स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०५४

विकिस्रोतः तः


॥ सूत उवाच ॥ ॥
चर्ममुंडा तथा देवी तस्मिन्स्थाने व्यवस्थिता ॥
नलेन स्थापिता पूर्वं स्वयमेव महात्मना ॥ १ ॥
अभ्यर्चयति तां भक्त्या यो महानवमी दिने ॥
स कामान्वांछिताँल्लब्ध्वा पदं प्राप्नोति शाश्वतम् ॥ २ ॥
वीरसेनसुतः पूर्वं नलोनाम महीपतिः ॥
आसीत्सर्वगुणोपेतः सर्व शत्रुक्षयावहः ॥ ३ ॥
भार्या तस्याभवत्साध्वी प्राणेभ्योपि गरीयसी ॥
दमयंतीति विख्याता विदर्भाधिपतेः सुता ॥ ४ ॥
अथासौ कलिनाविष्टो द्यूतं चक्रे महीपतिः ॥
पुष्करेण समं विप्रा दायादेन दिवानिशम् ॥ ५ ॥
ततः स व्यसनासक्तो वार्यमाणोऽपि सज्जनैः ॥
हारयामास सप्तांगं राज्यं मुक्त्वा च तां प्रियाम् ॥ ६ ॥
अथ तां स समादाय प्रविष्टो गहनं वनम् ॥
निर्जलं लज्जयाविष्टो दुःखव्याकुलितेंद्रियः ॥ ७ ॥
ततः स चिंतयामास यद्येषा भीममंदिरे ॥
याति तन्मुच्यते कष्टाद्वनवाससमुद्भवात् ॥ ८ ॥
न मया तत्र गंतव्यं कथंचिदपि मानिना ॥
तस्मादेनां परित्यज्य रात्रौ गच्छामि दूरतः ॥ ९ ॥
येन त्यक्ता मया साध्वी कुण्डिनं याति तत्पुरम् ॥
स एवं निश्चयं कृत्वा सुखसुप्तां विहाय ताम् ॥
प्रजगाम वनं घोरं वन्यश्वापदसंकुलम्॥ ६.५४.१० ॥
प्रत्यूषे चापि सोत्थाय यावत्पश्यति भाभिनी ॥
तावत्पश्यतिशून्यं स्वं पार्श्वं यत्र नलः स्थितः ॥ ११ ॥
ततो विलप्य दुःखार्ता करुणं तत्र कानने ॥
जगाम मार्गमाश्रित्थ पितुर्हर्म्यं शनैःशनैः ॥ १२ ॥
नलोऽपि च वने तस्मिन्भ्रममाणो महीपतिः ॥
एकाकी वृक्षकुंजानि सेवयामास सर्वदा ॥ १३ ॥
ततस्तद्वनमुत्सृज्य जगामान्यन्महावनम् ॥
नानावृक्षगणैर्युक्तं बहुश्वापदसंकुलम् ॥ १४ ॥
एवं स पृथिवीपालो भ्रममाणोवनाद्वनम् ॥
हाटकेश्वरजं क्षेत्रमाससाद ततः परम् ॥ १५ ॥
एतस्मिन्नंतरे प्राप्तं तन्महानवमीदिनम् ॥
विशेषाद्यत्र भूपालाः पूजयन्ति सुरेश्वरीम् ॥ १६ ॥
ततः स मृन्मयीं कृत्वा चर्ममुण्डधरां नृपः ॥
विभवाभावतः पश्चात्फलमूलैरतर्पयत् ॥ १७ ॥
ततस्तस्याः स्तुतिं कृत्वा पुरः स्थित्वा कृतांजलिः ॥
श्रद्धया परया युक्तो निषधाधिपतिः स्वयम् ॥ १८ ॥
जय सर्वगते देवि चर्ममुण्डधरे वरे ॥
जय दैत्यकुलोच्छेददक्षे दक्षात्मजे शुभे ॥ १९ ॥
कालरात्रि जयाचिन्त्ये नवम्यष्टमिवल्लभे ॥
त्रिनेत्रे त्र्यंबकाभीष्टे जय देवि सुरार्चिते॥ ॥ ६.५४.२० ॥
भीमरूपे सुरूपे च महाविद्ये महाबले ॥
महोदये महाकाये जयदेवि महाव्रते ॥ २१ ॥
नित्यरूपे जगद्धात्रि सुरामांसवसाप्रिये ॥
विकरालि महाकालि जय प्रेतजनानुगे ॥ २२ ॥
शवयानरते रम्ये भुजंगाभरणान्विते ॥
पाशहस्ते महाहस्ते रुधिरौघकृतास्पदे ॥ २३ ॥
फेत्कारा रवशोभिष्ठे गीतवाद्यविराजिते ॥
जयानाद्ये जय ध्येये भर्गदेहार्धसंश्रये ॥ २४ ॥
त्वं रतिस्त्वं धृतिस्तुष्टिस्त्वं गौरी त्वं सुरेश्वरी ॥
त्वं लक्ष्मीस्त्वं च सावित्री गायत्री त्वमसंशयम् ॥ २५ ॥
यत्किंचित्त्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते ॥
तत्सर्वं त्वन्मयं नात्र विकल्पोऽस्ति मम क्वचित् ॥ २६ ॥
येन सत्येन तेन त्वमत्रावासं द्रुतं कुरु ॥
सान्निध्यं भक्तितस्तुष्टा सुरासुरनमस्कृते ॥ २७ ॥
॥ सूत उवाच ॥ ॥
एवं स्तुता च सा देवी नलेन पृथिवीभुजा ॥
प्रोवाच दर्शनं गत्वा तं नृपं भक्तवत्सला ॥ २८ ॥
॥ श्रीदेव्युवाच ॥ ॥
परितुष्टाऽस्मि ते वत्स स्तोत्रेणानेन सांप्रतम् ॥
तस्माद्गृहाण मत्तस्त्वं वरं मनसि संस्थितम् ॥ २९ ॥
॥ नल उवाच ॥ ॥
दमयन्तीति मे भार्या प्राणेभ्योऽपि गरीयसी ॥
सा मया निर्जने मुक्ता
वने व्यालगणान्विते ॥ ६.५४.३० ॥
अखण्डशीलां निर्दोषां यथाहं त्वत्प्रसादतः ॥
लभे भूयोऽपि तां देवि तथात्र कुरु सत्वरम् ॥ ३१ ॥
स्तोत्रेणानेन यो देवि स्तुतिं कुर्यात्पुरस्तव ॥
तत्रैव दिवसे तस्मै त्वया देयं मनोगतम् ॥ ३२ ॥
॥ सूत उवाच ॥ ॥
सा तथेति प्रतिज्ञाय जगामादर्शनं ततः ॥
सोऽपि पार्थिवशार्दूलो लेभे सर्वं तयोदितम् ॥ ३३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नलनिर्मितचर्ममुण्डामाहात्म्यवर्णनंनाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥ ॥