स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०५९

विकिस्रोतः तः


॥ सूत उवाच ॥ ॥
तस्मिन्क्षेत्रे रविः पूर्वं विदुरेण प्रतिष्ठितम् ॥
शिवश्च परया भक्त्या तथा विष्णुर्द्विजोत्तमाः ॥ १ ॥
यस्तान्पूजयते भक्त्या मानुषो भक्तितस्ततः ॥
स यास्यति परं स्थानं यज्ञैरपि सुदुर्लभम् ॥२ ॥
हस्तिनापुरसंस्थेन विदुरेण पुरा द्विजाः ॥
गालवो मुनिशार्दूलः पृष्टः स्वगृहमागतः ॥ ३ ॥
अपुत्रस्य गतिर्लोके कीदृक्संजायते परे ॥
एतन्मे पृच्छतो ब्रूहि कृत्वा सद्भावमुत्तमम् ॥ ४ ॥
॥ गालव उवाच ॥ ॥
अपुत्रस्य गतिर्नास्ति मृतः स्वर्गं न गच्छति ॥
द्वादशानामपि तथा यद्येकोऽपि न विद्यते ॥ ५ ॥
औरसः क्षेत्रजश्चैव क्रयक्रीतश्च पालितः ॥
पौनर्भवः पुनर्दत्तः कुंडो गोलस्तथा परः ॥
कानीनश्च सहोढश्च अश्वत्थो ब्रह्मवृक्षकः ॥ ६ ॥
एतेषामपि यद्येकः पुरुषाणां न जायते ॥
तन्नूनं नरके वासः पुंसंज्ञे वै प्रजायते ॥ ७ ॥ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा वचनं तस्य गालवस्य महात्मनः ॥
अपुत्रत्वात्परं दुःखं जगाम विदुरस्तदा ॥ ८ ॥
तप्तस्तं गालवः प्राह मा त्वं दुःखपदं व्रज ॥
मद्वाक्यात्पुत्रकं वृक्षं विष्णुसंज्ञं द्रुतं कुरु ॥९॥
तस्मात्प्राप्स्यसि निःशेषं फलं पुत्रसमुद्भवम् ॥
गत्वा पुण्यतमे देशे रक्तशृंगस्य मूर्धनि ॥६.५९.१०॥
हाटकेश्वरजे क्षेत्रे सर्ववृद्धिशुभोदये ॥
तस्य तद्वचनं श्रुत्वा विदुरस्तत्क्षणाद्ययौ ॥ ११ ॥
तत्स्थानं गालवोद्दिष्टं हर्षेण महतान्वितः ॥
तत्राश्वत्थतरुं स्थाप्य पुत्रत्वे चाभिषेच्य च ॥ १२ ॥
वैवाहिकेन विधिना कृतकृत्यो बभूव ह ॥
ततो बभ्राम तत्क्षेत्रं तीर्थयात्रापरायणः॥ १३ ॥
कीर्तितानि विचित्राणि राजर्षीणां महात्मनाम् ॥
श्रुत्वा स्थानानि गत्वा च ददर्श स्थानदेवताः॥।४ ॥
स दृष्ट्वा कुरुवृद्धस्य कीर्तनानि महात्मनः ॥
ततश्चक्रे मतिं तत्र दिव्यप्रासादकर्मणि ॥ १५ ॥
ततो माहेश्वरं लिंगं वटाधस्ताद्विधाय सः ॥
विष्णुं च स्थापयामास अश्वत्थस्य तरोरधः ॥ १६ ॥
निवेश्य च तथा दिव्यं ब्राह्मणेभ्यो न्यवेदयत् ॥
एतद्देवत्रयं क्षेत्रे युष्माकं हि मया कृतम् ॥
भवद्भिः सकला चास्य चिन्ताकार्या सदैव हि ॥ १७ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
वयमस्य करिष्यामो यात्राद्याः सकलाः क्रियाः ॥ १८ ॥
तथा वंशोद्भवा ये च पुत्राः पौत्रास्तथापरे ॥
करिष्यंति क्रियाः सर्वास्त्वं गच्छ स्वगृहं प्रति ॥ १९ ॥
ततो जगाम विदुरः स्वपुरं प्रति हर्षितः ॥
कृतकृत्यो द्विजास्ते च चक्रुर्वाक्यं तदुद्भवम्॥ ६.५९.२० ॥
माघमासस्य सप्तम्यां सूर्यवारेण यो नरः ॥
पूजयेद्भास्करं तत्र स याति परमां गतिम् ॥ २१ ॥
शिवं वा सोमवारेण शुक्लाष्टम्यां विशेषतः ॥
शयने बोधने विष्णुं सम्यक्छ्रद्धासमन्वितः ॥ २२ ॥
तस्मात्सर्वप्रयत्नेन देवानां तत्त्रयं शुभम् ॥
पूजनीयं विशेषेण नरैः स्वर्गतिमीप्सुभिः ॥ २३ ॥
तत्र सिद्धिं गताः पूर्वं मुनयः संशितव्रताः ॥
विदुरेश्वरमाराध्य शतशोऽथ सहस्रशः ॥ २४ ॥
ततस्तत्सिद्धिदं ज्ञात्वा लिंगं वै पाकशासनः ॥
पांसुभिः पूरयामास यथा कश्चिन्न बुध्यते ॥ २५ ॥
कस्यचित्त्वथ कालस्य विदुरस्तत्र चागतः ॥
दृष्ट्वा लोपगतं लिंगं दुःखेन महतान्वितः ॥ २६ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
मा त्वं कुरु विषादं हि लिंगार्थे विदुराधुना ॥२७॥।
योऽयं स दृश्यते वालो वटस्तस्य तले स्थिता ॥
देवद्रोणिः सुरेशेन पांसुभिः परिपूरिता ॥ २८ ॥
ततो गजाह्वयात्तूर्णं समानीय धनं बहु ॥
शोधयामास तत्स्थानं दिवारात्रमतन्द्रितः ॥ २९ ॥
ततो विलोक्य तान्देवान्हर्षेण महतान्वितः ॥
प्रासादं निर्ममे तेषां योग्यं साध्वभिसंस्थितम् ॥ ॥ ६.५९.३० ॥
कैलासशिखराकारं भास्करार्थे महामुनिः ॥
जटामध्यगतं दृष्ट्वा वटस्य च महेश्वरम् ॥ ३१ ॥
प्रासादं नाकरोत्तत्र लिंगं यावन्न चालयेत् ॥
वासुदेवस्य योग्यां च कृत्वा शालां बृहत्तराम् ॥ ३२ ॥
दत्त्वा वृत्तिं च संहृष्टो ब्राह्मणेभ्यो निवेद्य च ॥
जगाम स्वाश्रमं भूयो विप्रानामंत्र्य तांस्ततः ॥ ३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विदुरकृतदेवप्रासादवृत्तान्त वर्णनंनामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥ ॥ छ ॥