो विना दोषं द्विजोत्तमाः ॥ ७ ॥
ततः कोपपरीतेन तेन प्रोक्तं महात्मना ॥
रक्तेन क्षत्रियोत्थेन संतर्प्याः पितरो मया ॥ ८ ॥
एतस्मात्कारणात्तेन रुधिरेण महात्मना ॥
पितरस्तर्पिता सम्यक्तिलमिश्रेण भक्तितः ॥ ९ ॥
॥ ऋषय ऊचुः ॥ ॥
जमदग्निर्हतः कस्मात्क्षत्रियेण महामुनिः ॥
किंनामा स च भूपालो विस्तराद्वद सूत तत् ॥ ६.६६.१० ॥
॥ सूत उवाच ॥ ॥
ऋचीकतनयः पूर्वं जमदग्निरिति स्मृतः ॥
हाटकेश्वरजे क्षेत्रे तत्रासीद्दग्धकल्मषः ॥ ११ ॥
चत्वारस्तस्य पुत्राश्च बभूवुर्गुणसंयुताः ॥
जघन्योऽपि गुणज्येष्ठस्तेषां रामो बभूव ह ॥ १२ ॥
कदाचिद्वसतस्तस्य जमदग्नेर्महावने ॥
पुत्रेषु कन्दमूलार्थं निर्गतेषु वनाद्बहिः ॥ १३ ॥
एतस्मिन्नंतरे प्राप्तो हैहयाधिपतिर्बली ॥
सहस्रार्जुन इत्येव विख्यातो यो महीतले ॥ १४ ॥
मृगलिप्सुर्वने तस्मिन्भ्रममाण इतस्ततः ॥
श्रमार्तो वृषराशिस्थे भास्करे दिनमध्यगे ॥ १५ ॥
ततस्तमाश्रमं दृष्ट्वा नानाद्रुम समाकुलम् ॥
चतुरंगेन सैन्येन सहितः प्रविवेश ह ॥।६॥
अथापश्यत्स तत्रस्थं जमदग्निं महामुनिम् ॥
उपविष्टं कृतस्नानं देवार्चनपरायणम्॥।७॥
अथ तं पार्थिवं दृष्ट्वा स मुनिस्तुष्टिसंयुतः ॥
अर्घं दत्त्वा यथान्यायं स्वागतेनाभिनंद्य च ॥ १८ ॥
सोऽपि तं प्रणिपत्योच्चैर्विनयेन समन्वितः ॥
प्रतिसंभाषयामास कुशलं पर्यपृच्छत ॥ १९ ॥
॥ राजोवाच ॥ ॥
कच्चित्ते कुशलं विप्र पुत्रशिष्यान्वितस्य च ॥
साग्निहोत्र कलत्रस्य परिवारयुतस्य च ॥ ६.६६.२० ॥
अद्य मे सफलं जन्म जीवितं सफलं च मे ॥
यत्त्वं तपोनिधिर्दृष्टः सर्वलोकनमस्कृतः ॥ २१ ॥
एवमुक्त्वा स राजर्षिर्विश्रम्य सुचिरं ततः ॥
पीत्वापस्तमुवाचेदं प्रणिपत्य महामुनिम्॥ २२ ॥
अनुज्ञां देहि मे ब्रह्मन्प्रयास्यामि निजं गृहम्॥
मम कृत्यं समादेश्यं येन ते स्यात्प्रयोजनम् ॥ २३ ॥
॥ जमदग्निरुवाच ॥ ॥
देवतार्चनवेलायां त्वं मे गृहमुपागतः ॥
मनोरथ इव ध्यातः सर्वदेवमयोऽतिथिः ॥ २४ ॥
तस्मान्मेऽस्ति परा प्रीतिर्भक्तिश्च नृपसत्तम ॥
तत्कुरुष्व मया दत्तं स्वहस्तेनैव भोजनम् ॥ २५ ॥
राजा वा ब्राह्मणो वाथ शूद्रो वाप्यंत्यजोऽपि वा ॥
वैश्वदेवान्तसंप्राप्तः सोऽतिथिः स्वर्गसंक्रमः ॥ २६ ॥
॥ राजोवाच ॥ ॥
ममैते सैनिका ब्रह्मञ्छतशोऽथ सहस्रशः ॥
तैरभुक्तैः कथं भोक्तुं युज्यते मम कीर्तय ॥ २७ ॥
॥ जमदग्निरुवाच ॥ ॥
सर्वेषां सैनिकानां ते संप्रदास्यामि भोजनम् ॥
नात्र चिंता त्वया कार्या मुनिर्निष्किंचनो ह्यहम् ॥ २८ ॥
यैषा पश्यति राजेंद्र धेनुर्बद्धा ममांतिके ॥
एषा सूते मनोभीष्टं प्रार्थिता सर्वदैव हि ॥ २९ । ॥
॥ सूत उवाच ॥ ॥
ततश्च कौतुकाविष्टः स नृपो द्विजसत्तमाः ॥
बाढमित्येव संप्रोच्य तस्मिन्नेवाश्रमे स्थितः ॥ ६.६६.३० ॥
ततः संतर्प्य देवांश्च पितॄंश्च तदनंतरम् ॥
पूजयित्वा हविर्वाहं ब्राह्मणांश्च ततः परम् ॥ ३१ ॥
उपविष्टस्ततः सार्धं सर्वैर्भृत्यैर्बुभुक्षितैः ॥
श्रमार्तैर्विस्मयाविष्टैः कृते तस्य द्विजोत्तमाः ॥ ३२ ॥
ततः स प्रार्थयामास तां धेनुं मुनिसत्तमः ॥
यो यत्प्रार्थयते देहि भोज्यार्थं तस्य तच्छुभे ॥ ३३ ॥
ततः सा सुषुवे धेनुरन्नमुच्चावचं शुभम् ॥
पक्वान्नं च विशेषेण चित्ताह्लादकरं परम् ॥ ३४ ॥
ततः खाद्यं च चव्यं च लेह्यं चोष्यं तथैव च ॥
व्यंजनानि विचित्राणि कषायकटुकानि च ॥
अम्लानि मधुराण्येव तिक्तानि गुणवंति च ॥ ३५ ॥
एवं प्राप्य परां तृप्तिं तया धेन्वा स भूपतिः ॥
सेवकैः सबलैः सार्ध मन्नैरमृतसंभवैः ॥ ३६ ॥
ततो भुक्त्यवसाने तु प्रार्थयामास भूपतिः ॥
तां धेनुं विस्मयाविष्टो जमदग्निं महामुनिम् ॥ ३७ ॥
कामधेनुरियं ब्रह्मन्नार्हारण्यनिवासिनाम् ॥
मुनीनां शान्तचित्तानां तस्माद्यच्छ मम स्वयम् ॥ ३८ ॥
येनाऽकरान्करोम्यद्य लोकांस्तस्याः प्रभावतः ॥
साधयामि च दुर्गस्थाञ्छत्रून्भूरिबलान्वितान् ॥ ३९ ॥
एवं कृते तव श्रेयो भविष्यति च सद्यशः ॥
इह लोके परे चैव तस्मात्कुरु मयोदितम् ॥ ६.६६.४० ॥ ॥
॥ जमदग्निरुवाच ॥ ॥
होमधेनुरियं राजन्ममैका प्राणसंमता ॥
अदेया सर्वदा पूज्या तस्मान्नार्हसि याचितुम् ॥ ४१ ॥
॥ राजोवाच ।१ ॥
अहं शतसहस्रं ते यच्छाम्यस्याः कृते द्विज ॥
धेनूनामपरं वित्तं यावन्मात्रं प्रवांछसि ॥ ४२ ॥
॥ जमदग्निरुवाच ॥ ॥
अविक्रेया महाराज सामान्यापि हि गौः स्मृता ॥
किं पुनर्होमधेनुर्या प्रभावैरीदृशैर्युता ॥ ४३ ॥
विमोहाद्ब्राह्मणो यो गां विक्रीणाति धनेच्छया ॥
विक्रीणाति न सन्देहः स निजां जननीमिह ॥ ४४ ॥
सुरां पीत्वा द्विजं हत्वा द्विजानां निष्कृतिः स्मृता ॥
धेनुविक्रयकर्तॄणां प्रायश्चित्तं न विद्यते ॥ ४५ ॥
॥ राजोवाच ॥ ॥
यदि यच्छसि नो विप्र साम्ना धेनुमिमां मम ॥
बलादपि हरिष्यामि तस्मात्साम्ना प्रदीयताम् ॥ ४६ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा कोपसंयुक्तो जमदग्निर्द्विजोत्तमाः ॥
अस्त्रमस्त्रमिति प्रोच्य समुत्तस्थौ सभातलात् ॥ ४७ ॥
ततस्ते सेवकास्तस्य नृपतेश्चित्तवेदिनः ॥
अप्राप्तशस्त्रं तं विप्रं निजघ्नुर्निशितायुधैः ॥ ४८ ॥
तस्यैवं वध्यमानस्य जमदग्नेर्महात्मनः ॥
रेणुकाख्या प्रिया भार्या पपातोपरि दुःखिता ॥ ॥ ४९ ॥
साऽपि नानाविधैस्तीक्ष्णैः खण्डिता वरवर्णिनी ॥
आयुःशेषतया प्राणैर्न कथंचिद्वियोजिता ॥ ६.६६.५० ॥
एवं हत्वा स विप्रेन्द्रं जमदग्निं महीपतिः ॥
तां धेनुं कालयामास यत्र माहिष्मती पुरी ॥ ५१ ॥
अथ सा काल्यमाना च धेनुः कोपसमन्विता ॥
जमदग्निं हतं दृष्ट्वा ररम्भ करुणं मुहुः ॥ ५२ ॥
तस्याः संरम्भमाणाया वक्त्रमार्गेण निर्गताः ॥
पुलिन्दा दारुणा मेदाः शतशोऽथ सहस्रशः ॥ ५३ ॥
नानाशस्त्रधराः सर्वे यमदूता इवापराः ॥
प्रोचुस्तां सादरं धेनुमाज्ञां देहि द्रुतं हि नः ॥ ५४ ॥
साऽब्रवीद्धन्यतामेतद्धैहयाधिपतेर्बलम् ॥
अथ तैः कोपसंयुक्तैर्दारुणैर्म्लेच्छजातिभिः ॥
विनाशयितुमारब्धं शितैः शस्त्रैर्निरर्गलम् ॥ ५५ ।१
न कश्चित्पुरुषस्तेषां सम्मुखोऽप्यभवद्रणे ॥
किं पुनः सहसा योद्धुं भयेन महतान्वितः ॥ ५६ ॥
अथ भग्नं बलं दृष्ट्वा वध्यमानं समंततः ॥
पुलिन्दैर्दारुणाकारैः प्रोचुस्तं मन्त्रिणो नृपम् ॥ ५७ ॥
तेजोहानिः परा तेऽद्य जाता ब्रह्मवधाद्विभो ॥
तस्माद्धेनुं परित्यज्य गम्यतां निजमंदिरम् ॥ ५८ ॥
यावन्नागच्छते तस्य रामोनाम सुतो बली ॥
नो चेत्तेन हतोऽत्रैव सबलो वधमेष्यसि ॥ ५९ ॥
नैषा शक्या बलान्नेतुं कामधेनुर्महोदया ॥
शक्तिरूपा करोत्येवं या सृष्टिं स्वयमेव हि ॥ ६.६६.६० ॥
ततः स पार्थिवो भीतस्तेषां वाक्याद्विशेषतः ॥
जगाम हित्वा तां धेनुं स्वस्थानं हतसेवकः ॥ ६१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जमदग्निवधवर्णनंनाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥ ॥ छ ॥