स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०५७

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
तस्मिन्क्षेत्रे तथादित्यः स्थापितो द्विजसत्तमाः ॥
भीष्मेण ब्राह्मणेंद्राणां संमतेन तथात्मना ॥ १ ॥
शंतनोर्दयितः पुत्रो गांगेय इति विश्रुतः ॥
आसीत्पुरा वरो नृणामूर्ध्वरेताः सुविश्रुतः ॥ २ ॥
तस्यासीत्तुमुलं युद्धं भार्गवेण समं महत् ॥
त्रयोविंशद्दिनान्येव देवासुररणोपमम्॥
अंबाकृते शितैः शस्त्रैरस्त्रैश्च तदनंतरम्॥ ३ ॥
ततो ब्रह्मादयो देवाः स्वयमेव व्यवस्थिताः ॥
ताभ्यां निवारणार्थाय शांत्यर्थं सर्वदेहिनान् ॥
गताश्च ते समुत्थाप्य पुनरेव त्रिविष्टपम् ॥ ४ ॥
अंबापि प्राप्य परमं गांगेयोत्थं पराभवम् ॥
प्रविष्टा कोपरक्ताक्षी सुसमिद्धे हुताशने॥५॥
भर्त्सयित्वा नदीपुत्रं बाष्पव्याकुललोचना॥
ततःप्रोवाच मध्यस्था वह्नेः कुरुपितामहम्॥६॥
यस्माद्भीष्म त्वया त्यक्ता कामार्ताहं सुदुर्मते॥
तस्मात्तव वधायाशु भविष्यामि पुनः क्षितौ॥७॥
स्त्रीहत्यया समायुक्तस्त्वं च नूनं भविष्यसि॥
प्रमाणं यदि धर्मोऽत्र स्मृतिशास्त्रसमुद्भवः ॥ ८ ॥
ततः स घृणयाऽऽविष्टो भीष्मः कुरुपितामहः ॥
मार्कंडेयं मुनिश्रेष्ठं पप्रच्छ विनयान्वितः॥९॥
भगवन्काशिराजस्य सुतया मे प्रजल्पितम् ॥
मम मृत्युकरं पापं सकलं ते भविष्यति ॥ ६.५७.१० ॥
तत्किं स्याद्वाक्यमात्रेण नो वा ब्राह्मणसत्तम ॥
अत्र मे संशयस्तत्त्वं यथावद्वक्तुमर्हसि॥ ११ ॥
॥ श्रीमार्कंडेय उवाच ॥ ॥
आक्षिप्तस्ताडितो वापि यमुद्दिश्य त्यजेदसून् ॥
स्त्रीजनो वा द्विजो वापि तस्य पापं तु तद्भवेत् ॥ १२ ॥
स्त्रियं वा ब्राह्मणं वापि तस्मान्नैव प्रकोपयेत् ॥
निघ्नंतं वा शपंतं वा यदीच्छेच्छुभमात्मनः ॥ १३ ॥
त्वया पुनर्वराकी सा कामार्ता समुपेक्षिता ॥
जित्वा स्वयंवरे पूर्वं तत्कथं स्यान्न पापभाक् ॥।४॥
॥ भीष्म उवाच ॥ ॥
तदर्थं वद मे ब्रह्मन्प्रायश्चित्तं विशुद्धये ॥
तपो वा यदि वा दानं व्रतं नियममेव वा ॥ १५ ॥
॥ मार्कंडेय उवाच ॥ ॥
दशानां ब्राह्मणेंद्राणां यद्वधे पातकं स्मृतम् ॥
तत्पापं स्त्रीवधे कृत्स्नं जायते भरतर्षभ ॥ १६ ॥
तदत्र विषये दानं न तपो न व्रतादिकम् ॥
तीर्थसेवां परित्यज्य तस्मात्त्वं तां समाचर ॥ १७ ॥
॥ ॥ सूत उवाच ॥ ॥
स तस्य वचनं श्रुत्वा भीष्मः कुरुपितामहः ॥
तीर्थयात्रापरो भूत्वा बभ्राम क्षितिमंडले॥।८॥
ततः क्रमात्समायातो भ्रममाणो महीतले ॥
चमत्कारपुरे क्षेत्रे नानातीर्थसमाकुले ॥ १९ ॥
अथापश्यन्महात्मा स सुपुण्यं तद्गयाशिरः ॥
स्नात्वा श्राद्धं च विधिवद्यावच्छ्रद्धासम न्वितः ॥ ६.५७.२० ॥
चक्रे तावन्नभोवाणी वाक्यमेतदुवाच ह ॥
भीष्मभीष्म महाबाहो नार्हस्त्वं श्राद्धजं विधिम् ॥ २१ ॥
कर्तुं स्त्रीहत्ययायुक्तस्तस्माच्छृणु वचो मम ॥
शर्मिष्ठातीर्थमित्येव ख्यातं पातकनाशनम् ॥ २२ ॥
अस्मात्स्थानात्समीपस्थं वारुण्यां दिशि पुण्यकृत् ॥
कृष्णांगारकषष्ठ्यां यो नरः स्नानं समाचरेत् ॥ २३ ॥
स स्त्रीहत्याकृतात्पापान्मुच्यते नात्र संशयः ॥
तस्मादद्य दिने पुत्र भौमवारसमन्विता ॥ २४ ॥
सैव षष्ठी तिथिः पुण्या तस्मात्तत्र द्रुतं व्रज ॥
अहं तव पिता पुत्र शंतनुः पृथिवीपतिः ॥ २५ ॥
स्त्रीहत्ययान्वितं ज्ञात्वा ततस्तूर्णमिहागतः ॥
ततो भीष्मो द्रुतं गत्वा तत्र स्थाने समाहितः ॥ २६ ॥
स्नानं कृत्वा ततः श्राद्धं चक्रे श्रद्धासमन्वितः ॥
ततो भूयः समागत्य स तं प्रोवाच शतनुः ॥ २७ ॥
विपाप्मा त्वं कुरुश्रेष्ठ संजातोऽसि न संशयः ॥
तस्मान्निजं गृहं गच्छ राज्यचिंतां समाचर ॥ २८ ॥
ततः स विस्मयाविष्टो ज्ञात्वा तीर्थमनुत्तमम् ॥
वासुदेवात्मिकामर्चां तथान्यां कुरुसत्तमः ॥ २९ ॥
पारिजातमयीं मूर्तिं रवेर्लक्षणलक्षिताम् ॥
सुप्रमाणां सुरूपां च श्रद्धापूतेन चेतसा ॥ ६.५७.३० ॥
तथान्यत्स्थापयामास लिंगं देवस्य शूलिनः ॥
दुर्गां च भक्तिसंयुक्तो विधिदृष्टेन कर्मणा ॥ ३१ ॥
ततः सर्वान्समाहूय स विप्रान्पुरसंभवान् ॥
प्रोवाच कौरवो भीष्मो विनयावनतः स्थितः ॥ ३२ ॥
मया विनिर्मितं विप्रा देवागारचतुष्टयम् ॥
एतत्क्षेत्रे च युष्माकं दयां कृत्वा ममोपरि ॥ ३३ ॥
पालयध्वं प्रयास्यामि स्वगृहं प्रति सत्वरम्॥
प्रेरितः पितृभिर्दिव्यैः स्वर्गमार्गसमाश्रितैः ॥ ३४ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
गच्छगच्छ कुरुश्रेष्ठ सुविश्रब्धः स्वमायया ॥
वयं सर्वे करिष्यामो युष्मच्छ्रेयोऽभिवर्धनम् ॥ ३५ ॥
देवश्रेणिरियं राजन्या त्वयात्र विनिर्मिता ॥
अस्याः पूजादिकं सर्वं करिष्यामः सदा वयम्॥ ३६ ॥
तवापि विनयं दृष्ट्वा परितुष्टा वयं नृप ॥
सर्वान्प्रार्थय तस्मात्त्वं वरं स्वं मनसि स्थितम् ॥३७ ॥
॥ भीष्म उवाच ॥ ॥
एष एव वरोऽस्माकं यत्संतुष्टा द्विजोत्तमाः ॥
तथाप्याशु वचः कार्यं युष्मदीयं मयाधुना ॥ ३८ ।१
एतानि देवसद्मानि मदीयानि नरो भुवि ॥
यो यं काममभिध्याय पूजयेच्छ्रद्धयाऽन्वितः ॥
प्रसादादेव युष्माकं तस्य तत्स्यादसंशयम् ॥ ३९ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
आदित्यस्य करिष्यामो यात्रां भाद्रपदे वयम् ॥
सप्तम्यां सूर्यवारेण सर्वदैव समाहिताः ॥ ६.५७.४० ॥
तथा शिवस्य चाष्टम्यां चैत्रशुक्ले विशेषतः ॥
चतुर्दश्यां महाभाग तव स्नेहान्न संशयः ॥ ४१ ॥
शयने बोधने विष्णोः संप्राप्ते द्वादशीदिने ॥
विष्णोरपि च दुर्गायाः संप्राप्ते नवमीदिने ॥४२॥
आश्विने शुक्लपक्षे च गीतवादित्रनिस्वनैः॥
महोत्सवं तथा चित्रैर्हास्यलास्यैः पृथग्विधैः ॥ ४३.॥
यस्तत्र मानवो नित्यं श्रद्धया परया युतः ॥
करिष्यति च गीतादि स यास्यति परां गतिम् ॥ ४४ ॥
वयं तस्य भविष्यामः सदैव प्रीतमानसाः ॥
प्रदास्यामस्तथा कामान्मनसा वांछितान्नृप ॥ ॥ ४५ ॥
एवमुक्त्वाथ ते विप्राः स्वानि स्थानानि भेजिरे ॥
भीष्मोऽपि हर्षसंयुक्तः स्वगृहं प्रस्थितस्ततः ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये गांगेययात्राख्यानंनाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥ ॥ छ ॥ ॥