स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०६५

विकिस्रोतः तः


॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति तडागं देवनिर्मितम् ॥
यत्रानर्तो नृपः सिद्धः सुहयो नाम नामतः ॥ १ ॥
तेनैव भूभुजा तत्र लिंगं संस्थापितं शुभम् ॥
आनर्तेश्वरसंज्ञं च सर्व सिद्धिप्रदं नृणाम् ॥ २ ॥
तत्रांगारकषष्ठ्यां यस्तडागे स्नानमाचरेत् ॥
स प्राप्नोति नरः सिद्धिं यथाऽऽनर्ताधिपेन च ॥ ३ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं सिद्धिस्तु संप्राप्ता आनर्तेन महात्मना ॥
सर्वं कथय तत्सूत सर्वं वेत्सि न संशयः ॥ ४ ॥
॥ सूत उवाच ॥ ॥
आनर्तः सुहयो नाम पुरासीत्पृथिवीपतिः ॥
सर्वारिभिर्हतो युद्धे पलायनपरायणः ॥
उच्छिष्टो म्लेच्छसंस्पृष्ट एकाकी बहुभिर्वृतः ॥ ५ ॥
अथ तस्य कपालं च कापालिक व्रतान्वितः ॥
जगृहे निजकर्मार्थं ज्ञात्वा तं वीरसंभवम् ॥ ६ ॥
आनर्तेश्वरसांनिध्ये वसमानो वने स्थितः ॥
स रात्रौ तेन तोयेन सर्वदेवमयेन च ॥ ॥ ७ ॥
तडागोत्थेन संपूर्णं रात्रौ कृत्वा प्रमुंचति ॥
आसीत्पूर्वं वणिङ्नाम्ना सिद्धसेन इति स्मृतः ॥
धनी भृत्यसमोपेतः सदा पुण्यपरायणः ॥ ८ ॥
कस्यचित्त्वथ कालस्य पण्यबुद्ध्या द्विजोत्तमाः ॥
प्रस्थितश्चोत्तरां काष्ठां स सार्थेन समन्वितः ॥ ९ ॥
अथ प्राप्तः क्रमात्सर्वैः स गच्छन्मरुमंडल म् ॥
वृक्षोदकपरित्यक्तं सर्वसत्त्वविवर्जितम्॥ ६.६५.१० ॥
तत्र रात्रिं समासाद्य श्रांताः पांथाः समन्ततः॥
सुप्ताः स्थानानि संसृत्य गता निद्रावशं तथा ॥ ११ ॥
ततः प्रत्यूषमासाद्य समुत्थाय च सत्वरम् ॥
प्रस्थिता उत्तरां काष्ठां मुक्त्वैकं शूद्रसेवकम् ॥ १२ ॥
स वै मार्गपरिश्रांतो गत्वा निद्रावशं भृशम् ॥
न जजागार जातेऽपि प्रयाणे बहुशब्दिते ॥ १३ ॥
न च तैः स स्मृतः सार्थैर्यैः समं प्रस्थितो गृहात् ॥
न च केनापि संदृष्टः स तु रोधसि संस्थितः ॥ १४ ॥
एवं गते ततः सार्थे प्रोद्गते सूर्यमंडले ॥
तीव्रतापपरिस्पृष्टो जजागार ततः परम् ॥१५॥
यावत्पश्यति नो किञ्चित्तस्मिन्स्थाने स सार्थकम्॥
न च तेषां मरौ तस्मिँल्लक्ष्यते पदपद्धतिः॥।६॥
ततो दुःखपरीतात्मा धावमान इतस्ततः॥
पतितो मेदिनीपृष्ठे मध्याह्ने क्षुत्तृषार्दितः ॥।७॥
एवं तस्य तृषार्तस्य पतितस्य धरातले ॥
धृतप्राणस्य कृच्छ्रेण संयातोऽस्ताचलं रविः ॥ १८ ॥
ततः किंचित्ससंज्ञोऽभून्मंदीभूते दिवाकरे ॥
चिन्तयामास चित्तेन क्वाहं गच्छामि सांप्रतम् ॥ १९ ॥
न लक्ष्यते क्वचिन्मार्गो दृश्यते न च मानुषम् ॥
नात्र तोयं न च च्छाया नूनं मे मृत्यु रागतः ॥ ६.६५.२० ॥
एवं चिन्ताप्रपन्नस्य तस्य शूद्रस्य निर्जने ॥
मरौ तस्मिन्समायाता शर्वरी तदनन्तरम् ॥ २१ ॥
अथ क्षणेन शुश्राव स गीतं मधुरध्वनि ॥
पठतां नन्दिवृद्धानां तथा शब्दं मनोहरम् ॥ २२ ॥
अथापश्यत्क्षणेनैव प्रेतसंघैः सभावृतम् ॥
प्रेतमेकं च सर्वेषामाधिपत्ये व्यव स्थितम् ॥ २३ ॥
ततस्ते पार्श्वगाः प्रेता एके नृत्यं प्रचक्रिरे ॥
तत्पुरो गीतमन्ये तु स्तुतिं चैव तथा परे ॥ २४ ॥
अथासौ प्राह तं शूद्रमतिथे कुरु भोजनम् ॥
स्वेच्छया पिब तोयं च श्रेयो येन भवेन्मम ॥ २५ ॥
ततः स भोजनं चक्रे क्षुधार्तश्च पपौ जलम् ॥
भयं त्यक्त्वा सुविश्रब्धः प्रेतराजस्य शासनात् ॥ २६ ॥
ततः प्रेताश्च ते सर्वे प्रेतत्वेन समन्विताः ॥
यथाज्येष्ठं यथान्यायं प्रचक्रुर्भोजनक्रियाम्॥२७॥
एवं तेषां समस्तानां विलासैः पार्थिवोचितैः ॥
अतिक्रान्ता निशा सर्वा क्रीडतां द्विजसत्तमाः ॥ २८ ॥
ततः प्रभाते विमले प्रोद्गते रविमंडले ॥
यावत्पश्यति शूद्रः स तावत्तत्र न किञ्चन ॥ २९ ॥
ततश्च चिन्तयामास किमेतत्स्वप्नदर्शनम् ॥
चित्तभ्रमोऽथवाऽस्माकमिन्द्रजालमथापि वा ॥ ६.६५.३० ॥
अथवा सत्यमेतद्धि यतो मे तृप्तिरुत्तमा ॥
संजातेयं क्षुधार्त्तस्य पिपासाकुलितस्य च ॥३॥।
एवं चिन्तयमानस्य भास्करो गगनांगणम् ॥
समारुरोह तापेन तापयन्धरणीतलम् ॥ ३२ ॥
ततः कंचित्समाश्रित्य स्वल्पच्छायं महीरुहम् ॥
प्राप्तवान्दिवसस्यांतं क्षुत्पिपासाप्रपीडितः ॥ ३३ ॥
ततो निशामुखे प्राप्ते भूयोऽपि प्रेतराजकम् ॥
प्रेतैस्तैश्चसमोपेतं तथारूपं व्यलोकयत् ॥ ३४ ॥
तथैव भोजनं चक्रे तस्यातिथ्यसमुद्भवम् ॥
भयेन रहितः शूद्रो हर्षेण महतान्वितः ॥ ३५ ॥
एवं तस्य निशावक्त्रे नित्यमेव स भूपतिः ॥
आतिथ्यं प्रकरोत्येव समागत्य तथैव च ॥ ३६ ॥
ततोऽन्यदिवसे प्राप्ते तेन शूद्रेण भूपतिः ॥
पृष्टः किमेतदाश्चर्यं दृश्यते रजनीमुखे ॥ ३७ ॥
विभवस्ते महाभाग प्रणश्यति निशाक्षये ॥
एतत्कीर्तय मे गुह्यं न चेत्प्रेतप संस्थितम् ॥
अत्र कौतूहलं जातं दृष्ट्वेदं सुविचेष्टितम् ॥ ३८ ॥
॥ प्रेत उवाच ॥ ॥
अस्ति पुण्यं महाक्षेत्रं हाटकेश्वरसंज्ञितम् ॥
गंगा च यमुना चैव स्थिते तत्र च संगमे ॥ ३९ ॥
ताभ्यामतिसमीपस्थं शिवस्यायतनं शुभम् ॥
महाव्रतधरस्तत्र तपस्यति सुनैष्ठिकः ॥ ६.६५.४० ॥
स सदा रात्रिशौचार्थं कपालं जलपूरितम् ॥
मदीयं शयने चक्रे तत्र कृत्वा निजां क्रियाम् ॥ ४१ ॥
तत्प्रभावान्ममेयं हि विभूतिर्जायते निशि ॥
दिवा रिक्ते कृते याति भूय एव महामते॥४२॥
तस्मात्कुरु प्रसादं मे तत्र गत्वा कपालकम् ॥
चूर्णं कृत्वा मदीयं तत्तस्मिंस्तोये विनिक्षिप ॥४३॥
येन मे जायते मोक्षः प्रेतभावात्सुदारुणात् ॥ ४४ ॥
तथा तत्रास्ति पूर्वस्यां दिशि तत्तीर्थमुत्तमम् ॥
गयाशिर इति ख्यातं प्रेतत्वान्मुक्तिदा यकम् ॥ ४५ ॥
तत्र गत्वा कुरु श्राद्धं सर्वेषां त्वं महामते ॥
दृश्यते तव पार्श्वस्था भद्र संपुटिका शुभाम् ॥ ४६ ॥
अस्यां नामानि सर्वेषां यथाज्येष्ठं समालिख ॥
ततः श्राद्धं कुरुष्वाशु दयां कृत्वा गरीयसीम् ॥ ४७ ॥
वयं त्वां तत्र नेष्यामः सुखोपायेन भद्रक॥
निधिं च दर्शयिष्यामः श्राद्धार्थं सुमहत्तरम् ॥ ४८ ॥
तथेति समनुज्ञाते तेन शूद्रेण सत्वरम् ॥
निन्युस्तं स्कन्धमारोप्य शूद्रं क्षेत्रे यथोदितम् ॥ ४९ ॥
दर्शयामासुरेवास्य निधानं भूरिवित्तजम् ॥
तदादाय गतस्तत्र यत्रासौ नैष्ठिकः स्थितः ॥ ६.६५.५० ॥
ततः प्रणम्य तं भक्त्या कथ यामास विस्तरात् ॥
तस्य भूतपतेः सर्वं वृत्तांतं विनयान्वितः ॥ ५१ ॥
ततो लब्ध्वा कपालं तच्चूर्णयित्वा समाहितः ॥
गंगायमुनयोर्मध्ये प्रचिक्षेप मुदान्वितः ॥ ५२ ॥
एतस्मिन्नंतरे प्रेतो दिव्यरूपवपुर्धरः ॥
विमानस्थोऽब्रवीद्वाक्यं शूद्रं तं हर्षसंयुतः ॥ ५३ ॥
प्रसादात्तव मुक्तोऽहं प्रेतत्वाद्दारुणादितः ॥
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवालयम् ॥ ५४ ॥
एतेषामेव सर्वेषामिदानीं श्राद्धमाचर ॥
गत्वा गयाशिरः पुण्यं येन मुक्तिः प्रजायते ॥ ५५ ॥
ततः स विस्मयाविष्टस्तेषामेव पृथक्पृथक् ॥
श्राद्धं चक्रे च भूतानां नित्यमेव समाहितः ॥ ५६ ॥
तेऽपि सर्वे गताः स्वर्गं प्रेतास्तस्य प्रभावतः ॥
ददुश्च दर्शनं तस्य स्वप्रे हर्षसमन्विताः ॥ ५७ ॥
ततः शूद्रः स विज्ञाय तत्क्षेत्रं पुण्यवर्ध नम् ॥
न जगाम गृहं भूयस्तत्रैव तपसि स्थितः ॥ ५८ ॥
गंगायमुनयोः पार्श्वे शूद्रकेश्वरसंज्ञितम् ॥
लिगं संस्थापितं तेन सर्वपातकनाशनम् ॥ ५९ ॥
यस्तयोर्विधिवत्स्नानं कृत्वा पूजयते नरः ॥
शूद्रकेश्वरसंज्ञं च लिंगं श्रद्धासमन्वितः ॥ ६.६५.६० ॥
स सर्वैः पातकैर्मुक्तः प्रयाति शिव मंदिरम्॥
स्तूयमानश्च गंधर्वैर्विमानवरमाश्रितः ॥ ६१ ॥
यस्तत्र त्यजति प्राणान्कृत्वा प्रायोपवेशनम् ॥
न च भूयोऽत्र संसारे स जन्माप्नोति । मानवः ॥ ६२ ॥
गंडूषमपि तोयस्य यस्तस्य निवसन्पिबेत् ॥
सोऽपि संमुच्यते पापादाजन्ममरणांतिकात्॥६३॥
यस्तत्र ब्राह्मणेंद्राणां संप्रयच्छति भोजनम् ॥
पितरस्तस्य तृप्यंति यावत्कल्पशतत्रयम् ॥ ६४ ॥
त्रुटिमात्रं च यो दद्यात्तत्र स्वर्णं समाहितः ॥
स प्राप्नोति फलं कृत्स्नं राजसूयाश्वमेधयोः ॥ ६५ ॥
तस्मात्सर्वप्रयत्नेन तत्तीर्थवरमाश्रयेत् ॥
य इच्छेच्छाश्वतं स्वर्गं सदैव मनुजो द्विजाः ॥ ६६ ॥
अत्र गाथा पुरा गीता गौतमेन महर्षिणा॥
गंगायमुनयोस्तं च प्रभावं वीक्ष्य विस्मयात् ॥ ६७ ॥
गंगायमुनयोः संगे नरः स्नात्वा समाहितः ॥
शूद्रेश्वरं समालोक्य सद्यः स्वर्गमवाप्नुयात् ॥ ६८ ॥
एतद्वः सर्वमाख्यातं गंगायमुनयोर्मया ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ ६९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्य आनर्तकेश्वरशूद्रकेश्वरमाहात्म्यवर्णनंनाम पंचषष्टितमोऽध्यायः ॥ ६५ ॥ ॥