स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०५१

विकिस्रोतः तः


॥ सूत उवाच ॥ ॥
अथ ताच्छपथाञ्छ्रुत्वा स व्याघ्रो विस्मयान्वितः ॥
सत्यं मत्वा पुनः प्राह नन्दिनीं पुत्रवत्सलाम् ॥ १ ॥
यद्येवं तद्गृहं गच्छ वीक्षयस्व निजात्मजम्॥
सखीनामर्पयित्वाथ भूय आगमनं कुरु ॥ २ ॥
॥ सूत उवाच ॥ ॥
इति व्याघ्रवचः श्रुत्वा सुशीला नन्दिनी तदा ॥
गतालयं समुद्दिश्य यत्र बालः सुतः स्थितः॥ ३ ॥
अथाकालागतां दृष्ट्वा मातरं त्रस्तचेतसम्॥
रंभमाणां समालोक्य वत्सः प्रोवाच विस्मयात् ॥४॥
कस्मात् प्राप्तास्यकाले तु कस्मादुद्भ्रांतमानसा ॥
वाष्पक्लिन्नमुखी कस्माद्वद मातर्द्रुतंमम ॥ ५ ॥
॥ नंदिन्युवाच ॥ ॥
यदि पृच्छसि मां पुत्र स्तनपानं समाचर ॥
येन तृप्तस्य ते सर्वं वृत्तांतं तद्वदाम्यहम् ॥ ६ ॥
॥ सूत उवाच ॥ ॥
सोऽपि तद्वचनं श्रुत्वा पीत्वा क्षीरं यथोचितम् ॥
आघ्रातश्च तया मूर्ध्नि ततः प्रोवाच सत्वरम् ॥ ७ ॥
सर्वं कीर्तय वृत्तांतमद्यारण्यसमुद्भवम् ॥
येन मे जायते स्वास्थ्यं श्रुत्वा मातस्तवास्यतः ॥ ८ ॥
॥ नंदिन्युवाच ॥ ॥
अहं गता महारण्ये ह्यद्य पुत्र यथेच्छया ॥
व्याघ्रेणासादिता तत्र भ्रममाणा इतस्ततः ॥ ९ ॥
स मया प्रार्थितः पुत्र भक्षमाणो नखायुधः ॥
शपथैरागमिष्यामि गोकुले वीक्ष्य चात्मजम्॥६.५१.१०॥
साहं तेन विनिर्मुक्ता शपथैर्बहुभिः कृतैः ॥
भूयस्तत्रैव यास्यामि दृष्टः संभाषितो भवान् ॥ ११ ॥
॥ वत्स उवाच ॥ ॥
अहं तत्रैव यास्यामि यत्र त्वं हि प्रगच्छसि ॥
श्लाघ्यं हि मरणं सम्यङ्मातुरग्रे ममाधुना ॥ १२ ॥
एकाकिनापि मर्तव्यं त्वया हीनेन वै मया ॥
विनापि क्षीरपानेन स्वल्पेन समयेन तु ॥ १३ ॥
यदि मातस्त्वया सार्धं व्याघ्रो मां सूदयिष्यति ॥
या गतिर्मातृभक्तानां सा मे नूनं भविष्यति ॥ १४ ॥
अथवा ये त्वया तस्य विहिताः शपथाः शुभे ॥
ते संतु मम तिष्ठ त्वं तस्मादत्रैव गोकुले ॥ ॥ १५ १।
नास्ति मातृसमो बन्धुर्बालानां क्षीरजीविनाम् ॥
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः ॥ १६ ॥
नास्ति मातृसमः पूज्यो नास्ति मातृसमः सखा ॥
नास्ति मातृसमो देव इह लोके परत्र च ॥ १७ ॥
एवं मत्वा सदा मातुः कर्तव्या भक्तिरुत्तमैः ॥
तमेनं परमं धर्मं प्रजापतिविनिर्मितम् ॥
अनुतिष्ठंति ये पुत्रास्ते यांति परमां गतिम् ॥ १८ ॥
तस्मादहं गमिष्यामि त्वं च तिष्ठात्र गोकुले ॥
आत्मप्राणैस्तव प्राणान्रक्षयिष्याम्यसंशयम् ॥ १९ ॥
॥ नंदिन्युवाच ॥ ॥
ममैव विहितो मृत्युर्न ते पुत्राद्य वासरे ॥
तत्कथं मम जीवं त्वं रक्षस्यसुभिरात्मनः ॥ ॥ ६.५१.२० ॥
अपश्चिममिदं पुत्र मातृसंदिष्टमुत्तमम् ॥
त्वया कार्यं प्रयत्नेन मद्वाक्यमनुतिष्ठता ॥ २१ ॥
भ्रममाणो वने पुत्र मा प्रमादं करिष्यसि ॥
लोभात्संजायते नाश इहलोके परत्र च ॥ २२ ॥
समुद्रमटवीं युद्धं विशंते लोभमोहिताः ॥
इह तन्नास्ति लोभेन यत्र कुर्वंति मानवाः ॥ २३ ॥
लोभात्प्रमादाद्विश्रंभात्पुरुषो वध्यते त्रिभिः ॥
तस्माल्लोभो न कर्तव्यो न प्रमादो न विश्वसेत् ॥ २४ ॥
आत्मा पुत्र त्वया रक्ष्यः सर्वदैव प्रय त्नतः ॥
सर्वेभ्यः श्वापदेभ्यश्च भ्रमता गहने वने ॥ २५ ॥
विषमस्थं तृणान्नाद्यं कथंचित्पुत्रक त्वया ॥
नैकाकिना प्रगंतव्यं यूथं त्यक्त्वा निजं क्वचित् ॥ २६ ॥
एवं संभाष्य तं वत्समवलिह्य मुहुर्मुहुः ॥
शोकेन महताविष्टा बाष्पव्याकुललोचना ॥ २७ ॥
ततः सखीजनं सर्वं गता द्रष्टुं द्विजोत्तमाः ॥
नन्दिनीं पुत्रशोकेन पीडितांगी सुविह्वला ॥ २८ ॥
ततः प्रोवाच ताः सर्वा गत्वाऽरण्यं द्विजोत्तमाः ॥
चरंतीः स्वेच्छया हृष्टा वांछितानि तृणानि ताः ॥२९ ॥
बहुले चंपके दामे वसुधारे घटस्रवे ॥
हंसनादि प्रियानंदे शुभक्षीरे महोदये ॥ ६.५१.३० ॥
तथान्या धेनवो याश्च संस्थिता गोकुलांतिके ॥
शृण्वंतु वचनं मह्यं कुर्वंतु च ततः परम् ॥
अद्याहं निजयूथस्य भ्रमंती नातिदूरतः ॥ ३१ ॥
ततश्च गहनं प्राप्ता वनं मानुषवर्जितम् ॥
व्याघ्रेणासादिता तत्र भ्रमंती तृणवांछया ॥ ३२ ॥
युष्माकं दर्शनार्थाय सुतसंभाषणाय च ॥
संप्राप्ता शपथैः कृच्छ्रात्तं विश्वास्य नखायुधम् ॥ ३३ ॥
दृष्टः संभाषितः पुत्रः शासितश्च मया हि सः ॥
अधुना भवतीनां च प्रदत्तः पुत्रको यथा ॥ ३४ ॥
अज्ञानाज्ज्ञानतो वापि भवतीनां मया कृतम् ॥
यत्किंचिद्दुष्कृतं भद्रास्तत्क्षंतव्यं प्रसादतः ॥३५॥
अनाथो ह्यबलो दीनः क्षीरपो मम बालकः ॥
मातृशोकाभिसंतप्तः पाल्यः सर्वाभिरेव सः ॥ ३६ ॥
भ्रममाणोऽसमे स्थाने व्रजमानोऽन्यगोकुले ॥
अकार्येषु च संसक्तो निवार्यः सर्वदाऽऽदरात् ॥ ३७ ॥
अहं तत्र गमिष्यामि स व्याघ्रो यत्र संस्थितः ॥
अपश्चिमप्रणामोऽयं सर्वासां विहितो मया ॥ ३८ ॥
॥ धेनव ऊचुः ॥ ॥
न गंतव्यं त्वया तत्र कथंचिदपि नंदिनि ॥
आपद्धर्मं न वेत्सि त्वं नूनं येन प्रगच्छसि ॥ ३९ ॥
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु जातिर्न विवाहकाले ॥
प्राणात्यये सर्वधनापहारे पंचानृतान्याहुरपातकानि ॥ ६.५१.४० ॥
तस्मात्तत्र न गंतव्यं दोषो नास्त्यत्र ते शुभे ॥
पालयस्व निजं पुत्रं व्रजास्माभिर्निजं गृहम् ॥ ॥ ४१ ॥
॥ नंदिन्युवाच ॥ ॥
परेषां प्राणयात्रार्थं तत्कर्तुं युज्यते शुभाः ॥
आत्मप्राणहितार्थाय न साधूनां प्रशस्यते ॥ ४२ ॥
सत्ये प्रतिष्ठितो लोको धर्मः सत्ये प्रतिष्ठितः ॥
उदधिः सत्यवाक्येन मर्यादां न विलंघयेत् ॥ ४३ ॥
विष्णवे पृथिवीं दत्त्वा बलिः पातालमाश्रितः ॥
सत्यवाक्यं समाश्रित्य न निष्क्रामति दैत्यपः ॥ ४४ ॥
यः स्वं वाक्यं प्रतिज्ञाय न करोति यथोदितम् ॥
किं तेन न कृतं पापं चौरेणाकृत बुद्धिना ॥ ४५ ॥
॥ सख्य ऊचुः ॥ ॥
त्वं नंदिनि नमस्कार्या सर्वेरपि सुरासुरैः ॥
या त्वं सत्यप्रतिष्ठार्थं प्राणांस्त्यजसि दुस्त्यजान् ॥ ४६ ॥
किं त्वां कल्याणि वक्ष्यामः स्वयं धर्मार्थवादिनीम् ॥
सवरेंपि गुणैर्युक्ता नित्यं सत्ये प्रतिष्ठिताम् ॥ ४७ ॥
तस्माद्गच्छ महाभागे न शोच्यः पुत्रकस्तव ॥
भवत्या यद्वयं प्रोक्तास्तत्करिष्याम एव हि ॥ ४८ ॥
एतत्पुनर्वयं विद्मः सदा सत्यवतां नृणाम् ॥
न निष्फलः क्रियारंभः कथंचिदपि जायते ॥ ४९ ॥
॥ सूत उवाच ॥ ॥
एवं संभाष्य तं सर्वं नंदिनी स्वसखीजनम् ॥
प्रस्थिता व्याघ्रमुद्दिश्य पुत्रशोकेन पीडिता ॥ ६.५१.५० ॥
शोकाग्निनापि संतप्ता निराशा पुत्रदर्शने ॥
वियुक्ता चक्रवाकीव लतेव पतिता तरोः ॥ ५१ ॥
अंधेव दृष्टिनिर्मुक्ता प्रस्खलंती पदेपदे ॥
वनाधिदेवताः सर्वाः प्राऽर्थयच्च सुतार्थतः ॥ ५२ ॥
प्रसुप्तं भ्रममाणं वा मम पुत्रं सुबालकम् ॥
वनाधिदेवताः सर्वा रक्षंतु वचनान्मम ॥ ५३ ॥
एवं प्रलप्य मनसा संप्राप्ता तत्र यत्र सः ॥
आस्ते विस्फूर्जितास्यश्च तीक्ष्णदंष्ट्रो भयावहः ॥ ५४ ॥
व्याघ्रः क्षुत्क्षामकण्ठश्च तस्या मार्गावलोककः ॥
संरंभाटोपसंयुक्तः सृक्किणी परिलेहयन् ॥ ५५ ॥
॥ नंदिन्युवाच ॥ ॥
आगताहं महाव्याघ्र सत्ये च शपथे स्थिता ॥
कुरु तृप्तिं यथाकामं मम मांसेन सांप्रतम् ॥ ५६ ॥
तां दृष्ट्वा सोऽपि दुष्टात्मा वैराग्यं परमं गतः ॥
सत्याशया पुनः प्राप्ता संत्यज्य प्राणजं भयम् ॥ ५७ ॥
॥ व्याघ्र उवाच ॥ ॥
स्वागतं तव कल्याणि सुधेनो सत्यवादिनि ॥
न हि सत्यवतां किंचिदशुभं विद्यते क्वचित् ॥ ५८ ॥
त्वयोक्तं शपथैर्भद्रे आगमिष्याम्यहं पुनः ॥
तेन मे कौतुकं जातं किमेषा प्रकरिष्यति ॥ ५९ ॥
सोऽहं भद्रे दुराचारो नृशंसो जीवघातकः ॥
यास्यामि नरकं घोरं कर्मणानेन सर्वदा ॥ ६.५१.६० ॥
तस्मात्त्वं मे महाभागे पापास्यातिदुरात्मनः ॥
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥ ६१ ॥
येन मे स्यात्परं श्रेय इह लोके परत्र च ॥
न तेऽस्त्यविदितं किंचित्सत्याचारान्मतिर्मम ॥ ६२ ॥
तस्मात्त्वं धर्मसर्वस्वं संक्षेपान्मम कीर्तय ॥
सत्संगमफलं येन मम संजायतेऽखिलम्॥ ६३ ॥
॥ नंदिन्युवाच ॥ ॥
तपः कृते प्रशंसंति त्रेतायां ध्यानमेव च ॥
द्वापरे यज्ञयोगं च दानमेकं कलौ युगे ॥
सर्वेषामेव दानानां नास्ति दानमतः परम् ॥ ६४ ॥
चराचराणां भूतानामभयं यः प्रयच्छति ॥
स सर्वभयनिर्मुक्तः परं ब्रह्मा धिगच्छति ॥ ६५ ॥
॥ व्याघ्र उवाच ॥ ॥
अन्येषां चैव भूतानां तद्दानं युज्यते शुभे ॥
अहिंसया भवेद्येषां प्राणयात्रान्नपूर्वकम् ॥ ६६ ॥
न हिंसया विनाऽस्माकं यतः स्यात्प्राणधारणम् ॥
तस्माद्ब्रूहि महाभागे किञ्चिन्मम सुखावहम् ॥
उपदेशं सुधर्माय हिंसकस्यापि देहिनाम् ॥ ॥ ६७ ॥
॥ नन्दिन्युवाच ॥ ॥
अत्रास्ति सुमहल्लिंगं पुरा बाणप्रतिष्ठितम् ॥
गहने यत्प्रभावेन त्वया मुक्तास्म्यहं ध्रुवम् ॥ ६८ ॥
तस्य त्वं प्रातरुत्थाय कुरु नित्यं प्रदक्षिणाम् ॥
प्रणामं च ततः सिद्धिं वांछितां समवाप्स्यसि ॥ ६९ ॥
नान्यस्य कर्मणः शक्तिर्विद्यते ते नखायुध ॥
पूजादिकस्य हीनत्वाद्धस्ताभ्यामिति मे मतिः ॥ ६.५१.७० ॥
एवमुक्त्वाथ सा धेनुर्व्याघ्रस्याथ वनांतिके ॥
तल्लिंगं दर्शयामास पुरः स्थित्वा द्विजोत्तमाः ॥ ७१ ॥
सोऽपि संदर्शनात्तस्य तत्क्षणान्मुक्तिमाप्तवान् ॥
व्याघ्रत्वात्पार्थिवो भूयः स बभूव यथा पुरा ॥ ७२ ॥
शापं दुर्वाससा दत्तं राज्यं स्वं सहितैः सुतैः ॥
सस्मार स नृपश्रेष्ठस्ततः प्रोवाच नंदिनीम् ॥ ७३ ॥
नृपः कलशनामाहं हैहयान्वयसंभवः ॥
शप्तो दुर्वाससा पूर्वं कस्मिंश्चित्कारणांतरे ॥ ७४ ॥
ततः प्रसादितेनोक्तस्तेनाहं नंदिनी यदा ॥
दर्शयिष्यति तल्लिंगं तदा मुक्तिर्भविष्यति ॥ ७५ ॥
सा नूनं नन्दिनी त्वं हि ज्ञाता शापान्ततो मया ॥
तत्त्वं ब्रूहि प्रदेशोऽयं कतमो वरधेनुके ॥ ७६ ॥
येन गच्छाम्यहं भूयः स्वगृहं प्रति सत्वरम् ॥
मार्गं दृष्ट्वा महाभागे मानुषं प्राप्य कञ्चन ॥७७ ॥ ॥
॥ नंदिन्युवाच ॥ ॥
चमत्कारपुरक्षेत्रमेतत्पातकनाशनम् ॥
सर्वतीर्थमयं राजन्सर्वकामप्रदायकम् ॥ ७८ ॥
यदन्यत्र भवेच्छ्रेयो वत्सरेण तपस्विनाम् ॥
दिनेनैवात्र तत्सम्यग्जायते नात्र संशयः ॥ ७९ ॥
एवं मत्वा मया लिंगं स्नापितं पयसा सदा ॥
एतद्यूथं परित्यज्य भक्त्या पूतेन चेतसा ॥ ६.५१.८० ॥
॥ राजोवाच ॥ ॥
गच्छ नन्दिनि भद्रं ते निजं प्राप्नुहि बालकम् ॥
गोकुलं च सखीः स्वाश्च तथान्यं च सुहृज्जनम् ॥ ८१ ॥
एतत्क्षेत्रं मया पूर्वं ब्राह्मणानां मुखाच्छ्रुतम् ॥
वांछितं च सदा प्रष्टुं न च द्रष्टुं प्रपारितम् ॥ ८२ ॥
राज्यकर्मप्रसक्तेन भोगासक्तेन नंदिनि ॥
स्वयमेवाधुना लब्धं नाहं सन्त्यक्तुमुत्सहे ॥ ८३ ॥
दिष्ट्या मे मुनिना तेन दत्तः शापो महात्मना ॥
कथं स्यादन्यथा प्राप्तिः क्षेत्रस्यास्य सुशोभने ॥ ॥ ८४ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा महीपालो नन्दिनीं तां विसृज्य च ॥
स्थितस्तत्रैव तल्लिंगं ध्यायमानो दिवानिशम् ॥ ८५ ॥
प्रासादं तत्कृते मुख्यं विधायाद्भुतदर्शनम् ॥
कैलासशिखराकारं तपस्तेपे तदग्रतः ॥ ८६ ॥
ततस्तस्य प्रभावेन स्वल्पैरेव दिनैर्द्विजाः ॥
संप्राप्तः परमां सिद्धिं दुर्लभां याज्ञिकैरपि ॥ ८७ ॥
तत्र यः कार्तिके मासि दीपकं संप्रयच्छति ॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ८८
मार्गशीर्षे च सम्प्राप्ते गीतनृत्यादिकं नरः ॥
तदग्रे कुरुते भक्त्या स गच्छति परां गतिम् ॥ ८९ ॥
एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ॥
कलशेश्वरमाहात्म्यं विस्तरेण द्विजोत्तमाः ॥ ६.५१.९० ॥
भक्त्या पठति यश्चैतच्छ्रद्धया परया युतः ॥
सोऽपि पापविनिर्मुक्तः शिवलोके महीयते ॥ ९१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कलशेश्वरमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽ ध्यायः ॥ ५१ ॥