स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०६१

विकिस्रोतः तः


॥ ऋषय ऊचुः ॥ ॥
शर्मिष्ठातीर्थमित्युक्तं त्वया यच्च महामते ॥
कथं जातं महाभाग किंप्रभावं तु तद्वद ॥ १ ॥
॥ सूत उवाच॥ ॥
आसीद्राजा वृकोनाम सोमवंश समुद्भवः ॥
ब्रह्मण्यश्च शरण्यश्च सर्वलोकहिते रतः ॥ २ ॥
तस्य भार्याऽभवत्साध्वी प्राणेभ्योऽपि गरीयसी ॥
सर्वलक्षणसंपन्ना पतिव्रतपरायणा ॥ ॥ ३ ॥
अथ तस्यां समुत्पन्ना प्राप्ते वयसि पश्चिमे ॥
कन्यका दिवसे प्राप्ते सर्वशास्त्रविगर्हिते ॥ ४ ॥
तत आनीय विप्रान्स ज्योतिर्ज्ञानविचक्षणान् ॥
पप्रच्छ कीदृशी कन्या ममेयं संभविष्यति ॥ ५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
या कन्या प्राप्नुयाज्जन्म चित्रासंस्थे दिवाकरे ॥
चंद्रे वापि चतुर्दश्यां सा भवेद्विषकन्यका ॥ ६ ॥
यस्तस्याः प्रतिगृह्णाति पाणिं पार्थिवसत्तम ॥
षण्मासाभ्यंतरे मृत्युं स प्राप्नोति नरो ध्रुवम् ॥ ७ ॥
यस्मिन्सा जायते हर्म्ये षण्मासाभ्यंतरे च तत् ॥
करोति विभवैर्हीनं धनदस्याप्यसंशयम् ॥ ८ ॥
सेयं तव सुता राजन्यथोक्ता विष कन्यका ॥
पैतृकं श्वाशुरीयं च हनिष्यति गृहद्वयम् ॥ ९ ॥
तस्मादिमां परित्यज्य सुखी भव नराधिप ॥
श्रद्दधासि वचोऽस्माकं हित मुक्तं यदि प्रभो ॥ ६.६१.१० ॥
॥ राजोवाच ॥ ॥
त्यक्ष्यामि यदि नामैतां धारयिष्यामि वा गृहे ॥
अन्यदेहोद्भवं कर्म फलिष्यति तथापि मे ॥ ११ ॥
शुभं वा यदि वा पापं न तु शक्यं प्ररक्षितुम् ॥
तस्मात्कर्म पुरस्कृत्य नैव त्यक्ष्यामि कन्यकाम् ॥ १२ ॥
येनयेन शरीरेण यद्यत्कर्म करोति यः ॥
तेनतेनैव भूयः स प्राप्नोति सकलं फलम् ॥ १३ ॥
यस्यां यस्यामवस्थायां क्रियतेऽत्र शुभाशुभम् ॥
तस्यां तस्यां ध्रुवं तस्य फलं तद्भुज्यते नरैः ॥ १४ ॥
न नश्यति पुराकर्म कृतं सर्वेंद्रियैरिह ॥
अकृतं जायते नैव तस्मान्नास्ति भयं मम ॥ १५ ॥
आयुः कर्म च वित्तं च विद्या निधनमेव च ॥
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ १६ ॥
यथा वृक्षेषु वल्लीषु कुसुमानि फलानि च ॥
स्वकालं नातिवर्तंते तद्वत्कर्म पुराकृतम् ॥ १७ ॥
येनैव यद्यथा पूर्वं कृतं कर्म शुभाशुभम् ॥
स एव तत्तथा भुंक्ते नित्यं विहितमात्मनः ॥ १८ ॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥
तथैवं कोटिमध्यस्थं कर्तारं कर्म विन्दति ॥ १९ ॥
अन्यदेहकृतं कर्म न कश्चित्पुरुषो भुवि ॥
बलेन प्रज्ञया वापि समर्थः कर्तुमन्यथा ॥ ६.६१.२० ॥
अन्यथा शास्त्रगर्भिण्या धिया धीरो महीयते ॥
स्वामिवत्प्राक्कृतं कर्म विदधाति तदन्यथा ॥ २१ ॥
स्वकृतान्युपतिष्ठंति सुखदुःखानि देहिनाम् ॥
हेतुभूतो हि यस्तेषां सोऽहंकारेण बध्यते ॥ २२ ॥
सुशीघ्रमभिधावन्तं निजं कर्मानुधावति ॥
शेते सह शयानेन तिष्ठन्तमनुतिष्ठति ॥ २३ ॥
यथा छायातपौ नित्यं सुसंबद्धौ परस्परम् ॥
तथा कर्म च कर्ता च नात्र कार्या विचारणा ॥ २९ ॥
येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वा ॥
नरः स बद्धो रज्ज्वेव बलात्तत्रैव नीयते ॥ २५ ॥
प्रमाणं कर्मभूतानां सुखदुःखोपपादने ॥
सावधानतया यच्च जाग्रतां स्वपतामपि ॥ २६ ॥
तैलक्षये यथा दीपो निर्वाणमधिगच्छति ॥
कर्मक्षये तथा जंतुर्निर्वाणमधिगच्छति ॥ २७ ॥
न मन्त्रा न तपो दानं न तीर्थं न च संयमः ॥
समर्था रक्षितुं जंतुं पीडितं पूर्वकर्मभिः ॥ २८ ॥
संगत्या जठरे न्यस्तो रेतोबिन्दुरचेतनः ॥
ऋतुकाले मनुष्येण वृद्धिं गच्छति कर्मतः ॥ २९ ॥
अन्नपानानि जीर्यंति यत्र भक्ष्यं च भक्षितम् ॥
तस्मिन्नेवोदरे गर्भः कथं नाम न जीर्यति ॥ ६.६१.३० ॥
तस्मात्कर्मकृतं सर्वं देहिनामत्र जायते ॥
शुभं वा यदि वा पापमिति मे निश्चयः सदा ॥ ३१ ॥
अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति ॥
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥ ३२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये विषकन्यकोत्पत्तिवर्णनंनामैकषष्टितमोऽध्यायः ॥ ६१ ॥